हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
महेन्द्र कृत महालक्ष्मी स्तोत्रं
महेन्द्र
उवाच
नमः
कमलवासिन्यै
नारायण्यै
नमो
नमः
।
कृष्णप्रियायै
सारायै
पद्मायै
च
नमो
नमः
॥
1
॥
पद्मपत्रेक्षणायै
च
पद्मास्यायै
नमो
नमः
।
पद्मासनायै
पद्मिन्यै
वैष्णव्यै
च
नमो
नमः
॥
2
॥
सर्वसम्पत्स्वरूपायै
सर्वदात्र्यै
नमो
नमः
।
सुखदायै
मोक्षदायै
सिद्धिदायै
नमो
नमः
॥
3
॥
हरिभक्तिप्रदात्र्यै
च
हर्षदात्र्यै
नमो
नमः
।
कृष्णवक्षःस्थितायै
च
कृष्णेशायै
नमो
नमः
॥
4
॥
कृष्णशोभास्वरूपायै
रत्नाढ्यायै
नमो
नमः
।
सम्पत्यधिष्ठातृदेव्यै
महादेव्यै
नमो
नमः
॥
5
॥
सस्याधिष्ठातृदेव्यै
च
सस्यलक्ष्म्यै
नमो
नमः
।
नमो
बुद्धिस्वरूपायै
बुद्धिदायै
नमो
नमः
॥
6
॥
वैकुण्ठे
च
महालक्ष्मीर्लक्ष्मीः
क्षीरोदसागरे
।
स्वर्गलक्ष्मीरिन्द्रगेहे
राजलक्ष्मीर्नृपालये
॥
7
॥
गृहलक्ष्मीश्च
गृहिणां
गेहे
च
गृहदेवता
।
सुरभिः
सा
गवां
माता
दक्षिणा
यज्ञकामिनी
॥
8
॥
अदितिर्देवमाता
त्वं
कमला
कमलालये
।
स्वाहा
त्वं
च
हविर्दाने
कव्यदाने
स्वधा
स्मृता
॥
9
॥
त्वं
हि
विष्णुस्वरूपा
च
सर्वाधारा
वसुन्धरा
।
शुद्धसत्त्वस्वरूपा
त्वं
नारायणपरायाणा
॥
10
॥
क्रोधहिंसावर्जिता
च
वरदा
च
शुभानना
।
परमार्थप्रदा
त्वं
च
हरिदास्यप्रदा
परा
॥
11
॥
यया
विना
जगत्सर्वं
भस्मीभूतमसारकम्
।
जीवन्मृतं
च
विश्वं
च
शवतुल्यं
यया
विना
॥
12
॥
सर्वेषां
च
परा
त्वं
हि
सर्वबान्धवरूपिणी
।
यया
विना
न
सम्भाष्यो
बान्धवैर्बान्धवः
सदा
॥
13
॥
त्वया
हीनो
बन्धुहीनस्त्वया
युक्तः
सबान्धवः
।
धर्मार्थकाममोक्षाणां
त्वं
च
कारणरूपिणी
॥
14
॥
स्तनन्धयानां
त्वं
माता
शिशूनां
शैशवे
यथा
।
तथा
त्वं
सर्वदा
माता
सर्वेषां
सर्वविश्वतः
॥
15
॥
त्यक्तस्तनो
मातृहीनः
स
चेज्जीवति
दैवतः
।
त्वया
हीनो
जनः
कोऽपि
न
जीवत्येव
निश्चितम्
॥
16
॥
सुप्रसन्नस्वरूपा
त्वं
मे
प्रसन्ना
भवाम्बिके
।
वैरिग्रस्तं
च
विषयं
देहि
मह्यं
सनातनि
॥
17
॥
वयं
यावत्त्वया
हीना
बन्धुहीनाश्च
भिक्षुकाः
।
सर्वसम्पद्विहीनाश्च
तावदेव
हरिप्रिये
॥
18
॥
राज्यं
देहि
श्रियं
देहि
बलं
देहि
सुरेश्वरि
।
कीर्तिं
देहि
धनं
देहि
पुत्रान्मह्यं
च
देहि
वै
॥
19
॥
कामं
देहि
मतिं
देहि
भोगान्
देहि
हरिप्रिये
।
ज्ञानं
देहि
च
धर्मं
च
सर्वसौभाग्यमीप्सितम्
॥
20
॥
सर्वाधिकारमेवं
वै
प्रभावां
च
प्रतापकम्
।
जयं
पराक्रमं
युद्धे
परमैश्वर्यमैव
च
॥
21
॥
इत्युक्त्वा
तु
महेन्द्रश्च
सर्वैः
सुरगणैः
सह
।
ननाम
साश्रुनेत्रोऽयं
मूर्ध्ना
चैव
पुनः
पुनः
॥
22
॥
ब्रह्मा
च
शङ्करश्चैव
शेषो
धर्मश्च
केशवः
।
सर्वे
चक्रुः
परीहारं
सुरार्थे
च
पुनः
पुनः
॥
23
॥
देवेभ्यश्च
वरं
दत्त्वा
पुष्पमालां
मनोहराम्
।
केशवाय
ददौ
लक्ष्मीः
सन्तुष्टा
सुरसंसदि
॥
24
॥
ययुर्दैवाश्च
सन्तुष्टाः
स्वं
स्वं
स्थानं
च
नारद
।
देवी
ययौ
हरेः
क्रोडं
हृष्टा
क्षीरोदशायिनः
॥
25
॥
ययतुस्तौ
स्वस्वगृहं
ब्रह्मेशानौ
च
नारद
।
दत्त्वा
शुभाशिषं
तौ
च
देवेभ्यः
प्रीतिपूर्वकम्
॥
26
॥
इदं
स्तोत्रं
महापुण्यं
त्रिसन्ध्यं
यः
पठेन्नरः
।
कुबेरतुल्यः
स
भवेद्राजराजेश्वरो
महान्
॥
27
॥
सिद्धस्तोत्रं
यदि
पठेत्
सोऽपि
कल्पतरुर्नरः
।
पञ्चलक्षजपेनैव
स्तोत्रसिद्धिर्भवेन्नृणाम्
॥
28
॥
सिद्धस्तोत्रं
यदि
पठेन्मासमेकं
च
संयतः
।
महासुखी
च
राजेन्द्रो
भविष्यति
न
संशयः
॥
29
॥
इति
श्रीब्रह्मवैवर्ते
महापुराणे
द्वितीये
प्रकृतिखण्डे
नारदनारायणसंवादे
एकोनचत्वारिंशत्तमोऽध्याये
महेन्द्र
कृत
श्री
महालक्ष्मी
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits