हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
लक्ष्मी सहस्रनामावलि
ओं
नित्यागतायै
नमः
।
ओं
अनन्तनित्यायै
नमः
।
ओं
नन्दिन्यै
नमः
।
ओं
जनरञ्जन्यै
नमः
।
ओं
नित्यप्रकाशिन्यै
नमः
।
ओं
स्वप्रकाशस्वरूपिण्यै
नमः
।
ओं
महालक्ष्म्यै
नमः
।
ओं
महाकाल्यै
नमः
।
ओं
महाकन्यायै
नमः
।
ओं
सरस्वत्यै
नमः
।
ओं
भोगवैभवसन्धात्र्यै
नमः
।
ओं
भक्तानुग्रहकारिण्यै
नमः
।
ओं
ईशावास्यायै
नमः
।
ओं
महामायायै
नमः
।
ओं
महादेव्यै
नमः
।
ओं
महेश्वर्यै
नमः
।
ओं
हृल्लेखायै
नमः
।
ओं
परमायै
नमः
।
ओं
शक्तये
नमः
।
ओं
मातृकाबीजरुपिण्यै
नमः
।
20
ओं
नित्यानन्दायै
नमः
।
ओं
नित्यबोधायै
नमः
।
ओं
नादिन्यै
नमः
।
ओं
जनमोदिन्यै
नमः
।
ओं
सत्यप्रत्ययिन्यै
नमः
।
ओं
स्वप्रकाशात्मरूपिण्यै
नमः
।
ओं
त्रिपुरायै
नमः
।
ओं
भैरव्यै
नमः
।
ओं
विद्यायै
नमः
।
ओं
हंसायै
नमः
।
ओं
वागीश्वर्यै
नमः
।
ओं
शिवायै
नमः
।
ओं
वाग्देव्यै
नमः
।
ओं
महारात्र्यै
नमः
।
ओं
कालरात्र्यै
नमः
।
ओं
त्रिलोचनायै
नमः
।
ओं
भद्रकाल्यै
नमः
।
ओं
कराल्यै
नमः
।
ओं
महाकाल्यै
नमः
।
ओं
तिलोत्तमायै
नमः
।
40
ओं
काल्यै
नमः
।
ओं
करालवक्त्रान्तायै
नमः
।
ओं
कामाक्ष्यै
नमः
।
ओं
कामदायै
नमः
।
ओं
शुभायै
नमः
।
ओं
चण्डिकायै
नमः
।
ओं
चण्डरूपेशायै
नमः
।
ओं
चामुण्डायै
नमः
।
ओं
चक्रधारिण्यै
नमः
।
ओं
त्रैलोक्यजनन्यै
नमः
।
ओं
देव्यै
नमः
।
ओं
त्रैलोक्यविजयोत्तमायै
नमः
।
ओं
सिद्धलक्ष्म्यै
नमः
।
ओं
क्रियालक्ष्म्यै
नमः
।
ओं
मोक्षलक्ष्म्यै
नमः
।
ओं
प्रसादिन्यै
नमः
।
ओं
उमायै
नमः
।
ओं
भगवत्यै
नमः
।
ओं
दुर्गायै
नमः
।
ओं
चान्द्र्यै
नमः
।
60
ओं
दाक्षायण्यै
नमः
।
ओं
प्रत्यङ्गिरायै
नमः
।
ओं
धरायै
नमः
।
ओं
वेलायै
नमः
।
ओं
लोकमात्रे
नमः
।
ओं
हरिप्रियायै
नमः
।
ओं
पार्वत्यै
नमः
।
ओं
परमायै
नमः
।
ओं
देव्यै
नमः
।
ओं
ब्रह्मविद्याप्रदायिन्यै
नमः
।
ओं
अरूपायै
नमः
।
ओं
बहुरूपायै
नमः
।
ओं
विरूपायै
नमः
।
ओं
विश्वरूपिण्यै
नमः
।
ओं
पञ्चभूतात्मिकायै
नमः
।
ओं
परायै
नमः
।
ओं
काल्यै
नमः
।
ओं
मायै
नमः
।
ओं
पञ्चिकायै
नमः
।
ओं
वाग्म्यै
नमः
।
80
ओं
हविःप्रत्यधिदेवतायै
नमः
।
ओं
देवमात्रे
नमः
।
ओं
सुरेशानायै
नमः
।
ओं
वेदगर्भायै
नमः
।
ओं
अम्बिकायै
नमः
।
ओं
धृत्यै
नमः
।
ओं
सङ्ख्यायै
नमः
।
ओं
जातये
नमः
।
ओं
क्रियाशक्त्यै
नमः
।
ओं
प्रकृत्यै
नमः
।
ओं
मोहिन्यै
नमः
।
ओं
मह्यै
नमः
।
ओं
यज्ञविद्यायै
नमः
।
ओं
महाविद्यायै
नमः
।
ओं
गुह्यविद्यायै
नमः
।
ओं
विभावर्यै
नमः
।
ओं
ज्योतिष्मत्यै
नमः
।
ओं
महामात्रे
नमः
।
ओं
सर्वमन्त्रफलप्रदायै
नमः
।
ओं
दारिद्र्यध्वंसिन्यै
नमः
।
100
ओं
देव्यै
नमः
।
ओं
हृदयग्रन्थिभेदिन्यै
नमः
।
ओं
सहस्रादित्यसङ्काशायै
नमः
।
ओं
चन्द्रिकायै
नमः
।
ओं
चन्द्ररूपिण्यै
नमः
।
ओं
गायत्र्यै
नमः
।
ओं
सोमसम्भूत्यै
नमः
।
ओं
सावित्र्यै
नमः
।
ओं
प्रणवात्मिकायै
नमः
।
ओं
शाङ्कर्यै
नमः
।
ओं
वैष्णव्यै
नमः
।
ओं
ब्राह्म्यै
नमः
।
ओं
सर्वदेवनमस्कृतायै
नमः
।
ओं
सेव्यदुर्गायै
नमः
।
ओं
कुबेराक्ष्यै
नमः
।
ओं
करवीरनिवासिन्यै
नमः
।
ओं
जयायै
नमः
।
ओं
विजयायै
नमः
।
ओं
जयन्त्यै
नमः
।
ओं
अपराजितायै
नमः
।
120
ओं
कुब्जिकायै
नमः
।
ओं
कालिकायै
नमः
।
ओं
शास्त्र्यै
नमः
।
ओं
वीणापुस्तकधारिण्यै
नमः
।
ओं
सर्वज्ञशक्त्यै
नमः
।
ओं
श्रीशक्त्यै
नमः
।
ओं
ब्रह्मविष्णुशिवात्मिकायै
नमः
।
ओं
इडापिङ्गलिकामध्यमृणालीतन्तुरुपिण्यै
नमः
।
ओं
यज्ञेशान्यै
नमः
।
ओं
प्रथायै
नमः
।
ओं
दीक्षायै
नमः
।
ओं
दक्षिणायै
नमः
।
ओं
सर्वमोहिन्यै
नमः
।
ओं
अष्टाङ्गयोगिन्यै
नमः
।
ओं
देव्यै
नमः
।
ओं
निर्बीजध्यानगोचरायै
नमः
।
ओं
सर्वतीर्थस्थितायै
नमः
।
ओं
शुद्धायै
नमः
।
ओं
सर्वपर्वतवासिन्यै
नमः
।
ओं
वेदशास्त्रप्रमायै
नमः
।
140
ओं
देव्यै
नमः
।
ओं
षडङ्गादिपदक्रमायै
नमः
।
ओं
शिवायै
नमः
।
ओं
धात्र्यै
नमः
।
ओं
शुभानन्दायै
नमः
।
ओं
यज्ञकर्मस्वरूपिण्यै
नमः
।
ओं
व्रतिन्यै
नमः
।
ओं
मेनकायै
नमः
।
ओं
देव्यै
नमः
।
ओं
ब्रह्माण्यै
नमः
।
ओं
ब्रह्मचारिण्यै
नमः
।
ओं
एकाक्षरपरायै
नमः
।
ओं
तारायै
नमः
।
ओं
भवबन्धविनाशिन्यै
नमः
।
ओं
विश्वम्भरायै
नमः
।
ओं
धराधारायै
नमः
।
ओं
निराधारायै
नमः
।
ओं
अधिकस्वरायै
नमः
।
ओं
राकायै
नमः
।
ओं
कुह्वे
नमः
।
160
ओं
अमावास्यायै
नमः
।
ओं
पूर्णिमायै
नमः
।
ओं
अनुमत्यै
नमः
।
ओं
द्युतये
नमः
।
ओं
सिनीवाल्यै
नमः
।
ओं
शिवायै
नमः
।
ओं
अवश्यायै
नमः
।
ओं
वैश्वदेव्यै
नमः
।
ओं
पिशङ्गिलायै
नमः
।
ओं
पिप्पलायै
नमः
।
ओं
विशालाक्ष्यै
नमः
।
ओं
रक्षोघ्न्यै
नमः
।
ओं
वृष्टिकारिण्यै
नमः
।
ओं
दुष्टविद्राविण्यै
नमः
।
ओं
देव्यै
नमः
।
ओं
सर्वोपद्रवनाशिन्यै
नमः
।
ओं
शारदायै
नमः
।
ओं
शरसन्धानायै
नमः
।
ओं
सर्वशस्त्रस्वरूपिण्यै
नमः
।
ओं
युद्धमध्यस्थितायै
नमः
।
180
ओं
देव्यै
नमः
।
ओं
सर्वभूतप्रभञ्जन्यै
नमः
।
ओं
अयुद्धायै
नमः
।
ओं
युद्धरूपायै
नमः
।
ओं
शान्तायै
नमः
।
ओं
शान्तिस्वरूपिण्यै
नमः
।
ओं
गङ्गायै
नमः
।
ओं
सरस्वतीवेणीयमुनानर्मदापगायै
नमः
।
ओं
समुद्रवसनावासायै
नमः
।
ओं
ब्रह्माण्डश्रेणिमेखलायै
नमः
।
ओं
पञ्चवक्त्रायै
नमः
।
ओं
दशभुजायै
नमः
।
ओं
शुद्धस्फटिकसन्निभायै
नमः
।
ओं
रक्तायै
नमः
।
ओं
कृष्णायै
नमः
।
ओं
सितायै
नमः
।
ओं
पीतायै
नमः
।
ओं
सर्ववर्णायै
नमः
।
ओं
निरीश्वर्यै
नमः
।
ओं
कालिकायै
नमः
।
200
ओं
चक्रिकायै
नमः
।
ओं
देव्यै
नमः
।
ओं
सत्यायै
नमः
।
ओं
बटुकास्थितायै
नमः
।
ओं
तरुण्यै
नमः
।
ओं
वारुण्यै
नमः
।
ओं
नार्यै
नमः
।
ओं
ज्येष्ठादेव्यै
नमः
।
ओं
सुरेश्वर्यै
नमः
।
ओं
विश्वम्भराधरायै
नमः
।
ओं
कर्त्र्यै
नमः
।
ओं
गलार्गलविभञ्जन्यै
नमः
।
ओं
सन्ध्यारात्रिर्दिवाज्योत्स्नायै
नमः
।
ओं
कलाकाष्ठायै
नमः
।
ओं
निमेषिकायै
नमः
।
ओं
उर्व्यै
नमः
।
ओं
कात्यायन्यै
नमः
।
ओं
शुभ्रायै
नमः
।
ओं
संसारार्णवतारिण्यै
नमः
।
ओं
कपिलायै
नमः
।
220
ओं
कीलिकायै
नमः
।
ओं
अशोकायै
नमः
।
ओं
मल्लिकानवमल्लिकायै
नमः
।
ओं
देविकायै
नमः
।
ओं
नन्दिकायै
नमः
।
ओं
शान्तायै
नमः
।
ओं
भञ्जिकायै
नमः
।
ओं
भयभञ्जिकायै
नमः
।
ओं
कौशिक्यै
नमः
।
ओं
वैदिक्यै
नमः
।
ओं
देव्यै
नमः
।
ओं
सौर्यै
नमः
।
ओं
रूपाधिकायै
नमः
।
ओं
अतिभायै
नमः
।
ओं
दिग्वस्त्रायै
नमः
।
ओं
नववस्त्रायै
नमः
।
ओं
कन्यकायै
नमः
।
ओं
कमलोद्भवायै
नमः
।
ओं
श्रियै
नमः
।
ओं
सौम्यलक्षणायै
नमः
।
240
ओं
अतीतदुर्गायै
नमः
।
ओं
सूत्रप्रबोधिकायै
नमः
।
ओं
श्रद्धायै
नमः
।
ओं
मेधायै
नमः
।
ओं
कृतये
नमः
।
ओं
प्रज्ञायै
नमः
।
ओं
धारणायै
नमः
।
ओं
कान्त्यै
नमः
।
ओं
श्रुतये
नमः
।
ओं
स्मृतये
नमः
।
ओं
धृतये
नमः
।
ओं
धन्यायै
नमः
।
ओं
भूतये
नमः
।
ओं
इष्ट्यै
नमः
।
ओं
मनीषिण्यै
नमः
।
ओं
विरक्तये
नमः
।
ओं
व्यापिन्यै
नमः
।
ओं
मायायै
नमः
।
ओं
सर्वमायाप्रभञ्जन्यै
नमः
।
ओं
माहेन्द्र्यै
नमः
।
260
ओं
मन्त्रिण्यै
नमः
।
ओं
सिंह्यै
नमः
।
ओं
इन्द्रजालस्वरूपिण्यै
नमः
।
ओं
अवस्थात्रयनिर्मुक्तायै
नमः
।
ओं
गुणत्रयविवर्जितायै
नमः
।
ओं
ईषणत्रयनिर्मुक्तायै
नमः
।
ओं
सर्वरोगविवर्जितायै
नमः
।
ओं
योगिध्यानान्तगम्यायै
नमः
।
ओं
योगध्यानपरायणायै
नमः
।
ओं
त्रयीशिखायै
नमः
।
ओं
विशेषज्ञायै
नमः
।
ओं
वेदान्तज्ञानरुपिण्यै
नमः
।
ओं
भारत्यै
नमः
।
ओं
कमलायै
नमः
।
ओं
भाषायै
नमः
।
ओं
पद्मायै
नमः
।
ओं
पद्मवत्यै
नमः
।
ओं
कृतये
नमः
।
ओं
गौतम्यै
नमः
।
ओं
गोमत्यै
नमः
।
280
ओं
गौर्यै
नमः
।
ओं
ईशानायै
नमः
।
ओं
हंसवाहिन्यै
नमः
।
ओं
नारायण्यै
नमः
।
ओं
प्रभाधारायै
नमः
।
ओं
जाह्नव्यै
नमः
।
ओं
शङ्करात्मजायै
नमः
।
ओं
चित्रघण्टायै
नमः
।
ओं
सुनन्दायै
नमः
।
ओं
श्रियै
नमः
।
ओं
मानव्यै
नमः
।
ओं
मनुसम्भवायै
नमः
।
ओं
स्तम्भिन्यै
नमः
।
ओं
क्षोभिण्यै
नमः
।
ओं
मार्यै
नमः
।
ओं
भ्रामिण्यै
नमः
।
ओं
शत्रुमारिण्यै
नमः
।
ओं
मोहिन्यै
नमः
।
ओं
द्वेषिण्यै
नमः
।
ओं
वीरायै
नमः
।
300
ओं
अघोरायै
नमः
।
ओं
रुद्ररूपिण्यै
नमः
।
ओं
रुद्रैकादशिन्यै
नमः
।
ओं
पुण्यायै
नमः
।
ओं
कल्याण्यै
नमः
।
ओं
लाभकारिण्यै
नमः
।
ओं
देवदुर्गायै
नमः
।
ओं
महादुर्गायै
नमः
।
ओं
स्वप्नदुर्गायै
नमः
।
ओं
अष्टभैरव्यै
नमः
।
ओं
सूर्यचन्द्राग्निरूपायै
नमः
।
ओं
ग्रहनक्षत्ररूपिण्यै
नमः
।
ओं
बिन्दुनादकलातीतायै
नमः
।
ओं
बिन्दुनादकलात्मिकायै
नमः
।
ओं
दशवायुजयाकारायै
नमः
।
ओं
कलाषोडशसम्युतायै
नमः
।
ओं
काश्यप्यै
नमः
।
ओं
कमलादेव्यै
नमः
।
ओं
नादचक्रनिवासिन्यै
नमः
।
ओं
मृडाधारायै
नमः
।
320
ओं
स्थिरायै
नमः
।
ओं
गुह्यायै
नमः
।
ओं
देविकायै
नमः
।
ओं
चक्ररूपिण्यै
नमः
।
ओं
अविद्यायै
नमः
।
ओं
शार्वर्यै
नमः
।
ओं
भुञ्जायै
नमः
।
ओं
जम्भासुरनिबर्हिण्यै
नमः
।
ओं
श्रीकायायै
नमः
।
ओं
श्रीकलायै
नमः
।
ओं
शुभ्रायै
नमः
।
ओं
कर्मनिर्मूलकारिण्यै
नमः
।
ओं
आदिलक्ष्म्यै
नमः
।
ओं
गुणाधारायै
नमः
।
ओं
पञ्चब्रह्मात्मिकायै
नमः
।
ओं
परायै
नमः
।
ओं
श्रुतये
नमः
।
ओं
ब्रह्ममुखावासायै
नमः
।
ओं
सर्वसम्पत्तिरूपिण्यै
नमः
।
ओं
मृतसञ्जीवन्यै
नमः
।
340
ओं
मैत्र्यै
नमः
।
ओं
कामिन्यै
नमः
।
ओं
कामवर्जितायै
नमः
।
ओं
निर्वाणमार्गदायै
नमः
।
ओं
देव्यै
नमः
।
ओं
हंसिन्यै
नमः
।
ओं
काशिकायै
नमः
।
ओं
क्षमायै
नमः
।
ओं
सपर्यायै
नमः
।
ओं
गुणिन्यै
नमः
।
ओं
भिन्नायै
नमः
।
ओं
निर्गुणायै
नमः
।
ओं
खण्डिताशुभायै
नमः
।
ओं
स्वामिन्यै
नमः
।
ओं
वेदिन्यै
नमः
।
ओं
शक्यायै
नमः
।
ओं
शाम्बर्यै
नमः
।
ओं
चक्रधारिण्यै
नमः
।
ओं
दण्डिन्यै
नमः
।
ओं
मुण्डिन्यै
नमः
।
360
ओं
व्याघ्र्यै
नमः
।
ओं
शिखिन्यै
नमः
।
ओं
सोमसंहतये
नमः
।
ओं
चिन्तामणये
नमः
।
ओं
चिदानन्दायै
नमः
।
ओं
पञ्चबाणप्रबोधिन्यै
नमः
।
ओं
बाणश्रेणये
नमः
।
ओं
सहस्राक्ष्यै
नमः
।
ओं
सहस्रभुजपादुकायै
नमः
।
ओं
सन्ध्यावलये
नमः
।
ओं
त्रिसन्ध्याख्यायै
नमः
।
ओं
ब्रह्माण्डमणिभूषणायै
नमः
।
ओं
वासव्यै
नमः
।
ओं
वारुणीसेनायै
नमः
।
ओं
कुलिकायै
नमः
।
ओं
मन्त्ररञ्जिन्यै
नमः
।
ओं
जितप्राणस्वरूपायै
नमः
।
ओं
कान्तायै
नमः
।
ओं
काम्यवरप्रदायै
नमः
।
ओं
मन्त्रब्राह्मणविद्यार्थायै
नमः
।
380
ओं
नादरुपायै
नमः
।
ओं
हविष्मत्यै
नमः
।
ओं
आथर्वणिः
श्रुतयै
नमः
।
ओं
शून्यायै
नमः
।
ओं
कल्पनावर्जितायै
नमः
।
ओं
सत्यै
नमः
।
ओं
सत्ताजातये
नमः
।
ओं
प्रमायै
नमः
।
ओं
अमेयायै
नमः
।
ओं
अप्रमितये
नमः
।
ओं
प्राणदायै
नमः
।
ओं
गतये
नमः
।
ओं
अवर्णायै
नमः
।
ओं
पञ्चवर्णायै
नमः
।
ओं
सर्वदायै
नमः
।
ओं
भुवनेश्वर्यै
नमः
।
ओं
त्रैलोक्यमोहिन्यै
नमः
।
ओं
विद्यायै
नमः
।
ओं
सर्वभर्त्र्यै
नमः
।
ओं
क्षरायै
नमः
।
400
ओं
अक्षरायै
नमः
।
ओं
हिरण्यवर्णायै
नमः
।
ओं
हरिण्यै
नमः
।
ओं
सर्वोपद्रवनाशिन्यै
नमः
।
ओं
कैवल्यपदवीरेखायै
नमः
।
ओं
सूर्यमण्डलसंस्थितायै
नमः
।
ओं
सोममण्डलमध्यस्थायै
नमः
।
ओं
वह्निमण्डलसंस्थितायै
नमः
।
ओं
वायुमण्डलमध्यस्थायै
नमः
।
ओं
व्योममण्डलसंस्थितायै
नमः
।
ओं
चक्रिकायै
नमः
।
ओं
चक्रमध्यस्थायै
नमः
।
ओं
चक्रमार्गप्रवर्तिन्यै
नमः
।
ओं
कोकिलाकुलचक्रेशायै
नमः
।
ओं
पक्षतये
नमः
।
ओं
पङ्क्तिपावनायै
नमः
।
ओं
सर्वसिद्धान्तमार्गस्थायै
नमः
।
ओं
षड्वर्णावरवर्जितायै
नमः
।
ओं
शतरुद्रहरायै
नमः
।
ओं
हन्त्र्यै
नमः
।
420
ओं
सर्वसंहारकारिण्यै
नमः
।
ओं
पुरुषायै
नमः
।
ओं
पौरुष्यै
नमः
।
ओं
तुष्टये
नमः
।
ओं
सर्वतन्त्रप्रसूतिकायै
नमः
।
ओं
अर्धनारीश्वर्यै
नमः
।
ओं
देव्यै
नमः
।
ओं
सर्वविद्याप्रदायिन्यै
नमः
।
ओं
भार्गव्यै
नमः
।
ओं
याजुषीविद्यायै
नमः
।
[**
भूजुषीविद्यायै
**]
ओं
सर्वोपनिषदास्थितायै
नमः
।
ओं
व्योमकेशायै
नमः
।
ओं
अखिलप्राणायै
नमः
।
ओं
पञ्चकोशविलक्षणायै
नमः
।
ओं
पञ्चकोशात्मिकायै
नमः
।
ओं
प्रतीचे
नमः
।
ओं
पञ्चब्रह्मात्मिकायै
नमः
।
ओं
शिवायै
नमः
।
ओं
जगज्जराजनित्र्यै
नमः
।
ओं
पञ्चकर्मप्रसूतिकायै
नमः
।
440
ओं
वाग्देव्यै
नमः
।
ओं
आभरणाकारायै
नमः
।
ओं
सर्वकाम्यस्थितास्थितये
नमः
।
ओं
अष्टादशचतुःषष्टिपीठिकाविद्यायुतायै
नमः
।
ओं
कालिकाकर्षणश्यामायै
नमः
।
ओं
यक्षिण्यै
नमः
।
ओं
किन्नरेश्वर्यै
नमः
।
ओं
केतक्यै
नमः
।
ओं
मल्लिकायै
नमः
।
ओं
अशोकायै
नमः
।
ओं
वाराह्यै
नमः
।
ओं
धरण्यै
नमः
।
ओं
ध्रुवायै
नमः
।
ओं
नारसिंह्यै
नमः
।
ओं
महोग्रास्यायै
नमः
।
ओं
भक्तानामार्तिनाशिन्यै
नमः
।
ओं
अन्तर्बलायै
नमः
।
ओं
स्थिरायै
नमः
।
ओं
लक्ष्म्यै
नमः
।
ओं
जरामरणनाशिन्यै
नमः
।
460
ओं
श्रीरञ्जितायै
नमः
।
ओं
महाकायायै
नमः
।
ओं
सोमसूर्याग्निलोचनायै
नमः
।
ओं
अदितये
नमः
।
ओं
देवमात्रे
नमः
।
ओं
अष्टपुत्रायै
नमः
।
ओं
अष्टयोगिन्यै
नमः
।
ओं
अष्टप्रकृतये
नमः
।
ओं
अष्टाष्टविभ्राजद्विकृताकृतये
नमः
।
ओं
दुर्भिक्षध्वंसिन्यै
नमः
।
ओं
सीतायै
नमः
।
ओं
सत्यायै
नमः
।
ओं
रुक्मिण्यै
नमः
।
ओं
ख्यातिजायै
नमः
।
ओं
भार्गव्यै
नमः
।
ओं
देवयोनये
नमः
।
ओं
तपस्विन्यै
नमः
।
ओं
शाकम्भर्यै
नमः
।
ओं
महाशोणायै
नमः
।
ओं
गरुडोपरिसंस्थितायै
नमः
।
480
ओं
सिंहगायै
नमः
।
ओं
व्याघ्रगायै
नमः
।
ओं
वायुगायै
नमः
।
ओं
महाद्रिगायै
नमः
।
ओं
अकारादिक्षकारान्तायै
नमः
।
ओं
सर्वविद्याधिदेवतायै
नमः
।
ओं
मन्त्रव्याख्याननिपुणायै
नमः
।
ओं
ज्योतिशास्त्रैकलोचनायै
नमः
।
ओं
इडापिङ्गलिकामध्यसुषुम्नायै
नमः
।
ओं
ग्रन्थिभेदिन्यै
नमः
।
ओं
कालचक्राश्रयोपेतायै
नमः
।
ओं
कालचक्रस्वरूपिण्यै
नमः
।
ओं
वैशारद्यै
नमः
।
ओं
मतिश्रेष्ठायै
नमः
।
ओं
वरिष्ठायै
नमः
।
ओं
सर्वदीपिकायै
नमः
।
ओं
वैनायक्यै
नमः
।
ओं
वरारोहायै
नमः
।
ओं
श्रोणिवेलायै
नमः
।
ओं
बहिर्वलये
नमः
।
500
ओं
जम्भिन्यै
नमः
।
ओं
जृम्भिण्यै
नमः
।
ओं
जम्भकारिण्यै
नमः
।
ओं
गणकारिकायै
नमः
।
ओं
शरण्यै
नमः
।
ओं
चक्रिकायै
नमः
।
ओं
अनन्तायै
नमः
।
ओं
सर्वव्याधिचिकित्सक्यै
नमः
।
ओं
देवक्यै
नमः
।
ओं
देवसङ्काशायै
नमः
।
ओं
वारिधये
नमः
।
ओं
करुणाकरायै
नमः
।
ओं
शर्वर्यै
नमः
।
ओं
सर्वसम्पन्नायै
नमः
।
ओं
सर्वपापप्रभञ्जन्यै
नमः
।
ओं
एकमात्रायै
नमः
।
ओं
द्विमात्रायै
नमः
।
ओं
त्रिमात्रायै
नमः
।
ओं
अपरायै
नमः
।
ओं
अर्धमात्रायै
नमः
।
520
ओं
परायै
नमः
।
ओं
सूक्ष्मायै
नमः
।
ओं
सूक्ष्मार्थार्थपरायै
नमः
।
ओं
एकवीरायै
नमः
।
ओं
विशेषाख्यायै
नमः
।
ओं
षष्ठीदेव्यै
नमः
।
ओं
मनस्विन्यै
नमः
।
ओं
नैष्कर्म्यायै
नमः
।
ओं
निष्कलालोकायै
नमः
।
ओं
ज्ञानकर्माधिकायै
नमः
।
ओं
गुणायै
नमः
।
ओं
सबन्ध्वानन्दसन्दोहायै
नमः
।
ओं
व्योमाकारायै
नमः
।
ओं
अनिरूपितायै
नमः
।
ओं
गद्यपद्यात्मिकायै
नमः
।
ओं
वाण्यै
नमः
।
ओं
सर्वालङ्कारसम्युतायै
नमः
।
ओं
साधुबन्धपदन्यासायै
नमः
।
ओं
सर्वौकसे
नमः
।
ओं
घटिकावलये
नमः
।
540
ओं
षट्कर्मिण्यै
नमः
।
ओं
कर्कशाकारायै
नमः
।
ओं
सर्वकर्मविवर्जितायै
नमः
।
ओं
आदित्यवर्णायै
नमः
।
ओं
अपर्णायै
नमः
।
ओं
कामिन्यै
नमः
।
ओं
वररूपिण्यै
नमः
।
ओं
ब्रह्माण्यै
नमः
।
ओं
ब्रह्मसन्तानायै
नमः
।
ओं
वेदवागीश्वर्यै
नमः
।
ओं
शिवायै
नमः
।
ओं
पुराणन्यायमीमांसाधर्मशास्त्रागमश्रुतायै
नमः
।
ओं
सद्योवेदवत्यै
नमः
।
ओं
सर्वायै
नमः
।
ओं
हंस्यै
नमः
।
ओं
विद्याधिदेवतायै
नमः
।
ओं
विश्वेश्वर्यै
नमः
।
ओं
जगद्धात्र्यै
नमः
।
ओं
विश्वनिर्माणकारिण्यै
नमः
।
ओं
वैदिक्यै
नमः
।
560
ओं
वेदरूपायै
नमः
।
ओं
कालिकायै
नमः
।
ओं
कालरूपिण्यै
नमः
।
ओं
नारायण्यै
नमः
।
ओं
महादेव्यै
नमः
।
ओं
सर्वतत्त्वप्रवर्तिन्यै
नमः
।
ओं
हिरण्यवर्णरूपायै
नमः
।
ओं
हिरण्यपदसम्भवायै
नमः
।
ओं
कैवल्यपदव्यै
नमः
।
ओं
पुण्यायै
नमः
।
ओं
कैवल्यज्ञानलक्षितायै
नमः
।
ओं
ब्रह्मसम्पत्तिरूपायै
नमः
।
ओं
ब्रह्मसम्पत्तिकारिण्यै
नमः
।
ओं
वारुण्यै
नमः
।
ओं
वारुणाराध्यायै
नमः
।
ओं
सर्वकर्मप्रवर्तिन्यै
नमः
।
ओं
एकाक्षरपरायै
नमः
।
ओं
अयुक्तायै
नमः
।
ओं
सर्वदारिद्र्यभञ्जिन्यै
नमः
।
ओं
पाशाङ्कुशान्वितायै
नमः
।
580
ओं
दिव्यायै
नमः
।
ओं
वीणाव्याख्याक्षसूत्रभृते
नमः
।
ओं
एकमूर्त्यै
नमः
।
ओं
त्रयीमूर्त्यै
नमः
।
ओं
मधुकैटभभञ्जन्यै
नमः
।
ओं
साङ्ख्यायै
नमः
।
ओं
साङ्ख्यवत्यै
नमः
।
ओं
ज्वालायै
नमः
।
ओं
ज्वलन्त्यै
नमः
।
ओं
कामरूपिण्यै
नमः
।
ओं
जाग्रन्त्यै
नमः
।
ओं
सर्वसम्पत्तये
नमः
।
ओं
सुषुप्तायै
नमः
।
ओं
स्वेष्टदायिन्यै
नमः
।
ओं
कपालिन्यै
नमः
।
ओं
महादंष्ट्रायै
नमः
।
ओं
भ्रुकुटीकुटिलाननायै
नमः
।
ओं
सर्वावासायै
नमः
।
ओं
सुवासायै
नमः
।
ओं
बृहत्यै
नमः
।
600
ओं
अष्टये
नमः
।
ओं
शक्वर्यै
नमः
।
ओं
छन्दोगणप्रतिष्ठायै
नमः
।
ओं
कल्माष्यै
नमः
।
ओं
करुणात्मिकायै
नमः
।
ओं
चक्षुष्मत्यै
नमः
।
ओं
महाघोषायै
नमः
।
ओं
खड्गचर्मधरायै
नमः
।
ओं
अशनये
नमः
।
ओं
शिल्पवैचित्र्यविद्योतायै
नमः
।
ओं
सर्वतोभद्रवासिन्यै
नमः
।
ओं
अचिन्त्यलक्षणाकारायै
नमः
।
ओं
सूत्रभाष्यनिबन्धनायै
नमः
।
ओं
सर्ववेदार्थसम्पत्तये
नमः
।
ओं
सर्वशास्त्रार्थमातृकायै
नमः
।
ओं
अकारादिक्षकारान्तसर्ववर्णकृतस्थलायै
नमः
।
ओं
सर्वलक्ष्म्यै
नमः
।
ओं
सदानन्दायै
नमः
।
ओं
सारविद्यायै
नमः
।
ओं
सदाशिवायै
नमः
।
620
ओं
सर्वज्ञायै
नमः
।
ओं
सर्वशक्त्यै
नमः
।
ओं
खेचरीरूपगायै
नमः
।
ओं
उच्छ्रितायै
नमः
।
ओं
अणिमादिगुणोपेतायै
नमः
।
ओं
पराकाष्ठायै
नमः
।
ओं
परागतये
नमः
।
ओं
हंसयुक्तविमानस्थायै
नमः
।
ओं
हंसारूढायै
नमः
।
ओं
शशिप्रभायै
नमः
।
ओं
भवान्यै
नमः
।
ओं
वासनाशक्त्यै
नमः
।
ओं
आकृतिस्थाखिलायै
नमः
।
ओं
अखिलायै
नमः
।
ओं
तन्त्रहेतवे
नमः
।
ओं
विचित्राङ्ग्यै
नमः
।
ओं
व्योमगङ्गाविनोदिन्यै
नमः
।
ओं
वर्षायै
नमः
।
ओं
वार्षिकायै
नमः
।
ओं
ऋग्यजुस्सामरूपिण्यै
नमः
।
640
ओं
महानद्यै
नमः
।
ओं
नदीपुण्यायै
नमः
।
ओं
अगण्यपुण्यगुणक्रियायै
नमः
।
ओं
समाधिगतलभ्यार्थायै
नमः
।
ओं
श्रोतव्यायै
नमः
।
ओं
स्वप्रियायै
नमः
।
ओं
घृणायै
नमः
।
ओं
नामाक्षरपरायै
नमः
।
ओं
उपसर्गनखाञ्चितायै
नमः
।
ओं
निपातोरुद्वयीजङ्घायै
नमः
।
ओं
मातृकायै
नमः
।
ओं
मन्त्ररूपिण्यै
नमः
।
ओं
आसीनायै
नमः
।
ओं
शयानायै
नमः
।
ओं
तिष्ठन्त्यै
नमः
।
ओं
धावनाधिकायै
नमः
।
ओं
लक्ष्यलक्षणयोगाढ्यायै
नमः
।
ओं
ताद्रूप्यगणनाकृतयै
नमः
।
ओं
एकरूपायै
नमः
।
ओं
नैकरूपायै
नमः
।
660
ओं
तस्यै
नमः
।
ओं
इन्दुरूपायै
नमः
।
ओं
तदाकृतये
नमः
।
ओं
समासतद्धिताकारायै
नमः
।
ओं
विभक्तिवचनात्मिकायै
नमः
।
ओं
स्वाहाकारायै
नमः
।
ओं
स्वधाकारायै
नमः
।
ओं
श्रीपत्यर्धाङ्गनन्दिन्यै
नमः
।
ओं
गम्भीरायै
नमः
।
ओं
गहनायै
नमः
।
ओं
गुह्यायै
नमः
।
ओं
योनिलिङ्गार्धधारिण्यै
नमः
।
ओं
शेषवासुकिसंसेव्यायै
नमः
।
ओं
चपलायै
नमः
।
ओं
वरवर्णिन्यै
नमः
।
ओं
कारुण्याकारसम्पत्तये
नमः
।
ओं
कीलकृते
नमः
।
ओं
मन्त्रकीलिकायै
नमः
।
ओं
शक्तिबीजात्मिकायै
नमः
।
ओं
सर्वमन्त्रेष्टायै
नमः
।
680
ओं
अक्षयकामनायै
नमः
।
ओं
आग्नेय्यै
नमः
।
ओं
पार्थिवायै
नमः
।
ओं
आप्यायै
नमः
।
ओं
वायव्यायै
नमः
।
ओं
व्योमकेतनायै
नमः
।
ओं
सत्यज्ञानात्मिकानन्दायै
नमः
।
[**
सत्यज्ञानात्मिकायै,
नन्दायै
**]
ओं
ब्राह्म्यै
नमः
।
ओं
ब्रह्मणे
नमः
।
ओं
सनातन्यै
नमः
।
ओं
अविद्यावासनायै
नमः
।
ओं
मायाप्रकृतये
नमः
।
ओं
सर्वमोहिन्यै
नमः
।
ओं
शक्तये
नमः
।
ओं
धारणशक्तये
नमः
।
ओं
चिदचिच्छक्तियोगिन्यै
नमः
।
ओं
वक्त्रारुणायै
नमः
।
ओं
महामायायै
नमः
।
ओं
मरीचये
नमः
।
ओं
मदमर्दिन्यै
नमः
।
700
ओं
विराजे
नमः
।
ओं
स्वाहायै
नमः
।
ओं
स्वधायै
नमः
।
ओं
शुद्धायै
नमः
।
ओं
निरुपास्तये
नमः
।
ओं
सुभक्तिगायै
नमः
।
ओं
निरूपिताद्वयीविद्यायै
नमः
।
ओं
नित्यानित्यस्वरूपिण्यै
नमः
।
ओं
वैराजमार्गसञ्चारायै
नमः
।
ओं
सर्वसत्पथदर्शिन्यै
नमः
।
ओं
जालन्धर्यै
नमः
।
ओं
मृडान्यै
नमः
।
ओं
भवान्यै
नमः
।
ओं
भवभञ्जन्यै
नमः
।
ओं
त्रैकालिकज्ञानतन्तवे
नमः
।
ओं
त्रिकालज्ञानदायिन्यै
नमः
।
ओं
नादातीतायै
नमः
।
ओं
स्मृतये
नमः
।
ओं
प्रज्ञायै
नमः
।
ओं
धात्रीरूपायै
नमः
।
720
ओं
त्रिपुष्करायै
नमः
।
ओं
पराजितायै
नमः
।
ओं
विधानज्ञायै
नमः
।
ओं
विशेषितगुणात्मिकायै
नमः
।
ओं
हिरण्यकेशिन्यै
नमः
।
ओं
हेमब्रह्मसूत्रविचक्षणायै
नमः
।
ओं
असङ्ख्येयपरार्धान्तस्वरव्यञ्जनवैखर्यै
नमः
।
ओं
मधुजिह्वायै
नमः
।
ओं
मधुमत्यै
नमः
।
ओं
मधुमासोदयायै
नमः
।
ओं
मधवे
नमः
।
ओं
माधव्यै
नमः
।
ओं
महाभागायै
नमः
।
ओं
मेघगम्भीरनिस्वनायै
नमः
।
ओं
ब्रह्मविष्णुमहेशादिज्ञातव्यार्थविशेषगायै
नमः
।
ओं
नाभौवह्निशिखाकारायै
नमः
।
ओं
ललाटेचन्द्रसन्निभायै
नमः
।
ओं
भ्रूमध्येभास्कराकारायै
नमः
।
ओं
हृदिसर्वताराकृतये
नमः
।
ओं
कृत्तिकादिभरण्यन्त
नक्षत्रेष्ट्यर्चितोदयायै
नमः
।
740
ओं
ग्रहविद्यात्मिकायै
नमः
।
ओं
ज्योतिषे
नमः
।
ओं
ज्योतिर्विदे
नमः
।
ओं
मतिजीविकायै
नमः
।
ओं
ब्रह्माण्डगर्भिण्यै
नमः
।
ओं
बालायै
नमः
।
ओं
सप्तावरणदेवतायै
नमः
।
ओं
वैराजोत्तमसाम्राज्यायै
नमः
।
ओं
कुमारकुशलोदयायै
नमः
।
ओं
बगलायै
नमः
।
ओं
भ्रमराम्बायै
नमः
।
ओं
शिवदूत्यै
नमः
।
ओं
शिवात्मिकायै
नमः
।
ओं
मेरुविन्ध्यातिसंस्थानायै
नमः
।
ओं
काश्मीरपुरवासिन्यै
नमः
।
ओं
योगनिद्रायै
नमः
।
ओं
महानिद्रायै
नमः
।
ओं
विनिद्रायै
नमः
।
ओं
राक्षसाश्रितायै
नमः
।
ओं
सुवर्णदायै
नमः
।
760
ओं
महागङ्गायै
नमः
।
ओं
पञ्चाख्यायै
नमः
।
ओं
पञ्चसंहतये
नमः
।
ओं
सुप्रजातायै
नमः
।
ओं
सुवीरायै
नमः
।
ओं
सुपोषायै
नमः
।
ओं
सुपतये
नमः
।
ओं
शिवायै
नमः
।
ओं
सुगृहायै
नमः
।
ओं
रक्तबीजान्तायै
नमः
।
ओं
हतकन्दर्पजीविकायै
नमः
।
ओं
समुद्रव्योममध्यस्थायै
नमः
।
ओं
समबिन्दुसमाश्रयायै
नमः
।
ओं
सौभाग्यरसजीवातवे
नमः
।
ओं
सारासारविवेकदृशे
नमः
।
ओं
त्रिवल्यादिसुपुष्टाङ्गायै
नमः
।
ओं
भारत्यै
नमः
।
ओं
भरताश्रितायै
नमः
।
ओं
नादब्रह्ममयीविद्यायै
नमः
।
ओं
ज्ञानब्रह्ममयीपरायै
नमः
।
780
ओं
ब्रह्मनाड्यै
नमः
।
ओं
निरुक्तये
नमः
।
ओं
ब्रह्मकैवल्यसाधनायै
नमः
।
ओं
कालिकेयमहोदारवीर्यविक्रमरूपिण्यै
नमः
।
ओं
बडबाग्निशिखावक्त्रायै
नमः
।
ओं
महाकबलतर्पणायै
नमः
।
ओं
महाभूतायै
नमः
।
ओं
महादर्पायै
नमः
।
ओं
महासारायै
नमः
।
ओं
महाक्रतवे
नमः
।
ओं
पञ्चभूतमहाग्रासायै
नमः
।
ओं
पञ्चभूताधिदेवतायै
नमः
।
ओं
सर्वप्रमाणायै
नमः
।
ओं
सम्पत्तये
नमः
।
ओं
सर्वरोगप्रतिक्रियायै
नमः
।
ओं
ब्रह्माण्डान्तर्बहिर्व्याप्तायै
नमः
।
ओं
विष्णुवक्षोविभूषिण्यै
नमः
।
ओं
शाङ्कर्यै
नमः
।
ओं
विधिवक्त्रस्थायै
नमः
।
ओं
प्रवरायै
नमः
।
800
ओं
वरहेतुक्यै
नमः
।
ओं
हेममालायै
नमः
।
ओं
शिखामालायै
नमः
।
ओं
त्रिशिखायै
नमः
।
ओं
पञ्चलोचनायै
नमः
।
ओं
सर्वागमसदाचारमर्यादायै
नमः
।
ओं
यातुभञ्जन्यै
नमः
।
ओं
पुण्यश्लोकप्रबन्धाढ्यायै
नमः
।
ओं
सर्वान्तर्यामिरूपिण्यै
नमः
।
ओं
सामगानसमाराध्यायै
नमः
।
ओं
श्रोत्रकर्णरसायनायै
नमः
।
ओं
जीवलोकैकजीवातवे
नमः
।
ओं
भद्रोदारविलोकनायै
नमः
।
ओं
तडित्कोटिलसत्कान्त्यै
नमः
।
ओं
तरुण्यै
नमः
।
ओं
हरिसुन्दर्यै
नमः
।
ओं
मीननेत्रायै
नमः
।
ओं
इन्द्राक्ष्यै
नमः
।
ओं
विशालाक्ष्यै
नमः
।
ओं
सुमङ्गलायै
नमः
।
820
ओं
सर्वमङ्गलसम्पन्नायै
नमः
।
ओं
साक्षान्मङ्गलदेवतायै
नमः
।
ओं
देहहृद्दीपिकायै
नमः
।
ओं
दीप्तये
नमः
।
ओं
जिह्मपापप्रणाशिन्यै
नमः
।
ओं
अर्धचन्द्रोल्लसद्दंष्ट्रायै
नमः
।
ओं
यज्ञवाटीविलासिन्यै
नमः
।
ओं
महादुर्गायै
नमः
।
ओं
महोत्साहायै
नमः
।
ओं
महादेवबलोदयायै
नमः
।
ओं
डाकिनीड्यायै
नमः
।
ओं
शाकिनीड्यायै
नमः
।
ओं
साकिनीड्यायै
नमः
।
ओं
समस्तजुषे
नमः
।
ओं
निरङ्कुशायै
नमः
।
ओं
नाकिवन्द्यायै
नमः
।
ओं
षडाधाराधिदेवतायै
नमः
।
ओं
भुवनज्ञाननिःश्रेणये
नमः
।
ओं
भुवनाकारवल्लर्यै
नमः
।
ओं
शाश्वत्यै
नमः
।
840
ओं
शाश्वताकारायै
नमः
।
ओं
लोकानुग्रहकारिण्यै
नमः
।
ओं
सारस्यै
नमः
।
ओं
मानस्यै
नमः
।
ओं
हंस्यै
नमः
।
ओं
हंसलोकप्रदायिन्यै
नमः
।
ओं
चिन्मुद्रालङ्कृतकरायै
नमः
।
ओं
कोटिसूर्यसमप्रभायै
नमः
।
ओं
सुखप्राणिशिरोरेखायै
नमः
।
ओं
सददृष्टप्रदायिन्यै
नमः
।
ओं
सर्वसाङ्कर्यदोषघ्न्यै
नमः
।
ओं
ग्रहोपद्रवनाशिन्यै
नमः
।
ओं
क्षुद्रजन्तुभयघ्न्यै
नमः
।
ओं
विषरोगादिभञ्जन्यै
नमः
।
ओं
सदाशान्तायै
नमः
।
ओं
सदाशुद्धायै
नमः
।
ओं
गृहच्छिद्रनिवारिण्यै
नमः
।
ओं
कलिदोषप्रशमन्यै
नमः
।
ओं
कोलाहलपुरस्थितायै
नमः
।
ओं
गौर्यै
नमः
।
860
ओं
लाक्षणिक्यै
नमः
।
ओं
मुख्यायै
नमः
।
ओं
जघन्याकृतिवर्जितायै
नमः
।
ओं
मायायै
नमः
।
ओं
विद्यायै
नमः
।
ओं
मूलभूतायै
नमः
।
ओं
वासव्यै
नमः
।
ओं
विष्णुचेतनायै
नमः
।
ओं
वादिन्यै
नमः
।
ओं
वसुरूपायै
नमः
।
ओं
वसुरत्नपरिच्छदायै
नमः
।
ओं
छान्दस्यै
नमः
।
ओं
चन्द्रहृदयायै
नमः
।
ओं
मन्त्रस्वच्छन्दभैरव्यै
नमः
।
ओं
वनमालायै
नमः
।
ओं
वैजयन्त्यै
नमः
।
ओं
पञ्चदिव्यायुधात्मिकायै
नमः
।
ओं
पीताम्बरमय्यै
नमः
।
ओं
चञ्चत्कौस्तुभायै
नमः
।
ओं
हरिकामिन्यै
नमः
।
880
ओं
नित्यायै
नमः
।
ओं
तथ्यायै
नमः
।
ओं
रमायै
नमः
।
ओं
रामायै
नमः
।
ओं
रमण्यै
नमः
।
ओं
मृत्युभञ्जन्यै
नमः
।
ओं
ज्येष्ठायै
नमः
।
ओं
काष्ठायै
नमः
।
ओं
धनिष्ठान्तायै
नमः
।
ओं
शराङ्ग्यै
नमः
।
ओं
निर्गुणप्रियायै
नमः
।
ओं
मैत्रेयायै
नमः
।
ओं
मित्रविन्दायै
नमः
।
ओं
शेष्यशेषकलाशयायै
नमः
।
ओं
वाराणसीवासलभ्यायै
नमः
।
[**
वाराणसीवासरतायै
**]
ओं
आर्यावर्तजनस्तुतायै
नमः
।
ओं
जगदुत्पत्तिसंस्थानसंहारत्रयकारणायै
नमः
।
ओं
तुभ्यं
नमः
।
ओं
अम्बायै
नमः
।
ओं
विष्णुसर्वस्वायै
नमः
।
900
ओं
महेश्वर्यै
नमः
।
ओं
सर्वलोकानां
जनन्यै
नमः
।
ओं
पुण्यमूर्तये
नमः
।
ओं
सिद्धलक्ष्म्यै
नमः
।
ओं
महाकाल्यै
नमः
।
ओं
महालक्ष्म्यै
नमः
।
ओं
सद्योजातादिपञ्चाग्निरूपायै
नमः
।
ओं
पञ्चकपञ्चकायै
नमः
।
ओं
यन्त्रलक्ष्म्यै
नमः
।
ओं
भवत्यै
नमः
।
ओं
आदये
नमः
।
ओं
आद्याद्यायै
नमः
।
ओं
सृष्ट्यादिकारणाकारविततये
नमः
।
ओं
दोषवर्जितायै
नमः
।
ओं
जगल्लक्ष्म्यै
नमः
।
ओं
जगन्मात्रे
नमः
।
ओं
विष्णुपत्न्यै
नमः
।
ओं
नवकोटिमहाशक्तिसमुपास्यपदाम्बुजायै
नमः
।
ओं
कनत्सौवर्णरत्नाढ्यसर्वाभरणभूषितायै
नमः
।
920
ओं
अनन्तानित्यमहिष्यै
नमः
।
ओं
प्रपञ्चेश्वरनायक्यै
नमः
।
ओं
अत्युच्छ्रितपदान्तस्थायै
नमः
।
ओं
परमव्योमनायक्यै
नमः
।
ओं
नाकपृष्ठगताराध्यायै
नमः
।
ओं
विष्णुलोकविलासिन्यै
नमः
।
ओं
वैकुण्ठराजमहिष्यै
नमः
।
ओं
श्रीरङ्गनगराश्रितायै
नमः
।
ओं
रङ्गनायक्यै
नमः
।
ओं
भूपुत्र्यै
नमः
।
ओं
कृष्णायै
नमः
।
ओं
वरदवल्लभायै
नमः
।
ओं
कोटिब्रह्मादिसंसेव्यायै
नमः
।
ओं
कोटिरुद्रादिकीर्तितायै
नमः
।
ओं
मातुलुङ्गमयं
खेटं
बिभ्रत्यै
नमः
।
ओं
सौवर्णचषकं
बिभ्रत्यै
नमः
।
ओं
पद्मद्वयं
दधानायै
नमः
।
ओं
पूर्णकुम्भं
बिभ्रत्यै
नमः
।
ओं
कीरं
दधानायै
नमः
।
ओं
वरदाभये
दधानायै
नमः
।
ओं
पाशं
बिभ्रत्यै
नमः
।
940
ओं
अङ्कुशं
बिभ्रत्यै
नमः
।
ओं
शङ्खं
वहन्त्यै
नमः
।
ओं
चक्रं
वहन्त्यै
नमः
।
ओं
शूलं
वहन्त्यै
नमः
।
ओं
कृपाणिकां
वहन्त्यै
नमः
।
ओं
धनुर्बाणौ
बिभ्रत्यै
नमः
।
ओं
अक्षमालां
दधानायै
नमः
।
ओं
चिन्मुद्रां
बिभ्रत्यै
नमः
।
ओं
अष्टादशभुजायै
नमः
।
ओं
लक्ष्म्यै
नमः
।
ओं
महाष्टादशपीठगायै
नमः
।
ओं
भूमिनीलादिसंसेव्यायै
नमः
।
ओं
स्वामिचित्तानुवर्तिन्यै
नमः
।
ओं
पद्मायै
नमः
।
ओं
पद्मालयायै
नमः
।
ओं
पद्मिन्यै
नमः
।
ओं
पूर्णकुम्भाभिषेचितायै
नमः
।
ओं
इन्दिरायै
नमः
।
ओं
इन्दिराभाक्ष्यै
नमः
।
ओं
क्षीरसागरकन्यकायै
नमः
।
960
ओं
भार्गव्यै
नमः
।
ओं
स्वतन्त्रेच्छायै
नमः
।
ओं
वशीकृतजगत्पतये
नमः
।
ओं
मङ्गलानांमङ्गलाय
नमः
।
ओं
देवतानान्देवतायै
नमः
।
ओं
उत्तमानामुत्तमायै
नमः
।
ओं
श्रेयसे
नमः
।
ओं
परमामृतायै
नमः
।
ओं
धनधान्याभिवृद्धये
नमः
।
ओं
सार्वभौमसुखोच्छ्रयायै
नमः
।
ओं
आन्दोलिकादिसौभाग्यायै
नमः
।
ओं
मत्तेभादिमहोदयायै
नमः
।
ओं
पुत्रपौत्राभिवृद्धये
नमः
।
ओं
विद्याभोगबलादिकायै
नमः
।
ओं
आयुरारोग्यसम्पत्तये
नमः
।
ओं
अष्टैश्वर्यायै
नमः
।
ओं
परमेशविभूतये
नमः
।
ओं
सूक्ष्मात्सूक्ष्मतरागतये
नमः
।
ओं
सदयापाङ्गसन्दत्तब्रह्मेन्द्रादिपदस्थितये
नमः
।
ओं
अव्याहतमहाभाग्यायै
नमः
।
980
ओं
अक्षोभ्यविक्रमायै
नमः
।
ओं
वेदानाम्समन्वयायै
नमः
।
ओं
वेदानामविरोधायै
नमः
।
ओं
निःश्रेयसपदप्राप्तिसाधनायै
नमः
।
ओं
निःश्रेयसपदप्राप्तिफलायै
नमः
।
ओं
श्रीमन्त्रराजराज्ञ्यै
नमः
।
ओं
श्रीविद्यायै
नमः
।
ओं
क्षेमकारिण्यै
नमः
।
ओं
श्रीं
बीज
जपसन्तुष्टायै
नमः
।
ओं
ऐं
ह्रीं
श्रीं
बीजपालिकायै
नमः
।
ओं
प्रपत्तिमार्गसुलभायै
नमः
।
ओं
विष्णुप्रथमकिङ्कर्यै
नमः
।
ओं
क्लीङ्कारार्थसावित्र्यै
नमः
।
ओं
सौमङ्गल्याधिदेवतायै
नमः
।
ओं
श्रीषोडशाक्षरीविद्यायै
नमः
।
ओं
श्रीयन्त्रपुरवासिन्यै
नमः
।
ओं
सर्वमङ्गलमाङ्गल्यायै
नमः
।
ओं
शिवायै
नमः
।
ओं
सर्वार्थसाधिकायै
नमः
।
ओं
शरण्यायै
नमः
।
1000
ओं
त्र्यम्बकायै
नमः
।
ओं
गौर्यै
नमः
।
ओं
नारायण्यै
नमः
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits