हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
लक्ष्मी कवचम्
लक्ष्मी
मे
चाग्रतः
पातु
कमला
पातु
पृष्ठतः
।
नारायणी
शीर्षदेशे
सर्वाङ्गे
श्रीस्वरूपिणी
॥
1
॥
रामपत्नी
तु
प्रत्यङ्गे
रामेश्वरी
सदाऽवतु
।
विशालाक्षी
योगमाया
कौमारी
चक्रिणी
तथा
॥
2
॥
जयदात्री
धनदात्री
पाशाक्षमालिनी
शुभा
।
हरिप्रिया
हरिरामा
जयङ्करी
महोदरी
॥
3
॥
कृष्णपरायणा
देवी
श्रीकृष्णमनमोहिनी
।
जयङ्करी
महारौद्री
सिद्धिदात्री
शुभङ्करी
॥
4
॥
सुखदा
मोक्षदा
देवी
चित्रकूटनिवासिनी
।
भयं
हरतु
भक्तानां
भवबन्धं
विमुञ्चतु
॥
5
॥
कवचं
तन्महापुण्यं
यः
पठेद्भक्तिसम्युतः
।
त्रिसन्ध्यमेकसन्ध्यं
वा
मुच्यते
सर्वसङ्कटात्
॥
6
॥
कवचस्यास्य
पठनं
धनपुत्रविवर्धनम्
।
भीतिविनाशनं
चैव
त्रिषु
लोकेषु
कीर्तितम्
॥
7
॥
भूर्जपत्रे
समालिख्य
रोचनाकुङ्कुमेन
तु
।
धारणाद्गलदेशे
च
सर्वसिद्धिर्भविष्यति
॥
8
॥
अपुत्रो
लभते
पुत्रं
धनार्थी
लभते
धनम्
।
मोक्षार्थी
मोक्षमाप्नोति
कवचस्य
प्रसादतः
॥
9
॥
गर्भिणी
लभते
पुत्रं
वन्ध्या
च
गर्भिणी
भवेत्
।
धारयेद्यदि
कण्ठे
च
अथवा
वामबाहुके
॥
10
॥
यः
पठेन्नियतो
भक्त्या
स
एव
विष्णुवद्भवेत्
।
मृत्युव्याधिभयं
तस्य
नास्ति
किञ्चिन्महीतले
॥
11
॥
पठेद्वा
पाठयेद्वापि
शृणुयाच्छ्रावयेदपि
।
सर्वपापविमुक्तस्तु
लभते
परमां
गतिम्
॥
12
॥
सङ्कटे
विपदे
घोरे
तथा
च
गहने
वने
।
राजद्वारे
च
नौकायां
तथा
च
रणमध्यतः
॥
13
॥
पठनाद्धारणादस्य
जयमाप्नोति
निश्चितम्
।
अपुत्रा
च
तथा
वन्ध्या
त्रिपक्षं
शृणुयाद्यदि
॥
14
॥
सुपुत्रं
लभते
सा
तु
दीर्घायुष्कं
यशस्विनम्
।
शृणुयाद्यः
शुद्धबुद्ध्या
द्वौ
मासौ
विप्रवक्त्रतः
॥
15
॥
सर्वान्कामानवाप्नोति
सर्वबन्धाद्विमुच्यते
।
मृतवत्सा
जीववत्सा
त्रिमासं
श्रवणं
यदि
॥
16
॥
रोगी
रोगाद्विमुच्येत
पठनान्मासमध्यतः
।
लिखित्वा
भूर्जपत्रे
च
अथवा
ताडपत्रके
॥
17
॥
स्थापयेन्नियतं
गेहे
नाग्निचौरभयं
क्वचित्
।
शृणुयाद्धारयेद्वापि
पठेद्वा
पाठयेदपि
॥
18
॥
यः
पुमान्सततं
तस्मिन्प्रसन्नाः
सर्वदेवताः
।
बहुना
किमिहोक्तेन
सर्वजीवेश्वरेश्वरी
॥
19
॥
आद्याशक्तिः
सदालक्ष्मीर्भक्तानुग्रहकारिणी
।
धारके
पाठके
चैव
निश्चला
निवसेद्ध्रुवम्
॥
20
॥
इति
श्री
लक्ष्मी
कवचम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits