हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
लक्ष्मी हृदय स्तोत्रम्
अस्य
श्री
महालक्ष्मीहृदयस्तोत्र
महामन्त्रस्य
भार्गव
ऋषिः,
अनुष्टुपादीनि
नानाछन्दांसि,
आद्यादि
श्रीमहालक्ष्मीर्देवता,
श्रीं
बीजं,
ह्रीं
शक्तिः,
ऐं
कीलकं,
आद्यादिमहालक्ष्मी
प्रसादसिद्ध्यर्थं
जपे
विनियोगः
॥
ऋष्यादिन्यासः
–
ओं
भार्गवृषये
नमः
शिरसि
।
ओं
अनुष्टुपादिनानाछन्दोभ्यो
नमो
मुखे
।
ओं
आद्यादिश्रीमहालक्ष्मी
देवतायै
नमो
हृदये
।
ओं
श्रीं
बीजाय
नमो
गुह्ये
।
ओं
ह्रीं
शक्तये
नमः
पादयोः
।
ओं
ऐं
कीलकाय
नमो
नाभौ
।
ओं
विनियोगाय
नमः
सर्वाङ्गे
।
करन्यासः
–
ओं
श्रीं
अङ्गुष्ठाभ्यां
नमः
।
ओं
ह्रीं
तर्जनीभ्यां
नमः
।
ओं
ऐं
मध्यमाभ्यां
नमः
।
ओं
श्रीं
अनामिकाभ्यां
नमः
।
ओं
ह्रीं
कनिष्ठिकाभ्यां
नमः
।
ओं
ऐं
करतल
करपृष्ठाभ्यां
नमः
।
अङ्गन्यासः
–
ओं
श्रीं
हृदयाय
नमः
।
ओं
ह्रीं
शिरसे
स्वाहा
।
ओं
ऐं
शिखायै
वषट्
।
ओं
श्रीं
कवचाय
हुम्
।
ओं
ह्रीं
नेत्रत्रयाय
वौषट्
।
ओं
ऐं
अस्त्राय
फट्
।
ओं
श्रीं
ह्रीं
ऐं
इति
दिग्बन्धः
।
अथ
ध्यानम्
।
हस्तद्वयेन
कमले
धारयन्तीं
स्वलीलया
।
हारनूपुरसंयुक्तां
लक्ष्मीं
देवीं
विचिन्तये
॥
कौशेयपीतवसनामरविन्दनेत्रां
पद्मद्वयाभयवरोद्यतपद्महस्ताम्
।
उद्यच्छतार्कसदृशीं
परमाङ्कसंस्थां
ध्यायेद्विधीशनतपादयुगां
जनित्रीम्
॥
पीतवस्त्रां
सुवर्णाङ्गीं
पद्महस्तद्वायान्विताम्
।
लक्ष्मीं
ध्यात्वेति
मन्त्रेण
स
भवेत्पृथिवीपतिः
॥
मातुलुङ्गं
गदां
खेटं
पाणौ
पात्रं
च
बिभ्रती
।
नागं
लिङ्गं
च
योनिं
च
बिभ्रतीं
चैव
मूर्धनि
॥
[
इति
ध्यात्वा
मानसोपचारैः
सम्पूज्य
।
शङ्खचक्रगदाहस्ते
शुभ्रवर्णे
सुवासिनी
।
मम
देहि
वरं
लक्ष्मीः
सर्वसिद्धिप्रदायिनी
।
इति
सम्प्रार्थ्य
ओं
श्रीं
ह्रीं
ऐं
महालक्ष्म्यै
कमलधारिण्यै
सिंहवाहिन्यै
स्वाहा
इति
मन्त्रं
जप्त्वा
पुनः
पूर्ववद्धृदयादि
षडङ्गन्यासं
कृत्वा
स्तोत्रं
पठेत्
।
]
स्तोत्रम्
।
वन्दे
लक्ष्मीं
परमशिवमयीं
शुद्धजाम्बूनदाभां
तेजोरूपां
कनकवसनां
सर्वभूषोज्ज्वलाङ्गीम्
।
बीजापूरं
कनककलशं
हेमपद्मं
दधाना-
-माद्यां
शक्तिं
सकलजननीं
विष्णुवामाङ्कसंस्थाम्
॥
1
॥
श्रीमत्सौभाग्यजननीं
स्तौमि
लक्ष्मीं
सनातनीम्
।
सर्वकामफलावाप्तिसाधनैकसुखावहाम्
॥
2
॥
स्मरामि
नित्यं
देवेशि
त्वया
प्रेरितमानसः
।
त्वदाज्ञां
शिरसा
धृत्वा
भजामि
परमेश्वरीम्
॥
3
॥
समस्तसम्पत्सुखदां
महाश्रियं
समस्तसौभाग्यकरीं
महाश्रियम्
।
समस्तकल्याणकरीं
महाश्रियं
भजाम्यहं
ज्ञानकरीं
महाश्रियम्
॥
4
॥
विज्ञानसम्पत्सुखदां
सनातनीं
विचित्रवाग्भूतिकरीं
मनोहराम्
।
अनन्तसम्मोदसुखप्रदायिनीं
नमाम्यहं
भूतिकरीं
हरिप्रियाम्
॥
5
॥
समस्तभूतान्तरसंस्थिता
त्वं
समस्तभोक्त्रीश्वरि
विश्वरूपे
।
तन्नास्ति
यत्त्वद्व्यतिरिक्तवस्तु
त्वत्पादपद्मं
प्रणमाम्यहं
श्रीः
॥
6
॥
दारिद्र्य
दुःखौघतमोपहन्त्री
त्वत्पादपद्मं
मयि
सन्निधत्स्व
।
दीनार्तिविच्छेदनहेतुभूतैः
कृपाकटाक्षैरभिषिञ्च
मां
श्रीः
॥
7
॥
अम्ब
प्रसीद
करुणासुधयार्द्रदृष्ट्या
मां
त्वत्कृपाद्रविणगेहमिमं
कुरुष्व
।
आलोकय
प्रणतहृद्गतशोकहन्त्री
त्वत्पादपद्मयुगलं
प्रणमाम्यहं
श्रीः
॥
8
॥
शान्त्यै
नमोऽस्तु
शरणागतरक्षणायै
कान्त्यै
नमोऽस्तु
कमनीयगुणाश्रयायै
।
क्षान्त्यै
नमोऽस्तु
दुरितक्षयकारणायै
दात्र्यै
नमोऽस्तु
धनधान्यसमृद्धिदायै
॥
9
॥
शक्त्यै
नमोऽस्तु
शशिशेखरसंस्तुतायै
रत्यै
नमोऽस्तु
रजनीकरसोदरायै
।
भक्त्यै
नमोऽस्तु
भवसागरतारकायै
मत्यै
नमोऽस्तु
मधुसूदनवल्लभायै
॥
10
॥
लक्ष्म्यै
नमोऽस्तु
शुभलक्षणलक्षितायै
सिद्ध्यै
नमोऽस्तु
शिवसिद्धसुपूजितायै
।
धृत्यै
नमोऽस्त्वमितदुर्गतिभञ्जनायै
गत्यै
नमोऽस्तु
वरसद्गतिदायिकायै
॥
11
॥
देव्यै
नमोऽस्तु
दिवि
देवगणार्चितायै
भूत्यै
नमोऽस्तु
भुवनार्तिविनाशनायै
।
धात्र्यै
नमोऽस्तु
धरणीधरवल्लभायै
पुष्ट्यै
नमोऽस्तु
पुरुषोत्तमवल्लभायै
॥
12
॥
सुतीव्रदारिद्र्यविदुःखहन्त्र्यै
नमोऽस्तु
ते
सर्वभयापहन्त्र्यै
।
श्रीविष्णुवक्षःस्थलसंस्थितायै
नमो
नमः
सर्वविभूतिदायै
॥
13
॥
जयतु
जयतु
लक्ष्मीर्लक्षणालङ्कृताङ्गी
जयतु
जयतु
पद्मा
पद्मसद्माभिवन्द्या
।
जयतु
जयतु
विद्या
विष्णुवामाङ्कसंस्था
जयतु
जयतु
सम्यक्सर्वसम्पत्करी
श्रीः
॥
14
॥
जयतु
जयतु
देवी
देवसङ्घाभिपूज्या
जयतु
जयतु
भद्रा
भार्गवी
भाग्यरूपा
।
जयतु
जयतु
नित्या
निर्मलज्ञानवेद्या
जयतु
जयतु
सत्या
सर्वभूतान्तरस्था
॥
15
॥
जयतु
जयतु
रम्या
रत्नगर्भान्तरस्था
जयतु
जयतु
शुद्धा
शुद्धजाम्बूनदाभा
।
जयतु
जयतु
कान्ता
कान्तिमद्भासिताङ्गी
जयतु
जयतु
शान्ता
शीघ्रमागच्छ
सौम्ये
॥
16
॥
यस्याः
कलायाः
कमलोद्भवाद्या
रुद्राश्च
शक्र
प्रमुखाश्च
देवाः
।
जीवन्ति
सर्वेऽपि
सशक्तयस्ते
प्रभुत्वमाप्ताः
परमायुषस्ते
॥
17
॥
लिलेख
निटिले
विधिर्मम
लिपिं
विसृज्यान्तरं
त्वया
विलिखितव्यमेतदिति
तत्फलप्राप्तये
।
तदन्तरफलेस्फुटं
कमलवासिनी
श्रीरिमां
समर्पय
समुद्रिकां
सकलभाग्यसंसूचिकाम्
॥
18
॥
कलया
ते
यथा
देवि
जीवन्ति
सचराचराः
।
तथा
सम्पत्करे
लक्ष्मि
सर्वदा
सम्प्रसीद
मे
॥
19
॥
यथा
विष्णुर्ध्रुवे
नित्यं
स्वकलां
सन्न्यवेशयत्
।
तथैव
स्वकलां
लक्ष्मि
मयि
सम्यक्
समर्पय
॥
20
॥
सर्वसौख्यप्रदे
देवि
भक्तानामभयप्रदे
।
अचलां
कुरु
यत्नेन
कलां
मयि
निवेशिताम्
॥
21
॥
मुदास्तां
मत्फाले
परमपदलक्ष्मीः
स्फुटकला
सदा
वैकुण्ठश्रीर्निवसतु
कला
मे
नयनयोः
।
वसेत्सत्ये
लोके
मम
वचसि
लक्ष्मीर्वरकला
श्रियः
श्वेतद्वीपे
निवसतु
कला
मे
स्वकरयोः
॥
22
॥
तावन्नित्यं
ममाङ्गेषु
क्षीराब्धौ
श्रीकला
वसेत्
।
सूर्याचन्द्रमसौ
यावद्यावल्लक्ष्मीपतिः
श्रियाः
॥
23
॥
सर्वमङ्गलसम्पूर्णा
सर्वैश्वर्यसमन्विता
।
आद्यादि
श्रीर्महालक्ष्मी
त्वत्कला
मयि
तिष्ठतु
॥
24
॥
अज्ञानतिमिरं
हन्तुं
शुद्धज्ञानप्रकाशिका
।
सर्वैश्वर्यप्रदा
मेऽस्तु
त्वत्कला
मयि
संस्थिता
॥
25
॥
अलक्ष्मीं
हरतु
क्षिप्रं
तमः
सूर्यप्रभा
यथा
।
वितनोतु
मम
श्रेयस्त्वत्कला
मयि
संस्थिता
॥
26
॥
ऐश्वर्यमङ्गलोत्पत्तिस्त्वत्कलायां
निधीयते
।
मयि
तस्मात्कृतार्थोऽस्मि
पात्रमस्मि
स्थितेस्तव
॥
27
॥
भवदावेशभाग्यार्हो
भाग्यवानस्मि
भार्गवि
।
त्वत्प्रसादात्पवित्रोऽहं
लोकमातर्नमोऽस्तु
ते
॥
28
॥
पुनासि
मां
त्वत्कलयैव
यस्मा-
-दतः
समागच्छ
ममाग्रतस्त्वम्
।
परं
पदं
श्रीर्भव
सुप्रसन्ना
मय्यच्युतेन
प्रविशादिलक्ष्मीः
॥
29
॥
श्रीवैकुण्ठस्थिते
लक्ष्मि
समागच्छ
ममाग्रतः
।
नारायणेन
सह
मां
कृपादृष्ट्याऽवलोकय
॥
30
॥
सत्यलोकस्थिते
लक्ष्मि
त्वं
ममागच्छ
सन्निधिम्
।
वासुदेवेन
सहिता
प्रसीद
वरदा
भव
॥
31
॥
श्वेतद्वीपस्थिते
लक्ष्मि
शीघ्रमागच्छ
सुव्रते
।
विष्णुना
सहिते
देवि
जगन्मातः
प्रसीद
मे
॥
32
॥
क्षीराम्बुधिस्थिते
लक्ष्मि
समागच्छ
समाधवा
।
त्वत्कृपादृष्टिसुधया
सततं
मां
विलोकय
॥
33
॥
रत्नगर्भस्थिते
लक्ष्मि
परिपूर्णे
हिरण्मये
।
समागच्छ
समागच्छ
स्थित्वाऽऽशु
पुरतो
मम
॥
34
॥
स्थिरा
भव
महालक्ष्मि
निश्चला
भव
निर्मले
।
प्रसन्ने
कमले
देवि
प्रसन्नहृदया
भव
॥
35
॥
श्रीधरे
श्रीमहाभूते
त्वदन्तःस्थं
महानिधिम्
।
शीघ्रमुद्धृत्य
पुरतः
प्रदर्शय
समर्पय
॥
36
॥
वसुन्धरे
श्रीवसुधे
वसुदोग्ध्रि
कृपामये
।
त्वत्कुक्षिगतसर्वस्वं
शीघ्रं
मे
सम्प्रदर्शय
॥
37
॥
विष्णुप्रिये
रत्नगर्भे
समस्तफलदे
शिवे
।
त्वद्गर्भगतहेमादीन्
सम्प्रदर्शय
दर्शय
॥
38
॥
रसातलगते
लक्ष्मि
शीघ्रमागच्छ
मे
पुरः
।
न
जाने
परमं
रूपं
मातर्मे
सम्प्रदर्शय
॥
39
॥
आविर्भव
मनोवेगाच्छीघ्रमागच्छ
मे
पुरः
।
मा
वत्स
भैरिहेत्युक्त्वा
कामं
गौरिव
रक्ष
माम्
॥
40
॥
देवि
शीघ्रं
समागच्छ
धरणीगर्भसंस्थिते
।
मातस्त्वद्भृत्यभृत्योऽहं
मृगये
त्वां
कुतूहलात्
॥
41
॥
उत्तिष्ठ
जागृहि
त्वं
मे
समुत्तिष्ठ
सुजागृहि
।
अक्षयान्
हेमकलशान्
सुवर्णेन
सुपूरितान्
॥
42
॥
निक्षेपान्मे
समाकृष्य
समुद्धृत्य
ममाग्रतः
।
समुन्नतानना
भूत्वा
समाधेहि
धरान्तरात्
॥
43
॥
मत्सन्निधिं
समागच्छ
मदाहितकृपारसात्
।
प्रसीद
श्रेयसां
दोग्ध्री
लक्ष्मीर्मे
नयनाग्रतः
॥
44
॥
अत्रोपविश
लक्ष्मि
त्वं
स्थिरा
भव
हिरण्मये
।
सुस्थिरा
भव
सम्प्रीत्या
प्रसीद
वरदा
भव
॥
45
॥
आनीतांस्तु
तथा
देवि
निधीन्मे
सम्प्रदर्शय
।
अद्य
क्षणेन
सहसा
दत्त्वा
संरक्ष
मां
सदा
॥
46
॥
मयि
तिष्ठ
तथा
नित्यं
यथेन्द्रादिषु
तिष्ठसि
।
अभयं
कुरु
मे
देवि
महालक्ष्मीर्नमोऽस्तु
ते
॥
47
॥
समागच्छ
महालक्ष्मि
शुद्धजाम्बूनदप्रभे
।
प्रसीद
पुरतः
स्थित्वा
प्रणतं
मां
विलोकय
॥
48
॥
लक्ष्मीर्भुवं
गता
भासि
यत्र
यत्र
हिरण्मयी
।
तत्र
तत्र
स्थिता
त्वं
मे
तव
रूपं
प्रदर्शय
॥
49
॥
क्रीडन्ती
बहुधा
भूमौ
परिपूर्णकृपामयि
।
मम
मूर्धनि
ते
हस्तमविलम्बितमर्पय
॥
50
॥
फलद्भाग्योदये
लक्ष्मि
समस्तपुरवासिनी
।
प्रसीद
मे
महालक्ष्मि
परिपूर्णमनोरथे
॥
51
॥
अयोध्यादिषु
सर्वेषु
नगरेषु
समास्थिते
।
वैभवैर्विविधैर्युक्तैः
समागच्छ
मुदान्विते
॥
52
॥
समागच्छ
समागच्छ
ममाग्रे
भव
सुस्थिरा
।
करुणारसनिष्यन्दनेत्रद्वय
विलासिनी
॥
53
॥
[निष्पन्न]
सन्निधत्स्व
महालक्ष्मि
त्वत्पाणिं
मम
मस्तके
।
करुणासुधया
मां
त्वमभिषिञ्च्य
स्थिरं
कुरु
॥
54
॥
सर्वराजगृहे
लक्ष्मि
समागच्छ
बलान्विते
।
[मुदान्विते]
स्थित्वाऽऽशु
पुरतो
मेऽद्य
प्रसादेनाऽभयं
कुरु
॥
55
॥
सादरं
मस्तके
हस्तं
मम
त्वं
कृपयार्पय
।
सर्वराजगृहे
लक्ष्मि
त्वत्कला
मयि
तिष्ठतु
॥
56
॥
आद्यादि
श्रीमहालक्ष्मि
विष्णुवामाङ्कसंस्थिते
।
प्रत्यक्षं
कुरु
मे
रूपं
रक्ष
मां
शरणागतम्
॥
57
॥
प्रसीद
मे
महालक्ष्मि
सुप्रसीद
महाशिवे
।
अचला
भव
सम्प्रीत्या
सुस्थिरा
भव
मद्गृहे
॥
58
॥
यावत्तिष्ठन्ति
वेदाश्च
यावच्चन्द्रदिवाकरौ
।
यावद्विष्णुश्च
यावत्त्वं
तावत्कुरु
कृपां
मयि
॥
59
॥
चान्द्रीकला
यथा
शुक्ले
वर्धते
सा
दिने
दिने
।
तथा
दया
ते
मय्येव
वर्धतामभिवर्धताम्
॥
60
॥
यथा
वैकुण्ठनगरे
यथा
वै
क्षीरसागरे
।
तथा
मद्भवने
तिष्ठ
स्थिरं
श्रीविष्णुना
सह
॥
61
॥
योगिनां
हृदये
नित्यं
यथा
तिष्ठसि
विष्णुना
।
तथा
मद्भवने
तिष्ठ
स्थिरं
श्रीविष्णुना
सह
॥
62
॥
नारायणस्य
हृदये
भवती
यथास्ते
नारायणोऽपि
तव
हृत्कमले
यथास्ते
।
नारायणस्त्वमपि
नित्यमुभौ
तथैव
तौ
तिष्ठतां
हृदि
ममापि
दयान्वितौ
श्रीः
॥
63
॥
विज्ञानवृद्धिं
हृदये
कुरु
श्रीः
सौभाग्यवृद्धिं
कुरु
मे
गृहे
श्रीः
।
दयासुवृद्धिं
कुरुतां
मयि
श्रीः
सुवर्णवृद्धिं
कुरु
मे
गृहे
श्रीः
॥
64
॥
न
मां
त्यजेथाः
श्रितकल्पवल्लि
सद्भक्तचिन्तामणिकामधेनो
।
विश्वस्य
मातर्भव
सुप्रसन्ना
गृहे
कलत्रेषु
च
पुत्रवर्गे
॥
65
॥
आद्यादिमाये
त्वमजाण्डबीजं
त्वमेव
साकारनिराकृतिस्त्वम्
।
त्वया
धृताश्चाब्जभवाण्डसङ्घा-
-श्चित्रं
चरित्रं
तव
देवि
विष्णोः
॥
66
॥
ब्रह्मरुद्रादयो
देवा
वेदाश्चापि
न
शक्नुयुः
।
महिमानं
तव
स्तोतुं
मन्दोऽहं
शक्नुयां
कथम्
॥
67
॥
अम्ब
त्वद्वत्सवाक्यानि
सूक्तासूक्तानि
यानि
च
।
तानि
स्वीकुरु
सर्वज्ञे
दयालुत्वेन
सादरम्
॥
68
॥
भवतीं
शरणं
गत्वा
कृतार्थाः
स्युः
पुरातनाः
।
इति
सञ्चिन्त्य
मनसा
त्वामहं
शरणं
व्रजे
॥
69
॥
अनन्ता
नित्यसुखिनस्त्वद्भक्तास्त्वत्परायणाः
।
इति
वेदप्रमाणाद्धि
देवि
त्वां
शरणं
व्रजे
॥
70
॥
तव
प्रतिज्ञा
मद्भक्ता
न
नश्यन्तीत्यपि
क्वचित्
।
इति
सञ्चिन्त्य
सञ्चिन्त्य
प्राणान्
सन्धारयाम्यहम्
॥
71
॥
त्वदधीनस्त्वहं
मातस्त्वत्कृपा
मयि
विद्यते
।
यावत्सम्पूर्णकामः
स्यात्तावद्देहि
दयानिधे
॥
72
॥
क्षणमात्रं
न
शक्नोमि
जीवितुं
त्वत्कृपां
विना
।
न
जीवन्तीह
जलजा
जलं
त्यक्त्वा
जलग्रहाः
॥
73
॥
यथा
हि
पुत्रवात्सल्याज्जननी
प्रस्नुतस्तनी
।
वत्सं
त्वरितमागत्य
सम्प्रीणयति
वत्सला
॥
74
॥
यदि
स्यां
तव
पुत्रोऽहं
माता
त्वं
यदि
मामकी
।
दयापयोधरस्तन्यसुधाभिरभिषिञ्च
माम्
॥
75
॥
मृग्यो
न
गुणलेशोऽपि
मयि
दोषैकमन्दिरे
।
पांसूनां
वृष्टिबिन्दूनां
दोषाणां
च
न
मे
मतिः
॥
76
॥
पापिनामहमेवाग्र्यो
दयालूनां
त्वमग्रणीः
।
दयनीयो
मदन्योऽस्ति
तव
कोऽत्र
जगत्त्रये
॥
77
॥
विधिनाहं
न
सृष्टश्चेन्न
स्यात्तव
दयालुता
।
आमयो
वा
न
सृष्टश्चेदौषधस्य
वृथोदयः
॥
78
॥
कृपा
मदग्रजा
किं
ते
अहं
किं
वा
तदग्रजः
।
विचार्य
देहि
मे
वित्तं
तव
देवि
दयानिधे
॥
79
॥
माता
पिता
त्वं
गुरुसद्गतिः
श्री-
-स्त्वमेव
सञ्जीवनहेतुभूता
।
अन्यं
न
मन्ये
जगदेकनाथे
त्वमेव
सर्वं
मम
देवि
सत्ये
॥
80
॥
आद्यादिलक्ष्मीर्भव
सुप्रसन्ना
विशुद्धविज्ञानसुखैकदोग्ध्री
।
अज्ञानहन्त्री
त्रिगुणातिरिक्ता
प्रज्ञाननेत्री
भव
सुप्रसन्ना
॥
81
॥
अशेषवाग्जाड्यमलापहन्त्री
नवं
नवं
स्पष्टसुवाक्प्रदायिनी
।
ममेह
जिह्वाग्र
सुरङ्गनर्तकी
[नर्तिनी]
भव
प्रसन्ना
वदने
च
मे
श्रीः
॥
82
॥
समस्तसम्पत्सुविराजमाना
समस्ततेजश्चयभासमाना
।
विष्णुप्रिये
त्वं
भव
दीप्यमाना
वाग्देवता
मे
नयने
प्रसन्ना
॥
83
॥
सर्वप्रदर्शे
सकलार्थदे
त्वं
प्रभासुलावण्यदयाप्रदोग्ध्री
।
सुवर्णदे
त्वं
सुमुखी
भव
श्री-
-र्हिरण्मयी
मे
नयने
प्रसन्ना
॥
84
॥
सर्वार्थदा
सर्वजगत्प्रसूतिः
सर्वेश्वरी
सर्वभयापहन्त्री
।
सर्वोन्नता
त्वं
सुमुखी
भव
श्री-
-र्हिरण्मयी
मे
नयने
प्रसन्ना
॥
85
॥
समस्तविघ्नौघविनाशकारिणी
समस्तभक्तोद्धरणे
विचक्षणा
।
अनन्तसौभाग्यसुखप्रदायिनी
हिरण्मयी
मे
नयने
प्रसन्ना
॥
86
॥
देवि
प्रसीद
दयनीयतमाय
मह्यं
देवाधिनाथभवदेवगणाभिवन्द्ये
।
मातस्तथैव
भव
सन्निहिता
दृशोर्मे
पत्या
समं
मम
मुखे
भव
सुप्रसन्ना
॥
87
॥
मा
वत्स
भैरभयदानकरोऽर्पितस्ते
मौलौ
ममेति
मयि
दीनदयानुकम्पे
।
मातः
समर्पय
मुदा
करुणाकटाक्षं
माङ्गल्यबीजमिह
नः
सृज
जन्म
मातः
॥
88
॥
कटाक्ष
इह
कामधुक्तव
मनस्तु
चिन्तामणिः
करः
सुरतरुः
सदा
नवनिधिस्त्वमेवेन्दिरे
।
भवे
तव
दयारसो
मम
रसायनं
चान्वहं
मुखं
तव
कलानिधिर्विविधवाञ्छितार्थप्रदम्
॥
89
॥
यथा
रसस्पर्शनतोऽयसोऽपि
सुवर्णता
स्यात्कमले
तथा
ते
।
कटाक्षसंस्पर्शनतो
जनाना-
-ममङ्गलानामपि
मङ्गलत्वम्
॥
90
॥
देहीति
नास्तीति
वचः
प्रवेशा-
-द्भीतो
रमे
त्वां
शरणं
प्रपद्ये
।
अतः
सदाऽस्मिन्नभयप्रदा
त्वं
सहैव
पत्या
मयि
सन्निधेहि
॥
91
॥
कल्पद्रुमेण
मणिना
सहिता
सुरम्या
श्रीस्ते
कला
मयि
रसेन
रसायनेन
।
आस्तां
यतो
मम
शिरःकरदृष्टिपाद-
-स्पृष्टाः
सुवर्णवपुषः
स्थिरजङ्गमाः
स्युः
॥
92
॥
आद्यादिविष्णोः
स्थिरधर्मपत्नी
त्वमेव
पत्या
मयि
सन्निधेहि
।
आद्यादिलक्ष्मि
त्वदनुग्रहेण
पदे
पदे
मे
निधिदर्शनं
स्यात्
॥
93
॥
आद्यादिलक्ष्मीहृदयं
पठेद्यः
स
राज्यलक्ष्मीमचलां
तनोति
।
महादरिद्रोऽपि
भवेद्धनाढ्य-
-स्तदन्वये
श्रीः
स्थिरतां
प्रयाति
॥
94
॥
यस्य
स्मरणमात्रेण
तुष्टा
स्याद्विष्णुवल्लभा
।
तस्याभीष्टं
ददत्याशु
तं
पालयति
पुत्रवत्
॥
95
॥
इदं
रहस्यं
हृदयं
सर्वकामफलप्रदम्
।
जपः
पञ्चसहस्रं
तु
पुरश्चरणमुच्यते
॥
96
॥
त्रिकालमेककालं
वा
नरो
भक्तिसमन्वितः
।
यः
पठेच्छृणुयाद्वापि
स
याति
परमां
श्रियम्
॥
97
॥
महालक्ष्मीं
समुद्दिश्य
निशि
भार्गववासरे
।
इदं
श्रीहृदयं
जप्त्वा
पञ्चवारं
धनी
भवेत्
॥
98
॥
अनेन
हृदयेनान्नं
गर्भिण्या
अभिमन्त्रितम्
।
ददाति
तत्कुले
पुत्रो
जायते
श्रीपतिः
स्वयम्
॥
99
॥
नरेण
वाऽथवा
नार्या
लक्ष्मीहृदयमन्त्रिते
।
जले
पीते
च
तद्वंशे
मन्दभाग्यो
न
जायते
॥
100
॥
य
आश्विने
मासि
च
शुक्लपक्षे
रमोत्सवे
सन्निहिते
सुभक्त्या
।
पठेत्तथैकोत्तरवारवृद्ध्या
लभेत्स
सौवर्णमयीं
सुवृष्टिम्
॥
101
॥
य
एकभक्तोऽन्वहमेकवर्षं
विशुद्धधीः
सप्ततिवारजापी
।
स
मन्दभाग्योऽपि
रमाकटाक्षा-
-द्भवेत्सहस्राक्षशताधिकश्रीः
॥
102
॥
श्रीशाङ्घ्रिभक्तिं
हरिदासदास्यं
प्रसन्नमन्त्रार्थदृढैकनिष्ठाम्
।
गुरोः
स्मृतिं
निर्मलबोधबुद्धिं
प्रदेहि
मातः
परमं
पदं
श्रीः
॥
103
॥
पृथ्वीपतित्वं
पुरुषोत्तमत्वं
विभूतिवासं
विविधार्थसिद्धिम्
।
सम्पूर्णकीर्तिं
बहुवर्षभोगं
प्रदेहि
मे
लक्ष्मि
पुनः
पुनस्त्वम्
॥
104
॥
वादार्थसिद्धिं
बहुलोकवश्यं
वयः
स्थिरत्वं
ललनासुभोगम्
।
पौत्रादिलब्धिं
सकलार्थसिद्धिं
प्रदेहि
मे
भार्गवि
जन्मजन्मनि
॥
105
॥
सुवर्णवृद्धिं
कुरु
मे
गृहे
श्रीः
सुधान्यवृद्धिं
कुरू
मे
गृहे
श्रीः
।
कल्याणवृद्धिं
कुरु
मे
गृहे
श्रीः
विभूतिवृद्धिं
कुरु
मे
गृहे
श्रीः
॥
106
॥
ध्यायेल्लक्ष्मीं
प्रहसितमुखीं
कोटिबालार्कभासां
विद्युद्वर्णाम्बरवरधरां
भूषणाढ्यां
सुशोभाम्
।
बीजापूरं
सरसिजयुगं
बिभ्रतीं
स्वर्णपात्रं
भर्त्रायुक्तां
मुहुरभयदां
मह्यमप्यच्युतश्रीः
॥
107
॥
गुह्यातिगुह्यगोप्त्री
त्वं
गृहाणास्मत्कृतं
जपम्
।
सिद्धिर्भवतु
मे
देवि
त्वत्प्रसादान्मयि
स्थिता
॥
108
॥
इति
श्रीअथर्वणरहस्ये
श्रीलक्ष्मीहृदयस्तोत्रं
सम्पूर्णम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits