Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

लक्ष्मी द्वादशनाम स्तोत्रम्

श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा ।
तृतीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी ॥ 1 ॥
पञ्चमं विष्णुपत्नी च षष्ठं स्यात् वैष्णवी तथा ।
सप्तमं तु वरारोहा अष्टमं हरिवल्लभा ॥ 2 ॥
नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका ।
एकादशं तु लक्ष्मीः स्यात् द्वादशं श्रीहरिप्रिया ॥ 3 ॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
आयुरारोग्यमैश्वर्यं तस्य पुण्यफलप्रदम् ॥ 4 ॥
इति श्री लक्ष्मी द्वादशनाम स्तोत्रम् ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits