हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
कनकधारा स्तोत्रम्
वन्दे
वन्दारु
मन्दारमिन्दिरानन्दकन्दलम्
।
अमन्दानन्दसन्दोह
बन्धुरं
सिन्धुराननम्
॥
अङ्गं
हरेः
पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव
मुकुलाभरणं
तमालम्
।
अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदास्तु
मम
मङ्गलदेवतायाः
॥
1
॥
मुग्धा
मुहुर्विदधती
वदने
मुरारेः
प्रेमत्रपाप्रणिहितानि
गतागतानि
।
माला
दृशोर्मधुकरीव
महोत्पले
या
सा
मे
श्रियं
दिशतु
सागरसम्भवायाः
॥
2
॥
आमीलिताक्षमधिगम्य
मुदा
मुकुन्दम्-
आनन्दकन्दमनिमेषमनङ्गतन्त्रम्
।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै
भवेन्मम
भुजङ्गशयाङ्गनायाः
॥
3
॥
बाह्वन्तरे
मधुजितः
श्रितकौस्तुभे
या
हारावलीव
हरिनीलमयी
विभाति
।
कामप्रदा
भगवतोऽपि
कटाक्षमाला
कल्याणमावहतु
मे
कमलालयायाः
॥
4
॥
कालाम्बुदालिललितोरसि
कैटभारेः
धाराधरे
स्फुरति
या
तटिदङ्गनेव
।
मातुस्समस्तजगतां
महनीयमूर्तिः
भद्राणि
मे
दिशतु
भार्गवनन्दनायाः
॥
5
॥
प्राप्तं
पदं
प्रथमतः
खलु
यत्प्रभावात्
माङ्गल्यभाजि
मधुमाथिनि
मन्मथेन
।
मय्यापतेत्तदिह
मन्थरमीक्षणार्धं
मन्दालसं
च
मकरालयकन्यकायाः
॥
6
॥
विश्वामरेन्द्रपदविभ्रमदानदक्षं
आनन्दहेतुरधिकं
मुरविद्विषोऽपि
।
ईषन्निषीदतु
मयि
क्षणमीक्षणार्थं
इन्दीवरोदरसहोदरमिन्दिरायाः
॥
7
॥
इष्टा
विशिष्टमतयोऽपि
यया
दयार्द्र
दृष्ट्या
त्रिविष्टपपदं
सुलभं
लभन्ते
।
दृष्टिः
प्रहृष्ट
कमलोदरदीप्तिरिष्टां
पुष्टिं
कृषीष्ट
मम
पुष्करविष्टरायाः
॥
8
॥
दद्याद्दयानुपवनो
द्रविणाम्बुधारा-
मस्मिन्न
किञ्चन
विहङ्गशिशौ
विषण्णे
।
दुष्कर्मघर्ममपनीय
चिराय
दूरं
नारायणप्रणयिनीनयनाम्बुवाहः
॥
9
॥
गीर्देवतेति
गरुडध्वजसुन्दरीति
शाकम्भरीति
शशिशेखरवल्लभेति
।
सृष्टिस्थितिप्रलयकेलिषु
संस्थितायै
तस्यै
नमस्त्रिभुवनैकगुरोस्तरुण्यै
॥
10
॥
श्रुत्यै
नमोऽस्तु
शुभकर्मफलप्रसूत्यै
रत्यै
नमोऽस्तु
रमणीयगुणार्णवायै
।
शक्त्यै
नमोऽस्तु
शतपत्रनिकेतनायै
पुष्ट्यै
नमोऽस्तु
पुरुषोत्तमवल्लभायै
॥
11
॥
नमोऽस्तु
नालीकनिभाननायै
नमोऽस्तु
दुग्धोदधिजन्मभूम्यै
।
नमोऽस्तु
सोमामृतसोदरायै
नमोऽस्तु
नारायणवल्लभायै
॥
12
॥
नमोऽस्तु
हेमाम्बुजपीठिकायै
नमोऽस्तु
भूमण्डलनायिकायै
।
नमोऽस्तु
देवादिदयापरायै
नमोऽस्तु
शार्ङ्गायुधवल्लभायै
॥
13
॥
नमोऽस्तु
देव्यै
भृगुनन्दनायै
नमोऽस्तु
विष्णोरुरसिस्थितायै
।
नमोऽस्तु
लक्ष्म्यै
कमलालयायै
नमोऽस्तु
दामोदरवल्लभायै
॥
14
॥
नमोऽस्तु
कान्त्यै
कमलेक्षणायै
नमोऽस्तु
भूत्यै
भुवनप्रसूत्यै
।
नमोऽस्तु
देवादिभिरर्चितायै
नमोऽस्तु
नन्दात्मजवल्लभायै
॥
15
॥
सम्पत्कराणि
सकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानि
सरोरुहाक्षि
।
त्वद्वन्दनानि
दुरितोद्धरणोद्यतानि
मामेव
मातरनिशं
कलयन्तु
मान्ये
॥
16
॥
यत्कटाक्षसमुपासनाविधिः
सेवकस्य
सकलार्थसम्पदः
।
सन्तनोति
वचनाङ्गमानसैः
त्वां
मुरारिहृदयेश्वरीं
भजे
॥
17
॥
सरसिजनिलये
सरोजहस्ते
[सरसिजनयनॆ]
धवलतमांशुकगन्धमाल्यशोभे
।
भगवति
हरिवल्लभे
मनोज्ञे
त्रिभुवनभूतिकरि
प्रसीद
मह्यम्
॥
18
॥
दिग्घस्तिभिः
कनककुम्भमुखावसृष्ट
स्वर्वाहिनी
विमलचारुजलप्लुताङ्गीम्
।
प्रातर्नमामि
जगतां
जननीमशेष
लोकाधिनाथ-गृहिणीम्-अमृताब्धिपुत्रीम्
॥
19
॥
कमले
कमलाक्षवल्लभे
त्वं
करुणापूरतरङ्गितैरपाङ्गैः
।
अवलोकय
मामकिञ्चनानां
प्रथमं
पात्रमकृत्रिमं
दयायाः
॥
20
॥
स्तुवन्ति
ये
स्तुतिभिरमूभिरन्वहं
त्रयीमयीं
त्रिभुवनमातरं
रमाम्
।
गुणाधिका
गुरुतर-भाग्य-भागिनो
[भागिनह्]
भवन्ति
ते
भुवि
बुधभाविताशयाः
॥
21
॥
सुवर्णधारास्तोत्रं
यच्छङ्कराचार्य
निर्मितम्
।
त्रिसन्ध्यं
यः
पठेन्नित्यं
स
कुबेरसमो
भवेत्
॥
इति
श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः
कृतौ
कनकधारास्तोत्रं
सम्पूर्णम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits