Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

कल्याणवृष्टि स्तवः

कल्याणवृष्टिभिरिवामृतपूरिताभि- -र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः सेवाभिरम्ब तव पादसरोजमूले नाकारि किं मनसि भाग्यवतां जनानाम् 1 एतावदेव जननि स्पृहणीयमास्ते त्वद्वन्दनेषु सलिलस्थगिते नेत्रे सान्निध्यमुद्यदरुणायुतसोदरस्य त्वद्विग्रहस्य परया सुधयाप्लुतस्य 2 ईशत्वनामकलुषाः कति वा सन्ति ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः एकः एव जननि स्थिरसिद्धिरास्ते यः पादयोस्तव सकृत्प्रणतिं करोति 3 लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं कारुण्यकन्दलितकान्तिभरं कटाक्षम् कन्दर्पकोटिसुभगास्त्वयि भक्तिभाजः सम्मोहयन्ति तरुणीर्भुवनत्रयेऽपि 4 ह्रीं‍कारमेव तव नाम गृणन्ति वेदा मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे त्वत्संस्मृतौ यमभटाभिभवं विहाय दीव्यन्ति नन्दनवने सह लोकपालैः 5 हन्तुः पुरामधिगलं परिपीयमानः क्रूरः कथं भविता गरलस्य वेगः नाश्वासनाय यदि मातरिदं तवार्थं देहस्य शश्वदमृताप्लुतशीतलस्य 6 सर्वज्ञतां सदसि वाक्पटुतां प्रसूते देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः किं स्फुरन्मकुटमुज्ज्वलमातपत्रं द्वे चामरे महतीं वसुधां ददाति 7 कल्पद्रुमैरभिमतप्रतिपादनेषु कारुण्यवारिधिभिरम्ब भवात्कटाक्षैः आलोकय त्रिपुरसुन्दरि मामनाथं त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् 8 हन्तेतरेष्वपि मनांसि निधाय चान्ये भक्तिं वहन्ति किल पामरदैवतेषु त्वामेव देवि मनसा समनुस्मरामि त्वामेव नौमि शरणं जननि त्वमेव 9 लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना- -मालोकय त्रिपुरसुन्दरि मां कदाचित् नूनं मया तु सदृशः करुणैकपात्रं जातो जनिष्यति जनो जायते वा 10 ह्रीं ह्रीमिति प्रतिदिनं जपतां तवाख्यां किं नाम दुर्लभमिह त्रिपुराधिवासे मालाकिरीटमदवारणमाननीया तान्सेवते वसुमती स्वयमेव लक्ष्मीः 11 सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदाननिरतानि सरोरुहाक्षि त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु नान्यम् 12 कल्पोपसंहृतिषु कल्पितताण्डवस्य देवस्य खण्डपरशोः परभैरवस्य पाशाङ्कुशैक्षवशरासनपुष्पबाणा सा साक्षिणी विजयते तव मूर्तिरेका 13 लग्नं सदा भवतु मातरिदं तवार्धं तेजः परं बहुलकुङ्कुमपङ्कशोणम् भास्वत्किरीटममृतांशुकलावतंसं मध्ये त्रिकोणनिलयं परमामृतार्द्रम् 14 ह्रीं‍कारमेव तव नाम तदेव रूपं त्वन्नाम दुर्लभमिह त्रिपुरे गृणन्ति त्वत्तेजसा परिणतं वियदादिभूतं सौख्यं तनोति सरसीरुहसम्भवादेः 15 ह्रीं‍कारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितं स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी वाणी निर्मलसूक्तिभारभारिता जागर्ति दीर्घं वयः 16 इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ कल्याणवृष्टि स्तवः

Recite with devotion and pure heart

Regular practice brings spiritual benefits