Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

श्री राधा कृष्ण अष्टकम्

यः श्रीगोवर्धनाद्रिं सकलसुरपतींस्तत्रगोगोपबृन्दं स्वीयं संरक्षितुं चेत्यमरसुखकरं मोहयन् सन्दधार तन्मानं खण्डयित्वा विजितरिपुकुलो नीलधाराधराभः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव 1 यं दृष्ट्वा कंसभूपः स्वकृतकृतिमहो संस्मरन्मन्त्रिवर्यान् किं वा पूर्वं मयेदं कृतमिति वचनं दुःखितः प्रत्युवाच आज्ञप्तो नारदेन स्मितयुतवदनः पूरयन्सर्वकामान् कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव 2 येन प्रोद्यत्प्रतापा नृपतिकुलभवाः पाण्डवाः कौरवाब्धिं तीर्त्वा पारं तदीयं जगदखिलनृणां दुस्तरञ्चेति जग्मुः तत्पत्नीचीरवृद्धिप्रविदितमहिमा भूतले भूपतीशः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव 3 यस्मै चोद्धृत्य पात्राद्दधियुतनवनीतं करैर्गोपिकाभि- र्दत्तं तद्भावपूर्तौ विनिहितहृदयस्सत्यमेवं तिरोधात् मुक्तागुञ्जावलीभिः प्रचुरतमरुचिः कुण्डलाक्रान्तगण्डः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव 4 यस्माद्विश्वाभिरामादिह जननविधौ सर्वनन्दादिगोपाः संसारार्तेर्विमुक्ताः सकलसुखकराः सम्पदः प्रापुरेव इत्थं पूर्णेन्दुवक्त्रः कलकमलदृशः स्वीयजन्म स्तुवन्तः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव 5 यस्य श्रीनन्दसूनोः व्रजयुवतिजनाश्चागता भर्तृपुत्रां- स्त्यक्त्वा श्रुत्वा समीपे विचकितनयनाः सप्रमोदाः स्वगेहे रन्तुं रासादिलीला मनसिजदलिता वेणुनादं रम्यं कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव 6 यस्मिन् दृष्टे समस्ते जगति युवतयः प्राणनाथव्रताया- स्ता अप्येवं हि नूनं किमपि हृदये कामभावं दधत्यः तत्स्नेहाब्धिं वपुश्चेदविदितधरणौ सूर्यबिम्बस्वरूपाः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव 7 यः स्वीये गोकुलेऽस्मिन्विदितनिजकुलोद्भूतबालैः समेतो मातर्येवं चकार प्रसृततमगुणान्बाललीलाविलासान् हत्वा वत्सप्रलम्बद्विविदबकखरान्गोपबृन्दं जुगोप कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव 8 कृष्णाराधाष्टकं प्रातरुत्थाय प्रपठेन्नरः एवं सर्वदा नूनं प्राप्नोति परां गतिम् 9 इति श्रीरघुनाथचार्य विरचितं श्रीराधाकृष्णाष्टकम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits