Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

मधुराष्टकम्

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् 1 वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् 2 वेणु-र्मधुरो रेणु-र्मधुरः पाणि-र्मधुरः पादौ मधुरौ नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् 3 गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् 4 करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरम् वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् 5 गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् 6 गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् 7 गोपा मधुरा गावो मधुरा यष्टि र्मधुरा सृष्टि र्मधुरा दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् 8 इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits