हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
कृष्ण सहस्र नामस्तोत्रम्
ओं
अस्य
श्रीकृष्णसहस्रनामस्तोत्रमन्त्रस्य
पराशर
ऋषिः,
अनुष्टुप्
छन्दः,
श्रीकृष्णः
परमात्मा
देवता,
श्रीकृष्णेति
बीजम्,
श्रीवल्लभेति
शक्तिः,
शार्ङ्गीति
कीलकं,
श्रीकृष्णप्रीत्यर्थे
जपे
विनियोगः
॥
न्यासः
पराशराय
ऋषये
नमः
इति
शिरसि,
अनुष्टुप्
छन्दसे
नमः
इति
मुखे,
गोपालकृष्णदेवतायै
नमः
इति
हृदये,
श्रीकृष्णाय
बीजाय
नमः
इति
गुह्ये,
श्रीवल्लभाय
शक्त्यै
नमः
इति
पादयोः,
शार्ङ्गधराय
कीलकाय
नमः
इति
सर्वाङ्गे
॥
करन्यासः
श्रीकृष्ण
इत्यारभ्य
शूरवंशैकधीरित्यन्तानि
अङ्गुष्ठाभ्यां
नमः
।
शौरिरित्यारभ्य
स्वभासोद्भासितव्रज
इत्यन्तानि
तर्जनीभ्यां
नमः
।
कृतात्मविद्याविन्यास
इत्यारभ्य
प्रस्थानशकटारूढ
इति
मध्यमाभ्यां
नमः,
बृन्दावनकृतालय
इत्यारभ्य
मधुराजनवीक्षित
इत्यनामिकाभ्यां
नमः,
रजकप्रतिघातक
इत्यारभ्य
द्वारकापुरकल्पन
इति
कनिष्ठिकाभ्यां
नमः
द्वारकानिलय
इत्यारभ्य
पराशर
इति
करतलकरपृष्ठाभ्यां
नमः,
एवं
हृदयादिन्यासः
॥
ध्यानम्
केषाञ्चित्प्रेमपुंसां
विगलितमनसां
बाललीलाविलासं
केषां
गोपाललीलाङ्कितरसिकतनुर्वेणुवाद्येन
देवम्
।
केषां
वामासमाजे
जनितमनसिजो
दैत्यदर्पापहैवं
ज्ञात्वा
भिन्नाभिलाषं
स
जयति
जगतामीश्वरस्तादृशोऽभूत्
॥
1
॥
क्षीराब्धौ
कृतसंस्तवस्सुरगणैर्ब्रह्मादिभिः
पण्डितैः
प्रोद्भूतो
वसुदेवसद्मनि
मुदा
चिक्रीड
यो
गोकुले
।
कंसध्वंसकृते
जगाम
मधुरां
सारामसद्वारकां
गोपालोऽखिलगोपिकाजनसखः
पायादपायात्
स
नः
॥
2
॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं
बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं
पीताम्बरं
सुन्दरम्
।
गोपीनां
नयनोत्पलार्चिततनुं
गोगोपसङ्घावृतं
गोविन्दं
कलवेणुवादनरतं
दिव्याङ्गभूषं
भजे
॥
3
॥
ओम्
।
कृष्णः
श्रीवल्लभः
शार्ङ्गी
विष्वक्सेनः
स्वसिद्धिदः
।
क्षीरोदधामा
व्यूहेशः
शेषशायी
जगन्मयः
॥
1
॥
भक्तिगम्यस्त्रयीमूर्तिर्भारार्तवसुधास्तुतः
।
देवदेवो
दयासिन्धुर्देवदेवशिखामणिः
॥
2
॥
सुखभावस्सुखाधारो
मुकुन्दो
मुदिताशयः
।
अविक्रियः
क्रियामूर्तिरध्यात्मस्वस्वरूपवान्
॥
3
॥
शिष्टाभिलक्ष्यो
भूतात्मा
धर्मत्राणार्थचेष्टितः
।
अन्तर्यामी
कलारूपः
कालावयवसाक्षिकः
॥
4
॥
वसुधायासहरणो
नारदप्रेरणोन्मुखः
।
प्रभूष्णुर्नारदोद्गीतो
लोकरक्षापरायणः
॥
5
॥
रौहिणेयकृतानन्दो
योगज्ञाननियोजकः
।
महागुहान्तर्निक्षिप्तः
पुराणवपुरात्मवान्
॥
6
॥
शूरवंशैकधीश्शौरिः
कंसशङ्काविषादकृत्
।
वसुदेवोल्लसच्छक्तिर्देवक्यष्टमगर्भगः
॥
7
॥
वसुदेवसुतः
श्रीमान्देवकीनन्दनो
हरिः
।
आश्चर्यबालः
श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः
॥
8
॥
स्वभावोत्कृष्टसद्भावः
कृष्णाष्टम्यन्तसम्भवः
।
प्राजापत्यर्क्षसम्भूतो
निशीथसमयोदितः
॥
9
॥
शङ्खचक्रगदापद्मपाणिः
पद्मनिभेक्षणः
।
किरीटी
कौस्तुभोरस्कः
स्फुरन्मकरकुण्डलः
॥
10
॥
पीतवासा
घनश्यामः
कुञ्चिताञ्चितकुन्तलः
।
सुव्यक्तव्यक्ताभरणः
सूतिकागृहभूषणः
॥
11
॥
कारागारान्धकारघ्नः
पितृप्राग्जन्मसूचकः
।
वसुदेवस्तुतः
स्तोत्रं
तापत्रयनिवारणः
॥
12
॥
निरवद्यः
क्रियामूर्तिर्न्यायवाक्यनियोजकः
।
अदृष्टचेष्टः
कूटस्थो
धृतलौकिकविग्रहः
॥
13
॥
महर्षिमानसोल्लासो
महीमङ्गलदायकः
।
सन्तोषितसुरव्रातः
साधुचित्तप्रसादकः
॥
14
॥
जनकोपायनिर्देष्टा
देवकीनयनोत्सवः
।
पितृपाणिपरिष्कारो
मोहितागाररक्षकः
॥
15
॥
स्वशक्त्युद्धाटिताशेषकपाटः
पितृवाहकः
।
शेषोरगफणाच्छत्रश्शेषोक्ताख्यासहस्रकः
॥
16
॥
यमुनापूरविध्वंसी
स्वभासोद्भासितव्रजः
।
कृतात्मविद्याविन्यासो
योगमायाग्रसम्भवः
॥
17
॥
दुर्गानिवेदितोद्भावो
यशोदातल्पशायकः
।
नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः
॥
18
॥
सुजातजातकर्म
श्रीर्गोपीभद्रोक्तिनिर्वृतः
।
अलीकनिद्रोपगमः
पूतनास्तनपीडनः
॥
19
॥
स्तन्यात्तपूतनाप्राणः
पूतनाक्रोशकारकः
।
विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः
॥
20
॥
नन्दाघ्रातशिरोमध्यः
पूतनासुगतिप्रदः
।
बालः
पर्यङ्कनिद्रालुर्मुखार्पितपदाङ्गुलिः
॥
21
॥
अञ्जनस्निग्धनयनः
पर्यायाङ्कुरितस्मितः
।
लीलाक्षस्तरलालोकश्शकटासुरभञ्जनः
॥
22
॥
द्विजोदितस्वस्त्ययनो
मन्त्रपूतजलाप्लुतः
।
यशोदोत्सङ्गपर्यङ्को
यशोदामुखवीक्षकः
॥
23
॥
यशोदास्तन्यमुदितस्तृणावर्तादिदुस्सहः
।
तृणावर्तासुरध्वंसी
मातृविस्मयकारकः
॥
24
॥
प्रशस्तनामकरणो
जानुचङ्क्रमणोत्सुकः
।
व्यालम्बिचूलिकारत्नो
घोषगोपप्रहर्षणः
॥
25
॥
स्वमुखप्रतिबिम्बार्थी
ग्रीवाव्याघ्रनखोज्ज्वलः
।
पङ्कानुलेपरुचिरो
मांसलोरुकटीतटः
॥
26
॥
घृष्टजानुकरद्वन्द्वः
प्रतिबिम्बानुकारकृत्
।
अव्यक्तवर्णवाग्वृत्तिः
स्मितलक्ष्यरदोद्गमः
॥
27
॥
धात्रीकरसमालम्बी
प्रस्खलच्चित्रचङ्क्रमः
।
अनुरूपवयस्याढ्यश्चारुकौमारचापलः
॥
28
॥
वत्सपुच्छसमाकृष्टो
वत्सपुच्छविकर्षणः
।
विस्मारितान्यव्यापारो
गोपगोपीमुदावहः
॥
29
॥
अकालवत्सनिर्मोक्ता
व्रजव्याक्रोशसुस्मितः
।
नवनीतमहाचोरो
दारकाहारदायकः
॥
30
॥
पीठोलूखलसोपानः
क्षीरभाण्डविभेदनः
।
शिक्यभाण्डसमाकर्षी
ध्वान्तागारप्रवेशकृत्
॥
31
॥
भूषारत्नप्रकाशाढ्यो
गोप्युपालम्भभर्त्सितः
।
परागधूसराकारो
मृद्भक्षणकृतेक्षणः
॥
32
॥
बालोक्तमृत्कथारम्भो
मित्रान्तर्गूढविग्रहः
।
कृतसन्त्रासलोलाक्षो
जननीप्रत्ययावहः
॥
33
॥
मातृदृश्यात्तवदनो
वक्त्रलक्ष्यचराचरः
।
यशोदालालितस्वात्मा
स्वयं
स्वाच्छन्द्यमोहनः
॥
34
॥
सवित्रीस्नेहसंश्लिष्टः
सवित्रीस्तनलोलुपः
।
नवनीतार्थनाप्रह्वो
नवनीतमहाशनः
॥
35
॥
मृषाकोपप्रकम्पोष्ठो
गोष्ठाङ्गणविलोकनः
।
दधिमन्थघटीभेत्ता
किङ्किणीक्वाणसूचितः
॥
36
॥
हैयङ्गवीनरसिको
मृषाश्रुश्चौर्यशङ्कितः
।
जननीश्रमविज्ञाता
दामबन्धनियन्त्रितः
॥
37
॥
दामाकल्पश्चलापाङ्गो
गाढोलूखलबन्धनः
।
आकृष्टोलूखलोऽनन्तः
कुबेरसुतशापवित्
॥ ।
38
॥
नारदोक्तिपरामर्शी
यमलार्जुनभञ्जनः
।
धनदात्मजसङ्घुष्टो
नन्दमोचितबन्धनः
॥
39
॥
बालकोद्गीतनिरतो
बाहुक्षेपोदितप्रियः
।
आत्मज्ञो
मित्रवशगो
गोपीगीतगुणोदयः
॥
40
॥
प्रस्थानशकटारूढो
बृन्दावनकृतालयः
।
गोवत्सपालनैकाग्रो
नानाक्रीडापरिच्छदः
॥
41
॥
क्षेपणीक्षेपणप्रीतो
वेणुवाद्यविशारदः
।
वृषवत्सानुकरणो
वृषध्वानविडम्बनः
॥
42
॥
नियुद्धलीलासंहृष्टः
कूजानुकृतकोकिलः
।
उपात्तहंसगमनस्सर्वजन्तुरुतानुकृत्
॥
43
॥
भृङ्गानुकारी
दध्यन्नचोरो
वत्सपुरस्सरः
।
बली
बकासुरग्राही
बकतालुप्रदाहकः
॥
44
॥
भीतगोपार्भकाहूतो
बकचञ्चुविदारणः
।
बकासुरारिर्गोपालो
बालो
बालाद्भुतावहः
॥
45
॥
बलभद्रसमाश्लिष्टः
कृतक्रीडानिलायनः
।
क्रीडासेतुनिधानज्ञः
प्लवङ्गोत्प्लवनोऽद्भुतः
॥
46
॥
कन्दुकक्रीडनो
लुप्तनन्दादिभववेदनः
।
सुमनोऽलङ्कृतशिराः
स्वादुस्निग्धान्नशिक्यभृत्
॥
47
॥
गुञ्जाप्रालम्बनच्छन्नः
पिञ्छैरलकवेषकृत्
।
वन्याशनप्रियः
शृङ्गरवाकारितवत्सकः
॥
48
॥
मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः
।
मञ्जुशिञ्जितमञ्जीरचरणः
करकङ्कणः
॥
49
॥
अन्योन्यशासनः
क्रीडापटुः
परमकैतवः
।
प्रतिध्वानप्रमुदितः
शाखाचतुरचङ्क्रमः
॥
50
॥
अघदानवसंहर्ता
व्रजविघ्नविनाशनः
।
व्रजसञ्जीवनः
श्रेयोनिधिर्दानवमुक्तिदः
॥
51
॥
कालिन्दीपुलिनासीनस्सहभुक्तव्रजार्भकः
।
कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः
॥
52
॥
भुजसन्ध्यन्तरन्यस्तशृङ्गवेत्रः
शुचिस्मितः
।
वामपाणिस्थदध्यन्नकबलः
कलभाषणः
॥
53
॥
अङ्गुल्यन्तरविन्यस्तफलः
परमपावनः
।
अदृश्यतर्णकान्वेषी
वल्लवार्भकभीतिहा
॥
54
॥
अदृष्टवत्सपव्रातो
ब्रह्मविज्ञातवैभवः
।
गोवत्सवत्सपान्वेषी
विराट्-पुरुषविग्रहः
॥
55
॥
स्वसङ्कल्पानुरूपार्थो
वत्सवत्सपरूपधृक्
।
यथावत्सक्रियारूपो
यथास्थाननिवेशनः
॥
56
॥
यथाव्रजार्भकाकारो
गोगोपीस्तन्यपस्सुखी
।
चिराद्वलोहितो
दान्तो
ब्रह्मविज्ञातवैभवः
॥
57
॥
विचित्रशक्तिर्व्यालीनसृष्टगोवत्सवत्सपः
।
ब्रह्मत्रपाकरो
धातृस्तुतस्सर्वार्थसाधकः
॥
58
॥
ब्रह्म
ब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः
।
निरुक्तं
व्याकृतिर्व्यक्तो
निरालम्बनभावनः
॥
59
॥
प्रभविष्णुरतन्त्रीको
देवपक्षार्थरूपधृक्
।
अकामस्सर्ववेदादिरणीयस्थूलरूपवान्
॥
60
॥
व्यापी
व्याप्यः
कृपाकर्ता
विचित्राचारसम्मतः
।
छन्दोमयः
प्रधानात्मा
मूर्तामूर्तिद्वयाकृतिः
॥
61
॥
अनेकमूर्तिरक्रोधः
परः
प्रकृतिरक्रमः
।
सकलावरणोपेतस्सर्वदेवो
महेश्वरः
॥
62
॥
महाप्रभावनः
पूर्ववत्सवत्सपदर्शकः
।
कृष्णयादवगोपालो
गोपालोकनहर्षितः
॥
63
॥
स्मितेक्षाहर्षितब्रह्मा
भक्तवत्सलवाक्प्रियः
।
ब्रह्मानन्दाश्रुधौताङ्घ्रिर्लीलावैचित्र्यकोविदः
॥
64
॥
बलभद्रैकहृदयो
नामाकारितगोकुलः
।
गोपालबालको
भव्यो
रज्जुयज्ञोपवीतवान्
॥
65
॥
वृक्षच्छायाहताशान्तिर्गोपोत्सङ्गोपबर्हणः
।
गोपसंवाहितपदो
गोपव्यजनवीजितः
॥
66
।
गोपगानसुखोन्निद्रः
श्रीदामार्जितसौहृदः
।
सुनन्दसुहृदेकात्मा
सुबलप्राणरञ्जनः
॥
67
॥
तालीवनकृतक्रीडो
बलपातितधेनुकः
।
गोपीसौभाग्यसम्भाव्यो
गोधूलिच्छुरितालकः
॥
68
॥
गोपीविरहसन्तप्तो
गोपिकाकृतमज्जनः
।
प्रलम्बबाहुरुत्फुल्लपुण्डरीकावतंसकः
॥
69
॥
विलासललितस्मेरगर्भलीलावलोकनः
।
स्रग्भूषणानुलेपाढ्यो
जनन्युपहृतान्नभुक्
॥
70
॥
वरशय्याशयो
राधाप्रेमसल्लापनिर्वृतः
।
यमुनातटसञ्चारी
विषार्तव्रजहर्षदः
॥
71
॥
कालियक्रोधजनकः
वृद्धाहिकुलवेष्टितः
।
कालियाहिफणारङ्गनटः
कालियमर्दनः
॥
72
॥
नागपत्नीस्तुतिप्रीतो
नानावेषसमृद्धिकृत्
।
अविष्वक्तदृगात्मेशः
स्वदृगात्मस्तुतिप्रियः
॥
73
॥
सर्वेश्वरस्सर्वगुणः
प्रसिद्धस्सर्वसात्वतः
।
अकुण्ठधामा
चन्द्रार्कदृष्टिराकाशनिर्मलः
॥
74
॥
अनिर्देश्यगतिर्नागवनितापतिभैक्षदः
।
स्वाङ्घ्रिमुद्राङ्कनागेन्द्रमूर्धा
कालियसंस्तुतः
॥
75
॥
अभयो
विश्वतश्चक्षुः
स्तुतोत्तमगुणः
प्रभुः
।
अहमात्मा
मरुत्प्राणः
परमात्मा
द्युशीर्षवान्
॥
76
॥
नागोपायनहृष्टात्मा
ह्रदोत्सारितकालियः
।
बलभद्रसुखालापो
गोपालिङ्गननिर्वृतः
॥
77
॥
दावाग्निभीतगोपालगोप्ता
दावाग्निनाशनः
।
नयनाच्छादनक्रीडालम्पटो
नृपचेष्टितः
॥
78
॥
काकपक्षधरस्सौम्यो
बलवाहककेलिमान्
।
बलघातितदुर्धर्षप्रलम्बो
बलवत्सलः
॥
79
॥
मुञ्जाटव्यग्निशमनः
प्रावृट्कालविनोदवान्
।
शिलान्यस्तान्नभृद्दैत्यसंहर्ता
शाद्वलासनः
॥
80
॥
सदाप्तगोपिकोद्गीतः
कर्णिकारावतंसकः
।
नटवेषधरः
पद्ममालाङ्को
गोपिकावृतः
॥
81
॥
गोपीमनोहरापाङ्गो
वेणुवादनतत्परः
।
विन्यस्तवदनाम्भोजश्चारुशब्दकृताननः
॥
82
॥
बिम्बाधरार्पितोदारवेणुर्विश्वविमोहनः
।
व्रजसंवर्णितश्राव्यवेणुनादः
श्रुतिप्रियः
॥
83
॥
गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः
।
गीतस्नुतिसरित्पूरो
नादनर्तितबर्हिणः
॥
84
॥
रागपल्लवितस्थाणुर्गीतानमितपादपः
।
विस्मारिततृणग्रासमृगो
मृगविलोभितः
॥
85
॥
व्याघ्रादिहिंस्रसहजवैरहर्ता
सुगायनः
।
गाढोदीरितगोबृन्दप्रेमोत्कर्णिततर्णकः
॥
86
॥
निष्पन्दयानब्रह्मादिवीक्षितो
विश्ववन्दितः
।
शाखोत्कर्णशकुन्तौघश्छत्रायितबलाहकः
॥
87
॥
प्रसन्नः
परमानन्दश्चित्रायितचराचरः
।
गोपिकामदनो
गोपीकुचकुङ्कुममुद्रितः
॥
88
॥
गोपिकन्याजलक्रीडाहृष्टो
गोप्यंशुकापहृत्
।
स्कन्धारोपितगोपस्त्रीवासाः
कुन्दनिभस्मितः
॥
89
॥
गोपीनेत्रोत्पलशशी
गोपिकायाचितांशुकः
।
गोपीनमस्क्रियादेष्टा
गोप्येककरवन्दितः
॥
90
॥
गोप्यञ्जलिविशेषार्थी
गोपक्रीडाविलोभितः
।
शान्तवासस्फुरद्गोपीकृताञ्जलिरघापहः
॥
91
॥
गोपीकेलिविलासार्थी
गोपीसम्पूर्णकामदः
।
गोपस्त्रीवस्त्रदो
गोपीचित्तचोरः
कुतूहली
॥
92
॥
बृन्दावनप्रियो
गोपबन्धुर्यज्वान्नयाचिता
।
यज्ञेशो
यज्ञभावज्ञो
यज्ञपत्न्यभिवाञ्छितः
॥
93
॥
मुनिपत्नीवितीर्णान्नतृप्तो
मुनिवधूप्रियः
।
द्विजपत्न्यभिभावज्ञो
द्विजपत्नीवरप्रदः
॥
94
॥
प्रतिरुद्धसतीमोक्षप्रदो
द्विजविमोहिता
।
मुनिज्ञानप्रदो
यज्वस्तुतो
वासवयागवित्
॥
95
॥
पितृप्रोक्तक्रियारूपशक्रयागनिवारणः
।
शक्राऽमर्षकरश्शक्रवृष्टिप्रशमनोन्मुखः
॥
96
॥
गोवर्धनधरो
गोपगोबृन्दत्राणतत्परः
।
गोवर्धनगिरिच्छत्रचण्डदण्डभुजार्गलः
॥
97
॥
सप्ताहविधृताद्रीन्द्रो
मेघवाहनगर्वहा
।
भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः
॥
98
॥
स्वस्थानस्थापितगिरिर्गोपीदध्यक्षतार्चितः
।
सुमनस्सुमनोवृष्टिहृष्टो
वासववन्दितः
॥
99
॥
कामधेनुपयःपूराभिषिक्तस्सुरभिस्तुतः
।
धराङ्घ्रिरोषधीरोमा
धर्मगोप्ता
मनोमयः
॥
100
॥
ज्ञानयज्ञप्रियश्शास्त्रनेत्रस्सर्वार्थसारथिः
।
ऐरावतकरानीतवियद्गङ्गाप्लुतो
विभुः
॥
101
॥
ब्रह्माभिषिक्तो
गोगोप्ता
सर्वलोकशुभङ्करः
।
सर्ववेदमयो
मग्ननन्दान्वेषिपितृप्रियः
॥
102
॥
वरुणोदीरितात्मेक्षाकौतुको
वरुणार्चितः
।
वरुणानीतजनको
गोपज्ञातात्मवैभवः
॥
103
॥
स्वर्लोकालोकसंहृष्टगोपवर्गत्रिवर्गदः
।
ब्रह्महृद्गोपितो
गोपद्रष्टा
ब्रह्मपदप्रदः
॥
104
॥
शरच्चन्द्रविहारोत्कः
श्रीपतिर्वशको
क्षमः
।
भयापहो
भर्तृरुद्धगोपिकाध्यानगोचरः
॥
105
॥
गोपिकानयनास्वाद्यो
गोपीनर्मोक्तिनिर्वृतः
।
गोपिकामानहरणो
गोपिकाशतयूथपः
॥
106
॥
वैजयन्तीस्रगाकल्पो
गोपिकामानवर्धनः
।
गोपकान्तासुनिर्देष्टा
कान्तो
मन्मथमन्मथः
॥
107
॥
स्वात्मास्यदत्तताम्बूलः
फलितोत्कृष्टयौवनः
।
वल्लवीस्तनसक्ताक्षो
वल्लवीप्रेमचालितः
॥
108
॥
गोपीचेलाञ्चलासीनो
गोपीनेत्राब्जषट्पदः
।
रासक्रीडासमासक्तो
गोपीमण्डलमण्डनः
॥
109
॥
गोपीहेममणिश्रेणिमध्येन्द्रमणिरुज्ज्वलः
।
विद्याधरेन्दुशापघ्नश्शङ्खचूडशिरोहरः
॥
110
॥
शङ्खचूडशिरोरत्नसम्प्रीणितबलोऽनघः
।
अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः
॥
111
॥
सरसस्सस्मितमुखस्सुस्थिरो
विरहाकुलः
।
सङ्कर्षणार्पितप्रीतिरक्रूरध्यानगोचरः
॥
112
॥
अक्रूरसंस्तुतो
गूढो
गुणवृत्युपलक्षितः
।
प्रमाणगम्यस्तन्मात्राऽवयवी
बुद्धितत्परः
॥
113
॥
सर्वप्रमाणप्रमधीस्सर्वप्रत्ययसाधकः
।
पुरुषश्च
प्रधानात्मा
विपर्यासविलोचनः
॥
114
॥
मधुराजनसंवीक्ष्यो
रजकप्रतिघातकः
।
विचित्राम्बरसंवीतो
मालाकारवरप्रदः
॥
115
॥
कुब्जावक्रत्वनिर्मोक्ता
कुब्जायौवनदायकः
।
कुब्जाङ्गरागसुरभिः
कंसकोदण्डखण्डनः
॥
116
॥
धीरः
कुवलयापीडमर्दनः
कंसभीतिकृत्
।
दन्तिदन्तायुधो
रङ्गत्रासको
मल्लयुद्धवित्
॥
117
॥
चाणूरहन्ता
कंसारिर्देवकीहर्षदायकः
।
वसुदेवपदानम्रः
पितृबन्धविमोचनः
॥
118
॥
उर्वीभयापहो
भूप
उग्रसेनाधिपत्यदः
।
आज्ञास्थितशचीनाथस्सुधर्मानयनक्षमः
॥
119
॥
आद्यो
द्विजातिसत्कर्ता
शिष्टाचारप्रदर्शकः
।
सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीस्सुधीः
॥
120
॥
गुर्वभीष्टक्रियादक्षः
पश्चिमोदधिपूजितः
।
हतपञ्चजनप्राप्तपाञ्चजन्यो
यमार्चितः
॥
121
॥
धर्मराजजयानीतगुरुपुत्र
उरुक्रमः
।
गुरुपुत्रप्रदश्शास्ता
मधुराजसभासदः
॥
122
॥
जामदग्न्यसमभ्यर्च्यो
गोमन्तगिरिसञ्चरः
।
गोमन्तदावशमनो
गरुडानीतभूषणः
॥
123
॥
चक्राद्यायुधसंशोभी
जरासन्धमदापहः
।
सृगालावनिपालघ्नस्सृगालात्मजराज्यदः
॥
124
॥
विध्वस्तकालयवनो
मुचुकुन्दवरप्रदः
।
आज्ञापितमहाम्भोधिर्द्वारकापुरकल्पनः
॥
125
॥
द्वारकानिलयो
रुक्मिमानहन्ता
यदूद्वहः
।
रुचिरो
रुक्मिणीजानिः
प्रद्युम्नजनकः
प्रभुः
॥
126
॥
अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः
।
अनिरुद्धपदान्वेषी
चक्री
गरुडवाहनः
॥
127
॥
बाणासुरपुरीरोद्धा
रक्षाज्वलनयन्त्रजित्
।
धूतप्रमथसंरम्भो
जितमाहेश्वरज्वरः
॥
128
॥
षट्चक्रशक्तिनिर्जेता
भूतवेतालमोहकृत्
।
शम्भुत्रिशूलजिच्छम्भुजृम्भणश्शम्भुसंस्तुतः
॥
129
॥
इन्द्रियात्मेन्दुहृदयस्सर्वयोगेश्वरेश्वरः
।
हिरण्यगर्भहृदयो
मोहावर्तनिवर्तनः
॥
130
॥
आत्मज्ञाननिधिर्मेधा
कोशस्तन्मात्ररूपवान्
।
इन्द्रोऽग्निवदनः
कालनाभस्सर्वागमाध्वगः
॥
131
॥
तुरीयसर्वधीसाक्षी
द्वन्द्वारामात्मदूरगः
।
अज्ञातपारो
वश्यश्रीरव्याकृतविहारवान्
॥
132
॥
आत्मप्रदीपो
विज्ञानमात्रात्मा
श्रीनिकेतनः
।
बाणबाहुवनच्छेत्ता
महेन्द्रप्रीतिवर्धनः
॥
133
॥
अनिरुद्धनिरोधज्ञो
जलेशाहृतगोकुलः
।
जलेशविजयी
वीरस्सत्राजिद्रत्नयाचकः
॥
134
॥
प्रसेनान्वेषणोद्युक्तो
जाम्बवद्धृतरत्नदः
।
जितर्क्षराजतनयाहर्ता
जाम्बवतीप्रियः
॥
135
॥
सत्यभामाप्रियः
कामश्शतधन्वशिरोहरः
।
कालिन्दीपतिरक्रूरबन्धुरक्रूररत्नदः
॥
136
॥
कैकेयीरमणो
भद्राभर्ता
नाग्नजितीधवः
।
माद्रीमनोहरश्शैब्याप्राणबन्धुरुरुक्रमः
॥
137
॥
सुशीलादयितो
मित्रविन्दानेत्रमहोत्सवः
।
लक्ष्मणावल्लभो
रुद्धप्राग्ज्योतिषमहापुरः
॥
138
॥
सुरपाशावृतिच्छेदी
मुरारिः
क्रूरयुद्धवित्
।
हयग्रीवशिरोहर्ता
सर्वात्मा
सर्वदर्शनः
॥
139
॥
नरकासुरविच्छेत्ता
नरकात्मजराज्यदः
।
पृथ्वीस्तुतः
प्रकाशात्मा
हृद्यो
यज्ञफलप्रदः
॥
140
॥
गुणग्राही
गुणद्रष्टा
गूढस्वात्मा
विभूतिमान्
।
कविर्जगदुपद्रष्टा
परमाक्षरविग्रहः
॥
141
॥
प्रपन्नपालनो
माली
महद्ब्रह्मविवर्धनः
।
वाच्यवाचकशक्त्यर्थस्सर्वव्याकृतसिद्धिदः
॥
142
॥
स्वयम्प्रभुरनिर्वेद्यस्स्वप्रकाशश्चिरन्तनः
।
नादात्मा
मन्त्रकोटीशो
नानावादनिरोधकः
॥
143
॥
कन्दर्पकोटिलावण्यः
परार्थैकप्रयोजकः
।
अमरीकृतदेवौघः
कन्यकाबन्धमोचनः
॥
144
॥
षोडशस्त्रीसहस्रेशः
कान्तः
कान्तामनोभवः
।
क्रीडारत्नाचलाहर्ता
वरुणच्छत्रशोभितः
॥
145
॥
शक्राभिवन्दितश्शक्रजननीकुण्डलप्रदः
।
अदितिप्रस्तुतस्तोत्रो
ब्राह्मणोद्घुष्टचेष्टनः
॥
146
॥
पुराणस्संयमी
जन्मालिप्तः
षड्विंशकोऽर्थदः
।
यशस्यनीतिराद्यन्तरहितस्सत्कथाप्रियः
॥
147
॥
ब्रह्मबोधः
परानन्दः
पारिजातापहारकः
।
पौण्ड्रकप्राणहरणः
काशिराजनिषूदनः
॥
148
॥
कृत्यागर्वप्रशमनो
विचक्रवधदीक्षितः
।
कंसविध्वंसनस्साम्बजनको
डिम्भकार्दनः
॥
149
॥
मुनिर्गोप्ता
पितृवरप्रदस्सवनदीक्षितः
।
रथी
सारथ्यनिर्देष्टा
फाल्गुनः
फाल्गुनिप्रियः
॥
150
॥
सप्ताब्धिस्तम्भनोद्भातो
हरिस्सप्ताब्धिभेदनः
।
आत्मप्रकाशः
पूर्णश्रीरादिनारायणेक्षितः
॥
151
॥
विप्रपुत्रप्रदश्चैव
सर्वमातृसुतप्रदः
।
पार्थविस्मयकृत्पार्थप्रणवार्थप्रबोधनः
॥
152
॥
कैलासयात्रासुमुखो
बदर्याश्रमभूषणः
।
घण्टाकर्णक्रियामौढ्यात्तोषितो
भक्तवत्सलः
॥
153
॥
मुनिबृन्दादिभिर्ध्येयो
घण्टाकर्णवरप्रदः
।
तपश्चर्यापरश्चीरवासाः
पिङ्गजटाधरः
॥
154
॥
प्रत्यक्षीकृतभूतेशश्शिवस्तोता
शिवस्तुतः
।
कृष्णास्वयंवरालोककौतुकी
सर्वसम्मतः
॥
155
॥
बलसंरम्भशमनो
बलदर्शितपाण्डवः
।
यतिवेषार्जुनाभीष्टदायी
सर्वात्मगोचरः
॥
156
॥
सुभद्राफाल्गुनोद्वाहकर्ता
प्रीणितफाल्गुनः
।
खाण्डवप्रीणितार्चिष्मान्मयदानवमोचनः
॥
157
॥
सुलभो
राजसूयार्हयुधिष्ठिरनियोजकः
।
भीमार्दितजरासन्धो
मागधात्मजराज्यदः
॥
158
॥
राजबन्धननिर्मोक्ता
राजसूयाग्रपूजनः
।
चैद्याद्यसहनो
भीष्मस्तुतस्सात्वतपूर्वजः
॥
159
॥
सर्वात्मार्थसमाहर्ता
मन्दराचलधारकः
।
यज्ञावतारः
प्रह्लादप्रतिज्ञाप्रतिपालकः
॥
160
॥
बलियज्ञसभाध्वंसी
दृप्तक्षत्रकुलान्तकः
।
दशग्रीवान्तको
जेता
रेवतीप्रेमवल्लभः
॥
161
॥
सर्वावताराधिष्ठाता
वेदबाह्यविमोहनः
।
कलिदोषनिराकर्ता
दशनामा
दृढव्रतः
॥
162
॥
अमेयात्मा
जगत्स्वामी
वाग्मी
चैद्यशिरोहरः
।
द्रौपदीरचितस्तोत्रः
केशवः
पुरुषोत्तमः
॥
163
॥
नारायणो
मधुपतिर्माधवो
दोषवर्जितः
।
गोविन्दः
पुण्डरीकाक्षो
विष्णुश्च
मधुसूदनः
॥
164
॥
त्रिविक्रमस्त्रिलोकेशो
वामनः
श्रीधरः
पुमान्
।
हृषीकेशो
वासुदेवः
पद्मनाभो
महाह्रदः
॥
165
॥
दामोदरश्चतुर्व्यूहः
पाञ्चालीमानरक्षणः
।
साल्वघ्नस्समरश्लाघी
दन्तवक्त्रनिबर्हणः
॥
166
॥
दामोदरप्रियसखा
पृथुकास्वादनप्रियः
॥
घृणी
दामोदरः
श्रीदो
गोपीपुनरवेक्षकः
॥
167
॥
गोपिकामुक्तिदो
योगी
दुर्वासस्तृप्तिकारकः
।
अविज्ञातव्रजाकीर्णपाण्डवालोकनो
जयी
॥
168
॥
पार्थसारथ्यनिरतः
प्राज्ञः
पाण्डवदूत्यकृत्
।
विदुरातिथ्यसन्तुष्टः
कुन्तीसन्तोषदायकः
॥
169
॥
सुयोधनतिरस्कर्ता
दुर्योधनविकारवित्
।
विदुराभिष्ठुतो
नित्यो
वार्ष्णेयो
मङ्गलात्मकः
॥
170
॥
पञ्चविंशतितत्त्वेशश्चतुर्विंशतिदेहभाक्
।
सर्वानुग्राहकस्सर्वदाशार्हसततार्चितः
॥
171
॥
अचिन्त्यो
मधुरालापस्साधुदर्शी
दुरासदः
।
मनुष्यधर्मानुगतः
कौरवेन्द्रक्षयेक्षिता
॥
172
॥
उपेन्द्रो
दानवारातिरुरुगीतो
महाद्युतिः
।
ब्रह्मण्यदेवः
श्रुतिमान्
गोब्राह्मणहिताशयः
॥
173
॥
वरशीलश्शिवारम्भस्सुविज्ञानविमूर्तिमान्
।
स्वभावशुद्धस्सन्मित्रस्सुशरण्यस्सुलक्षणः
॥
174
॥
धृतराष्ट्रगतौदृष्टिप्रदः
कर्णविभेदनः
।
प्रतोदधृग्विश्वरूपविस्मारितधनञ्जयः
॥
175
॥
सामगानप्रियो
धर्मधेनुर्वर्णोत्तमोऽव्ययः
।
चतुर्युगक्रियाकर्ता
विश्वरूपप्रदर्शकः
॥
176
॥
ब्रह्मबोधपरित्रातपार्थो
भीष्मार्थचक्रभृत्
।
अर्जुनायासविध्वंसी
कालदंष्ट्राविभूषणः
॥
177
॥
सुजातानन्तमहिमा
स्वप्नव्यापारितार्जुनः
।
अकालसन्ध्याघटनश्चक्रान्तरितभास्करः
॥
178
॥
दुष्टप्रमथनः
पार्थप्रतिज्ञापरिपालकः
।
सिन्धुराजशिरःपातस्थानवक्ता
विवेकदृक्
॥
179
॥
सुभद्राशोकहरणो
द्रोणोत्सेकादिविस्मितः
।
पार्थमन्युनिराकर्ता
पाण्डवोत्सवदायकः
॥
180
॥
अङ्गुष्ठाक्रान्तकौन्तेयरथश्शक्तोऽहिशीर्षजित्
।
कालकोपप्रशमनो
भीमसेनजयप्रदः
॥
181
॥
अश्वत्थामवधायासत्रातपाण्डुसुतः
कृती
।
इषीकास्त्रप्रशमनो
द्रौणिरक्षाविचक्षणः
॥
182
॥
पार्थापहारितद्रौणिचूडामणिरभङ्गुरः
।
धृतराष्ट्रपरामृष्टभीमप्रतिकृतिस्मयः
॥
183
॥
भीष्मबुद्धिप्रदश्शान्तश्शरच्चन्द्रनिभाननः
।
गदाग्रजन्मा
पाञ्चालीप्रतिज्ञापरिपालकः
॥
184
॥
गान्धारीकोपदृग्गुप्तधर्मसूनुरनामयः
।
प्रपन्नार्तिभयच्छेत्ता
भीष्मशल्यव्यधावहः
॥
185
॥
शान्तश्शान्तनवोदीर्णसर्वधर्मसमाहितः
।
स्मारितब्रह्मविद्यार्थप्रीतपार्थो
महास्त्रवित्
॥
186
॥
प्रसादपरमोदारो
गाङ्गेयसुगतिप्रदः
।
विपक्षपक्षक्षयकृत्परीक्षित्प्राणरक्षणः
॥
187
॥
जगद्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः
।
विहितार्थाप्तसत्कारो
मासकात्परिवर्तदः
॥
188
॥
उत्तङ्कहर्षदात्मीयदिव्यरूपप्रदर्शकः
।
जनकावगतस्वोक्तभारतस्सर्वभावनः
॥
189
॥
असोढयादवोद्रेको
विहिताप्तादिपूजनः
॥
समुद्रस्थापिताश्चर्यमुसलो
वृष्णिवाहकः
॥
190
॥
मुनिशापायुधः
पद्मासनादित्रिदशार्थितः
।
वृष्टिप्रत्यवहारोत्कस्स्वधामगमनोत्सुकः
॥
191
॥
प्रभासालोकनोद्युक्तो
नानाविधनिमित्तकृत्
।
सर्वयादवसंसेव्यस्सर्वोत्कृष्टपरिच्छदः
॥
192
॥
वेलाकाननसञ्चारी
वेलानिलहृतश्रमः
।
कालात्मा
यादवोऽनन्तस्स्तुतिसन्तुष्टमानसः
॥
193
॥
द्विजालोकनसन्तुष्टः
पुण्यतीर्थमहोत्सवः
।
सत्काराह्लादिताशेषभूसुरस्सुरवल्लभः
॥
194
॥
पुण्यतीर्थाप्लुतः
पुण्यः
पुण्यदस्तीर्थपावनः
।
विप्रसात्कृतगोकोटिश्शतकोटिसुवर्णदः
॥
195
॥
स्वमायामोहिताऽशेषवृष्णिवीरो
विशेषवित्
।
जलजायुधनिर्देष्टा
स्वात्मावेशितयादवः
॥
196
॥
देवताभीष्टवरदः
कृतकृत्यः
प्रसन्नधीः
।
स्थिरशेषायुतबलस्सहस्रफणिवीक्षणः
॥
197
॥
ब्रह्मवृक्षवरच्छायासीनः
पद्मासनस्थितः
।
प्रत्यगात्मा
स्वभावार्थः
प्रणिधानपरायणः
॥
198
॥
व्याधेषुविद्धपूज्याङ्घ्रिर्निषादभयमोचनः
।
पुलिन्दस्तुतिसन्तुष्टः
पुलिन्दसुगतिप्रदः
॥
199
॥
दारुकार्पितपार्थादिकरणीयोक्तिरीशिता
।
दिव्यदुन्दुभिसंयुक्तः
पुष्पवृष्टिप्रपूजितः
॥
200
॥
पुराणः
परमेशानः
पूर्णभूमा
परिष्टुतः
।
पतिराद्यः
परं
ब्रह्म
परमात्मा
परात्परः
॥
201
॥
श्रीपरमात्मा
परात्परः
ओं
नमः
इति
।
फलश्रुतिः
–
इदं
सहस्रं
कृष्णस्य
नाम्नां
सर्वार्थदायकम्
।
अनन्तरूपी
भगवान्
व्याख्यातादौ
स्वयम्भुवे
॥
202
॥
तेन
प्रोक्तं
वसिष्ठाय
ततो
लब्ध्वा
पराशरः
।
व्यासाय
तेन
सम्प्रोक्तं
शुको
व्यासादवाप्तवान्
॥
203
॥
तच्छिष्यैर्बहुभिर्भूमौ
ख्यापितं
द्वापरे
युगे
।
कृष्णाज्ञया
हरिहरः
कलौ
प्रख्यापयद्विभुः
॥
204
॥
इदं
पठति
भक्त्या
यः
शृणोति
च
समाहितः
।
स्वसिद्ध्यै
प्रार्थयन्त्येनं
तीर्थक्षेत्रादिदेवताः
॥
205
॥
प्रायश्चित्तान्यशेषाणि
नालं
यानि
व्यपोहितुम्
।
तानि
पापानि
नश्यन्ति
सकृदस्य
प्रशंसनात्
॥
206
॥
ऋणत्रयविमुक्तस्य
श्रौतस्मार्तानुवर्तिनः
।
ऋषेस्त्रिमूर्तिरूपस्य
फलं
विन्देदिदं
पठन्
॥
207
॥
इदं
नामसहस्रं
यः
पठत्येतच्छृणोति
च
।
शिवलिङ्गसहस्रस्य
स
प्रतिष्ठाफलं
लभेत्
॥
208
॥
इदं
किरीटी
सञ्जप्य
जयी
पाशुपतास्त्रभाक्
।
कृष्णस्य
प्राणभूतस्सन्
कृष्णं
सारथिमाप्तवान्
॥
209
॥
द्रौपद्या
दमयन्त्या
च
सावित्र्या
च
सुशीलया
।
दुरितानि
जितान्येतज्जपादाप्तं
च
वाञ्छितम्
॥
210
॥
किमिदं
बहुना
शंसन्मानवो
मोदनिर्भरः
।
ब्रह्मानन्दमवाप्यान्ते
कृष्णसायूज्यमाप्नुयात्
॥
211
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits