हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
गोविन्द दामोदर स्तोत्रम्
अग्रे
कुरूणामथ
पाण्डवानां
दुःशासनेनाहृतवस्त्रकेशा
।
कृष्णा
तदाक्रोशदनन्यनाथा
गोविन्द
दामोदर
माधवेति
॥
1
॥
श्रीकृष्ण
विष्णो
मधुकैटभारे
भक्तानुकम्पिन्
भगवन्
मुरारे
।
त्रायस्व
मां
केशव
लोकनाथ
गोविन्द
दामोदर
माधवेति
॥
2
॥
विक्रेतुकामा
किल
गोपकन्या
मुरारिपादार्पितचित्तवृत्तिः
।
दध्यादिकं
मोहवशादवोचद्
गोविन्द
दामोदर
माधवेति
॥
3
॥
उलूखले
सम्भृततण्डुलांश्च
सङ्घट्टयन्त्यो
मुसलैः
प्रमुग्धाः
।
गायन्ति
गोप्यो
जनितानुरागा
गोविन्द
दामोदर
माधवेति
॥
4
॥
काचित्कराम्भोजपुटे
निषण्णं
क्रीडाशुकं
किंशुकरक्ततुण्डम्
।
अध्यापयामास
सरोरुहाक्षी
गोविन्द
दामोदर
माधवेति
॥
5
॥
गृहे
गृहे
गोपवधूसमूहः
प्रतिक्षणं
पिञ्जरसारिकाणाम्
।
स्खलद्गिरां
वाचयितुं
प्रवृत्तो
गोविन्द
दामोदर
माधवेति
॥
6
॥
पर्य्यङ्किकाभाजमलं
कुमारं
प्रस्वापयन्त्योऽखिलगोपकन्याः
।
जगुः
प्रबन्धं
स्वरतालबन्धं
गोविन्द
दामोदर
माधवेति
॥
7
॥
रामानुजं
वीक्षणकेलिलोलं
गोपी
गृहीत्वा
नवनीतगोलम्
।
आबालकं
बालकमाजुहाव
गोविन्द
दामोदर
माधवेति
॥
8
॥
विचित्रवर्णाभरणाभिरामे-
ऽभिधेहि
वक्त्राम्बुजराजहंसि
।
सदा
मदीये
रसनेऽग्ररङ्गे
गोविन्द
दामोदर
माधवेति
॥
9
॥
अङ्काधिरूढं
शिशुगोपगूढं
स्तनं
धयन्तं
कमलैककान्तम्
।
सम्बोधयामास
मुदा
यशोदा
गोविन्द
दामोदर
माधवेति
॥
10
॥
क्रीडन्तमन्तर्व्रजमात्मजं
स्वं
समं
वयस्यैः
पशुपालबालैः
।
प्रेम्णा
यशोदा
प्रजुहाव
कृष्णं
गोविन्द
दामोदर
माधवेति
॥
11
॥
यशोदया
गाढमुलूखलेन
गोकण्ठपाशेन
निबध्यमानः
।
रुरोद
मन्दं
नवनीतभोजी
गोविन्द
दामोदर
माधवेति
॥
12
॥
निजाङ्गणे
कङ्कणकेलिलोलं
गोपी
गृहीत्वा
नवनीतगोलम्
।
आमर्दयत्पाणितलेन
नेत्रे
गोविन्द
दामोदर
माधवेति
॥
13
॥
गृहे
गृहे
गोपवधूकदम्बाः
सर्वे
मिलित्वा
समवाययोगे
।
पुण्यानि
नामानि
पठन्ति
नित्यं
गोविन्द
दामोदर
माधवेति
॥
14
॥
मन्दारमूले
वदनाभिरामं
बिम्बाधरे
पूरितवेणुनादम्
।
गोगोपगोपीजनमध्यसंस्थं
गोविन्द
दामोदर
माधवेति
॥
15
॥
उत्थाय
गोप्योऽपररात्रभागे
स्मृत्वा
यशोदासुतबालकेलिम्
।
गायन्ति
प्रोच्चैर्दधि
मन्थयन्त्यो
गोविन्द
दामोदर
माधवेति
॥
16
॥
जग्धोऽथ
दत्तो
नवनीतपिण्डो
गृहे
यशोदा
विचिकित्सयन्ती
।
उवाच
सत्यं
वद
हे
मुरारे
गोविन्द
दामोदर
माधवेति
॥
17
॥
अभ्यर्च्य
गेहं
युवतिः
प्रवृद्ध-
प्रेमप्रवाहा
दधि
निर्ममन्थ
।
गायन्ति
गोप्योऽथ
सखीसमेता
गोविन्द
दामोदर
माधवेति
॥
18
॥
क्वचित्
प्रभाते
दधिपूर्णपात्रे
निक्षिप्य
मन्थं
युवती
मुकुन्दम्
।
आलोक्य
गानं
विविधं
करोति
गोविन्द
दामोदर
माधवेति
॥
19
॥
क्रीडापरं
भोजनमज्जनार्थं
हितैषिणी
स्त्री
तनुजं
यशोदा
।
आजूहवत्
प्रेमपरिप्लुताक्षी
गोविन्द
दामोदर
माधवेति
॥
20
॥
सुखं
शयानं
निलये
च
विष्णुं
देवर्षिमुख्या
मुनयः
प्रपन्नाः
।
तेनाच्युते
तन्मयतां
व्रजन्ति
गोविन्द
दामोदर
माधवेति
॥
21
॥
विहाय
निद्रामरुणोदये
च
विधाय
कृत्यानि
च
विप्रमुख्याः
।
वेदावसाने
प्रपठन्ति
नित्यं
गोविन्द
दामोदर
माधवेति
॥
22
॥
वृन्दावने
गोपगणाश्च
गोप्यो
विलोक्य
गोविन्दवियोगखिन्नाम्
।
राधां
जगुः
साश्रुविलोचनाभ्यां
गोविन्द
दामोदर
माधवेति
॥
23
॥
प्रभातसञ्चारगता
नु
गावस्-
तद्रक्षणार्थं
तनयं
यशोदा
।
प्राबोधयत्
पाणितलेन
मन्दं
गोविन्द
दामोदर
माधवेति
॥
24
॥
प्रवालशोभा
इव
दीर्घकेशा
वाताम्बुपर्णाशनपूतदेहाः
।
मूले
तरूणां
मुनयः
पठन्ति
गोविन्द
दामोदर
माधवेति
॥
25
॥
एवं
ब्रुवाणा
विरहातुरा
भृशं
व्रजस्त्रियः
कृष्णविषक्तमानसाः
।
विसृज्य
लज्जां
रुरुदुः
स्म
सुस्वरं
गोविन्द
दामोदर
माधवेति
॥
26
॥
गोपी
कदाचिन्मणिपञ्जरस्थं
शुकं
वचो
वाचयितुं
प्रवृत्ता
।
आनन्दकन्द
व्रजचन्द्र
कृष्ण
गोविन्द
दामोदर
माधवेति
॥
27
॥
गोवत्सबालैः
शिशुकाकपक्षं
बध्नन्तमम्भोजदलायताक्षम्
।
उवाच
माता
चिबुकं
गृहीत्वा
गोविन्द
दामोदर
माधवेति
॥
28
॥
प्रभातकाले
वरवल्लवौघा
गोरक्षणार्थं
धृतवेत्रदण्डाः
।
आकारयामासुरनन्तमाद्यं
गोविन्द
दामोदर
माधवेति
॥
29
॥
जलाशये
कालियमर्दनाय
यदा
कदम्बादपतन्मुरारिः
।
गोपाङ्गनाश्चुक्रुशुरेत्य
गोपा
गोविन्द
दामोदर
माधवेति
॥
30
॥
अक्रूरमासाद्य
यदा
मुकुन्दश्-
चापोत्सवार्थं
मथुरां
प्रविष्टः
।
तदा
स
पौरैर्जयसीत्यभाषि
गोविन्द
दामोदर
माधवेति
॥
31
॥
कंसस्य
दूतेन
यदैव
नीतौ
वृन्दावनान्ताद्
वसुदेवसूनू
।
(सूनौ)
रुरोद
गोपी
भवनस्य
मध्ये
गोविन्द
दामोदर
माधवेति
॥
32
॥
सरोवरे
कालियनागबद्धं
शिशुं
यशोदातनयं
निशम्य
।
चक्रुर्लुठन्त्यः
पथि
गोपबाला
गोविन्द
दामोदर
माधवेति
॥
33
॥
अक्रूरयाने
यदुवंशनाथं
सङ्गच्छमानं
मथुरां
निरीक्ष्य
।
ऊचुर्वियोगत्
किल
गोपबाला
गोविन्द
दामोदर
माधवेति
॥
34
॥
चक्रन्द
गोपी
नलिनीवनान्ते
कृष्णेन
हीना
कुसुमे
शयाना
।
प्रफुल्लनीलोत्पललोचनाभ्यां
गोविन्द
दामोदर
माधवेति
॥
35
॥
मातापितृभ्यां
परिवार्यमाणा
गेहं
प्रविष्टा
विललाप
गोपी
।
आगत्य
मां
पालय
विश्वनाथ
गोविन्द
दामोदर
माधवेति
॥
36
॥
वृन्दावनस्थं
हरिमाशु
बुद्ध्वा
गोपी
गता
कापि
वनं
निशायाम्
।
तत्राप्यदृष्ट्वाऽतिभयादवोचद्
गोविन्द
दामोदर
माधवेति
॥
37
॥
सुखं
शयाना
निलये
निजेऽपि
नामानि
विष्णोः
प्रवदन्ति
मर्त्याः
।
ते
निश्चितं
तन्मयतां
व्रजन्ति
गोविन्द
दामोदर
माधवेति
॥
38
॥
सा
नीरजाक्षीमवलोक्य
राधां
रुरोद
गोविन्दवियोगखिन्नाम्
।
सखी
प्रफुल्लोत्पललोचनाभ्यां
गोविन्द
दामोदर
माधवेति
॥
39
॥
जिह्वे
रसज्ञे
मधुरप्रिया
त्वं
सत्यं
हितं
त्वां
परमं
वदामि
।
आवर्णयेथा
मधुराक्षराणि
गोविन्द
दामोदर
माधवेति
॥
40
॥
आत्यन्तिकव्याधिहरं
जनानां
चिकित्सकं
वेदविदो
वदन्ति
।
संसारतापत्रयनाशबीजं
गोविन्द
दामोदर
माधवेति
॥
41
॥
ताताज्ञया
गच्छति
रामचन्द्रे
सलक्ष्मणेऽरण्यचये
ससीते
।
चक्रन्द
रामस्य
निजा
जनित्री
गोविन्द
दामोदर
माधवेति
॥
42
॥
एकाकिनी
दण्डककाननान्तात्
सा
नीयमाना
दशकन्धरेण
।
सीता
तदाक्रन्ददनन्यनाथा
गोविन्द
दामोदर
माधवेति
॥
43
॥
रामाद्वियुक्ता
जनकात्मजा
सा
विचिन्तयन्ती
हृदि
रामरूपम्
।
रुरोद
सीता
रघुनाथ
पाहि
गोविन्द
दामोदर
माधवेति
॥
44
॥
प्रसीद
विष्णो
रघुवंशनाथ
सुरासुराणां
सुखदुःखहेतो
।
रुरोद
सीता
तु
समुद्रमध्ये
गोविन्द
दामोदर
माधवेति
॥
45
॥
अन्तर्जले
ग्राहगृहीतपादो
विसृष्टविक्लिष्टसमस्तबन्धुः
।
तदा
गजेन्द्रो
नितरां
जगाद
गोविन्द
दामोदर
माधवेति
॥
46
॥
हंसध्वजः
शङ्खयुतो
ददर्श
पुत्रं
कटाहे
प्रतपन्तमेनम्
।
पुण्यानि
नामानि
हरेर्जपन्तं
गोविन्द
दामोदर
माधवेति
॥
47
॥
दुर्वाससो
वाक्यमुपेत्य
कृष्णा
सा
चाब्रवीत्
काननवासिनीशम्
।
अन्तः
प्रविष्टं
मनसा
जुहाव
गोविन्द
दामोदर
माधवेति
॥
48
॥
ध्येयः
सदा
योगिभिरप्रमेयः
चिन्ताहरश्चिन्तितपारिजातः
।
कस्तूरिकाकल्पितनीलवर्णो
गोविन्द
दामोदर
माधवेति
॥
49
॥
संसारकूपे
पतितोऽत्यगाधे
मोहान्धपूर्णे
विषयाभितप्ते
।
करावलम्बं
मम
देहि
विष्णो
गोविन्द
दामोदर
माधवेति
॥
50
॥
भजस्व
मन्त्रं
भवबन्धमुक्त्यै
जिह्वे
रसज्ञे
सुलभं
मनोज्ञम्
।
द्वैपायनाद्यैर्मुनिभिः
प्रजप्तं
गोविन्द
दामोदर
माधवेति
॥
51
॥
त्वामेव
याचे
मम
देहि
जिह्वे
समागते
दण्डधरे
कृतान्ते
।
वक्तव्यमेवं
मधुरं
सुभक्त्या
गोविन्द
दामोदर
माधवेति
॥
52
॥
गोपाल
वंशीधर
रूपसिन्धो
लोकेश
नारायण
दीनबन्धो
।
उच्चस्वरैस्त्वं
वद
सर्वदैव
गोविन्द
दामोदर
माधवेति
॥
53
॥
जिह्वे
सदैवं
भज
सुन्दराणि
नामानि
कृष्णस्य
मनोहराणि
।
समस्तभक्तार्तिविनाशनानि
गोविन्द
दामोदर
माधवेति
॥
54
॥
गोविन्द
गोविन्द
हरे
मुरारे
गोविन्द
गोविन्द
मुकुन्द
कृष्ण
।
गोविन्द
गोविन्द
रथाङ्गपाणे
गोविन्द
दामोदर
माधवेति
॥
55
॥
सुखावसाने
त्विदमेव
सारं
दुःखावसाने
त्विदमेव
गेयम्
।
देहावसाने
त्विदमेव
जाप्यं
गोविन्द
दामोदर
माधवेति
॥
56
॥
दुर्वारवाक्यं
परिगृह्य
कृष्णा
मृगीव
भीता
तु
कथं
कथञ्चित्
।
सभां
प्रविष्टा
मनसा
जुहाव
गोविन्द
दामोदर
माधवेति
॥
57
॥
श्रीकृष्ण
राधावर
गोकुलेश
गोपाल
गोवर्धन
नाथ
विष्णो
।
जिह्वे
पिबस्वामृतमेतदेव
गोविन्द
दामोदर
माधवेति
॥
58
॥
श्रीनाथ
विश्वेश्वर
विश्वमूर्ते
श्रीदेवकीनन्दन
दैत्यशत्रो
।
जिह्वे
पिबस्वामृतमेतदेव
गोविन्द
दामोदर
माधवेति
॥
59
॥
गोपीपते
कंसरिपो
मुकुन्द
लक्ष्मीपते
केशव
वासुदेव
।
जिह्वे
पिबस्वामृतमेतदेव
गोविन्द
दामोदर
माधवेति
॥
60
॥
गोपीजनाह्लादकर
व्रजेश
गोचारणारण्यकृतप्रवेश
।
जिह्वे
पिबस्वामृतमेतदेव
गोविन्द
दामोदर
माधवेति
॥
61
॥
प्राणेश
विश्वम्भर
कैटभारे
वैकुण्ठ
नारायण
चक्रपाणे
।
जिह्वे
पिबस्वामृतमेतदेव
गोविन्द
दामोदर
माधवेति
॥
62
॥
हरे
मुरारे
मधुसूदनाद्य
श्रीराम
सीतावर
रावणारे
।
जिह्वे
पिबस्वामृतमेतदेव
गोविन्द
दामोदर
माधवेति
॥
63
॥
श्रीयादवेन्द्राद्रिधराम्बुजाक्ष
गोगोपगोपीसुखदानदक्ष
।
जिह्वे
पिबस्वामृतमेतदेव
गोविन्द
दामोदर
माधवेति
॥
64
॥
धराभरोत्तारणगोपवेष
विहारलीलाकृतबन्धुशेष
।
जिह्वे
पिबस्वामृतमेतदेव
गोविन्द
दामोदर
माधवेति
॥
65
॥
बकीबकाघासुरधेनुकारे
केशीतृणावर्तविघातदक्ष
।
जिह्वे
पिबस्वामृतमेतदेव
गोविन्द
दामोदर
माधवेति
॥
66
॥
श्रीजानकीजीवन
रामचन्द्र
निशाचरारे
भरताग्रजेश
।
जिह्वे
पिबस्वामृतमेतदेव
गोविन्द
दामोदर
माधवेति
॥
67
॥
नारायणानन्त
हरे
नृसिंह
प्रह्लादबाधाहर
हे
कृपालो
।
जिह्वे
पिबस्वामृतमेतदेव
गोविन्द
दामोदर
माधवेति
॥
68
॥
लीलामनुष्याकृतिरामरूप
प्रतापदासीकृतसर्वभूप
।
जिह्वे
पिबस्वामृतमेतदेव
गोविन्द
दामोदर
माधवेति
॥
69
॥
श्रीकृष्ण
गोविन्द
हरे
मुरारे
हे
नाथ
नारायण
वासुदेव
।
जिह्वे
पिबस्वामृतमेतदेव
गोविन्द
दामोदर
माधवेति
॥
70
॥
वक्तुं
समर्थोऽपि
न
वक्ति
कश्चिद्-
अहो
जनानां
व्यसनाभिमुख्यम्
।
जिह्वे
पिबस्वामृतमेतदेव
गोविन्द
दामोदर
माधवेति
॥
71
॥
इति
श्रीबिल्वमङ्गलाचार्यविरचितं
श्रीगोविन्ददामोदरस्तोत्रं
सम्पूर्णम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits