हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
चौराष्टकम्
व्रजे
प्रसिद्धं
नवनीतचौरं
गोपाङ्गनानां
च
दुकूलचौरम्
।
अनेकजन्मार्जितपापचौरं
चौराग्रगण्यं
पुरुषं
नमामि
॥
1
॥
श्रीराधिकाया
हृदयस्य
चौरं
नवाम्बुदश्यामलकान्तिचौरम्
।
पदाश्रितानां
च
समस्तचौरं
चौराग्रगण्यं
पुरुषं
नमामि
॥
2
॥
अकिञ्चनीकृत्य
पदाश्रितं
यः
करोति
भिक्षुं
पथि
गेहहीनम्
।
केनाप्यहो
भीषणचौर
ईदृग्-
दृष्टःश्रुतो
वा
न
जगत्त्रयेऽपि
॥
3
॥
यदीय
नामापि
हरत्यशेषं
गिरिप्रसारान्
अपि
पापराशीन्
।
आश्चर्यरूपो
ननु
चौर
ईदृग्
दृष्टः
श्रुतो
वा
न
मया
कदापि
॥
4
॥
धनं
च
मानं
च
तथेन्द्रियाणि
प्राणांश्च
हृत्वा
मम
सर्वमेव
।
पलायसे
कुत्र
धृतोऽद्य
चौर
त्वं
भक्तिदाम्नासि
मया
निरुद्धः
॥
5
॥
छिनत्सि
घोरं
यमपाशबन्धं
भिनत्सि
भीमं
भवपाशबन्धम्
।
छिनत्सि
सर्वस्य
समस्तबन्धं
नैवात्मनो
भक्तकृतं
तु
बन्धम्
॥
6
॥
मन्मानसे
तामसराशिघोरे
कारागृहे
दुःखमये
निबद्धः
।
लभस्व
हे
चौर!
हरे!
चिराय
स्वचौर्यदोषोचितमेव
दण्डम्
॥
7
॥
कारागृहे
वस
सदा
हृदये
मदीये
मद्भक्तिपाशदृढबन्धननिश्चलः
सन्
।
त्वां
कृष्ण
हे!
प्रलयकोटिशतान्तरेऽपि
सर्वस्वचौर!
हृदयान्
न
हि
मोचयामि
॥
8
॥
इति
श्रीबिल्वमङ्गलठाकूरविरचितं
चौराष्टकं
सम्पूर्णम्
।
चौरग्रगण्य
पुरुषाष्टकम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits