हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
पंचमुख हनुमत्कवचम्
अस्य
श्री
पञ्चमुखहनुमन्मन्त्रस्य
ब्रह्मा
ऋषिः
गायत्रीछन्दः
पञ्चमुखविराट्
हनुमान्
देवता
ह्रीं
बीजं
श्रीं
शक्तिः
क्रौं
कीलकं
क्रूं
कवचं
क्रैं
अस्त्राय
फट्
इति
दिग्बन्धः
।
श्री
गरुड
उवाच
।
अथ
ध्यानं
प्रवक्ष्यामि
शृणु
सर्वाङ्गसुन्दरि
।
यत्कृतं
देवदेवेन
ध्यानं
हनुमतः
प्रियम्
॥
1
॥
पञ्चवक्त्रं
महाभीमं
त्रिपञ्चनयनैर्युतम्
।
बाहुभिर्दशभिर्युक्तं
सर्वकामार्थसिद्धिदम्
॥
2
॥
पूर्वं
तु
वानरं
वक्त्रं
कोटिसूर्यसमप्रभम्
।
दंष्ट्राकरालवदनं
भृकुटीकुटिलेक्षणम्
॥
3
॥
अस्यैव
दक्षिणं
वक्त्रं
नारसिंहं
महाद्भुतम्
।
अत्युग्रतेजोवपुषं
भीषणं
भयनाशनम्
॥
4
॥
पश्चिमं
गारुडं
वक्त्रं
वक्रतुण्डं
महाबलम्
।
सर्वनागप्रशमनं
विषभूतादिकृन्तनम्
॥
5
॥
उत्तरं
सौकरं
वक्त्रं
कृष्णं
दीप्तं
नभोपमम्
।
पातालसिंहवेतालज्वररोगादिकृन्तनम्
॥
6
॥
ऊर्ध्वं
हयाननं
घोरं
दानवान्तकरं
परम्
।
येन
वक्त्रेण
विप्रेन्द्र
तारकाख्यं
महासुरम्
॥
7
॥
जघान
शरणं
तत्स्यात्सर्वशत्रुहरं
परम्
।
ध्यात्वा
पञ्चमुखं
रुद्रं
हनूमन्तं
दयानिधिम्
॥
8
॥
खड्गं
त्रिशूलं
खट्वाङ्गं
पाशमङ्कुशपर्वतम्
।
मुष्टिं
कौमोदकीं
वृक्षं
धारयन्तं
कमण्डलुम्
॥
9
॥
भिन्दिपालं
ज्ञानमुद्रां
दशभिर्मुनिपुङ्गवम्
।
एतान्यायुधजालानि
धारयन्तं
भजाम्यहम्
॥
10
॥
प्रेतासनोपविष्टं
तं
सर्वाभरणभूषितम्
।
दिव्यमाल्याम्बरधरं
दिव्यगन्धानुलेपनम्
।
सर्वाश्चर्यमयं
देवं
हनुमद्विश्वतोमुखम्
॥
11
॥
पञ्चास्यमच्युतमनेकविचित्रवर्ण-
-वक्त्रं
शशाङ्कशिखरं
कपिराजवर्यम्
।
पीताम्बरादिमुकुटैरुपशोभिताङ्गं
पिङ्गाक्षमाद्यमनिशं
मनसा
स्मरामि
॥
12
॥
मर्कटेशं
महोत्साहं
सर्वशत्रुहरं
परम्
।
शत्रुं
संहर
मां
रक्ष
श्रीमन्नापदमुद्धर
॥
13
॥
हरिमर्कट
मर्कट
मन्त्रमिदं
परिलिख्यति
लिख्यति
वामतले
।
यदि
नश्यति
नश्यति
शत्रुकुलं
यदि
मुञ्चति
मुञ्चति
वामलता
॥
14
॥
ओं
हरिमर्कटाय
स्वाहा
।
ओं
नमो
भगवते
पञ्चवदनाय
पूर्वकपिमुखाय
सकलशत्रुसंहारकाय
स्वाहा
।
ओं
नमो
भगवते
पञ्चवदनाय
दक्षिणमुखाय
करालवदनाय
नरसिंहाय
सकलभूतप्रमथनाय
स्वाहा
।
ओं
नमो
भगवते
पञ्चवदनाय
पश्चिममुखाय
गरुडाननाय
सकलविषहराय
स्वाहा
।
ओं
नमो
भगवते
पञ्चवदनाय
उत्तरमुखाय
आदिवराहाय
सकलसम्पत्कराय
स्वाहा
।
ओं
नमो
भगवते
पञ्चवदनाय
ऊर्ध्वमुखाय
हयग्रीवाय
सकलजनवशङ्कराय
स्वाहा
।
ओं
अस्य
श्री
पञ्चमुखहनुमन्मन्त्रस्य
श्रीरामचन्द्र
ऋषिः
अनुष्टुप्छन्दः
पञ्चमुखवीरहनुमान्
देवता
हनुमान्
इति
बीजं
वायुपुत्र
इति
शक्तिः
अञ्जनीसुत
इति
कीलकं
श्रीरामदूतहनुमत्प्रसादसिद्ध्यर्थे
जपे
विनियोगः
।
इति
ऋष्यादिकं
विन्यसेत्
।
अथ
करन्यासः
।
ओं
अञ्जनीसुताय
अङ्गुष्ठाभ्यां
नमः
।
ओं
रुद्रमूर्तये
तर्जनीभ्यां
नमः
।
ओं
वायुपुत्राय
मध्यमाभ्यां
नमः
।
ओं
अग्निगर्भाय
अनामिकाभ्यां
नमः
।
ओं
रामदूताय
कनिष्ठिकाभ्यां
नमः
।
ओं
पञ्चमुखहनुमते
करतलकरपृष्ठाभ्यां
नमः
।
अथ
अङ्गन्यासः
।
ओं
अञ्जनीसुताय
हृदयाय
नमः
।
ओं
रुद्रमूर्तये
शिरसे
स्वाहा
।
ओं
वायुपुत्राय
शिखायै
वषट्
।
ओं
अग्निगर्भाय
कवचाय
हुम्
।
ओं
रामदूताय
नेत्रत्रयाय
वौषट्
।
ओं
पञ्चमुखहनुमते
अस्त्राय
फट्
।
पञ्चमुखहनुमते
स्वाहा
इति
दिग्बन्धः
।
अथ
ध्यानम्
।
वन्दे
वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं
दिव्यालङ्करणं
त्रिपञ्चनयनं
देदीप्यमानं
रुचा
।
हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं
हलं
खट्वाङ्गं
फणिभूरुहं
दशभुजं
सर्वारिवीरापहम्
।
अथ
मन्त्रः
।
ओं
श्रीरामदूताय
आञ्जनेयाय
वायुपुत्राय
महाबलपराक्रमाय
सीतादुःखनिवारणाय
लङ्कादहनकारणाय
महाबलप्रचण्डाय
फाल्गुनसखाय
कोलाहलसकलब्रह्माण्डविश्वरूपाय
सप्तसमुद्रनिर्लङ्घनाय
पिङ्गलनयनाय
अमितविक्रमाय
सूर्यबिम्बफलसेवनाय
दुष्टनिवारणाय
दृष्टिनिरालङ्कृताय
सञ्जीविनीसञ्जीविताङ्गद-लक्ष्मणमहाकपिसैन्यप्राणदाय
दशकण्ठविध्वंसनाय
रामेष्टाय
महाफाल्गुनसखाय
सीतासहितरामवरप्रदाय
षट्प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे
विनियोगः
।
ओं
हरिमर्कटमर्कटाय
बम्बम्बम्बम्बं
वौषट्
स्वाहा
।
ओं
हरिमर्कटमर्कटाय
फम्फम्फम्फम्फं
फट्
स्वाहा
।
ओं
हरिमर्कटमर्कटाय
खेङ्खेङ्खेङ्खेङ्खें
मारणाय
स्वाहा
।
ओं
हरिमर्कटमर्कटाय
लुंलुंलुंलुंलुं
आकर्षितसकलसम्पत्कराय
स्वाहा
।
ओं
हरिमर्कटमर्कटाय
धन्धन्धन्धन्धं
शत्रुस्तम्भनाय
स्वाहा
।
ओं
टण्टण्टण्टण्टं
कूर्ममूर्तये
पञ्चमुखवीरहनुमते
परयन्त्र
परतन्त्रोच्चाटनाय
स्वाहा
।
ओं
कङ्खङ्गङ्घंङं
चञ्छञ्जञ्झंञं
टण्ठण्डण्ढंणं
तन्थन्दन्धन्नं
पम्फम्बम्भम्मं
यंरंलंवं
शंषंसंहं
लङ्क्षं
स्वाहा
।
इति
दिग्बन्धः
।
ओं
पूर्वकपिमुखाय
पञ्चमुखहनुमते
टण्टण्टण्टण्टं
सकलशत्रुसंहरणाय
स्वाहा
।
ओं
दक्षिणमुखाय
पञ्चमुखहनुमते
करालवदनाय
नरसिंहाय
ओं
ह्रां
ह्रीं
ह्रूं
ह्रैं
ह्रौं
ह्रः
सकलभूतप्रेतदमनाय
स्वाहा
।
ओं
पश्चिममुखाय
गरुडाननाय
पञ्चमुखहनुमते
मम्मम्मम्मम्मं
सकलविषहराय
स्वाहा
।
ओं
उत्तरमुखाय
आदिवराहाय
लंलंलंलंलं
नृसिंहाय
नीलकण्ठमूर्तये
पञ्चमुखहनुमते
स्वाहा
।
ओं
ऊर्ध्वमुखाय
हयग्रीवाय
रुंरुंरुंरुंरुं
रुद्रमूर्तये
सकलप्रयोजननिर्वाहकाय
स्वाहा
।
ओं
अञ्जनीसुताय
वायुपुत्राय
महाबलाय
सीताशोकनिवारणाय
श्रीरामचन्द्रकृपापादुकाय
महावीर्यप्रमथनाय
ब्रह्माण्डनाथाय
कामदाय
पञ्चमुखवीरहनुमते
स्वाहा
।
भूतप्रेतपिशाचब्रह्मराक्षस
शाकिनीडाकिन्यन्तरिक्षग्रह
परयन्त्र
परतन्त्रोच्चटनाय
स्वाहा
।
सकलप्रयोजननिर्वाहकाय
पञ्चमुखवीरहनुमते
श्रीरामचन्द्रवरप्रसादाय
जञ्जञ्जञ्जञ्जं
स्वाहा
।
इदं
कवचं
पठित्वा
तु
महाकवचं
पठेन्नरः
।
एकवारं
जपेत्
स्तोत्रं
सर्वशत्रुनिवारणम्
॥
15
॥
द्विवारं
तु
पठेन्नित्यं
पुत्रपौत्रप्रवर्धनम्
।
त्रिवारं
च
पठेन्नित्यं
सर्वसम्पत्करं
शुभम्
॥
16
॥
चतुर्वारं
पठेन्नित्यं
सर्वरोगनिवारणम्
।
पञ्चवारं
पठेन्नित्यं
सर्वलोकवशङ्करम्
॥
17
॥
षड्वारं
च
पठेन्नित्यं
सर्वदेववशङ्करम्
।
सप्तवारं
पठेन्नित्यं
सर्वसौभाग्यदायकम्
॥
18
॥
अष्टवारं
पठेन्नित्यमिष्टकामार्थसिद्धिदम्
।
नववारं
पठेन्नित्यं
राजभोगमवाप्नुयात्
॥
19
॥
दशवारं
पठेन्नित्यं
त्रैलोक्यज्ञानदर्शनम्
।
रुद्रावृत्तिं
पठेन्नित्यं
सर्वसिद्धिर्भवेद्धृवम्
॥
20
॥
निर्बलो
रोगयुक्तश्च
महाव्याध्यादिपीडितः
।
कवचस्मरणेनैव
महाबलमवाप्नुयात्
॥
21
॥
इति
सुदर्शनसंहितायां
श्रीरामचन्द्रसीताप्रोक्तं
श्री
पञ्चमुखहनुमत्कवचम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits