Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

विघ्नेश्वर अष्टोत्तरशत नामावलिः

ओं विनायकाय नमः । ओं विघ्नराजाय नमः । ओं गौरीपुत्राय नमः । ओं गणेश्वराय नमः । ओं स्कंदाग्रजाय नमः । ओं अव्ययाय नमः । ओं पूताय नमः । ओं दक्षाय नमः । ओं अध्यक्षाय नमः । ओं द्विजप्रियाय नमः । 10 ओं अग्निगर्भच्छिदे नमः । ओं इंद्रश्रीप्रदाय नमः । ओं वाणीप्रदाय नमः । ओं अव्ययाय नमः । ओं सर्वसिद्धिप्रदाय नमः । ओं शर्वतनयाय नमः । ओं शर्वरीप्रियाय नमः । ओं सर्वात्मकाय नमः । ओं सृष्टिकर्त्रे नमः । ओं देवाय नमः । 20 ओं अनेकार्चिताय नमः । ओं शिवाय नमः । ओं शुद्धाय नमः । ओं बुद्धिप्रियाय नमः । ओं शांताय नमः । ओं ब्रह्मचारिणे नमः । ओं गजाननाय नमः । ओं द्वैमात्रेयाय नमः । ओं मुनिस्तुत्याय नमः । ओं भक्तविघ्नविनाशनाय नमः । 30 ओं एकदंताय नमः । ओं चतुर्बाहवे नमः । ओं चतुराय नमः । ओं शक्तिसंयुताय नमः । ओं लंबोदराय नमः । ओं शूर्पकर्णाय नमः । ओं हरये नमः । ओं ब्रह्मविदुत्तमाय नमः । ओं कालाय नमः । ओं ग्रहपतये नमः । 40 ओं कामिने नमः । ओं सोमसूर्याग्निलोचनाय नमः । ओं पाशांकुशधराय नमः । ओं चंडाय नमः । ओं गुणातीताय नमः । ओं निरंजनाय नमः । ओं अकल्मषाय नमः । ओं स्वयंसिद्धाय नमः । ओं सिद्धार्चितपदांबुजाय नमः । ओं बीजापूरफलासक्ताय नमः । 50 ओं वरदाय नमः । ओं शाश्वताय नमः । ओं कृतिने नमः । ओं विद्वत् प्रियाय नमः । ओं वीतभयाय नमः । ओं गदिने नमः । ओं चक्रिणे नमः । ओं इक्षुचापधृते नमः । ओं श्रीदाय नमः । ओं अजाय नमः । 60 ओं उत्पलकराय नमः । ओं श्रीप्रतये नमः । ओं स्तुतिहर्षिताय नमः । ओं कुलाद्रिभेत्त्रे नमः । ओं जटिलाय नमः । ओं कलिकल्मषनाशनाय नमः । ओं चंद्रचूडामणये नमः । ओं कांताय नमः । ओं पापहारिणे नमः । ओं समाहिताय नमः । 70 ओं आश्रिताय नमः । ओं श्रीकराय नमः । ओं सौम्याय नमः । ओं भक्तवांछितदायकाय नमः । ओं शांताय नमः । ओं कैवल्यसुखदाय नमः । ओं सच्चिदानंदविग्रहाय नमः । ओं ज्ञानिने नमः । ओं दयायुताय नमः । ओं दांताय नमः । 80 ओं ब्रह्मद्वेषविवर्जिताय नमः । ओं प्रमत्तदैत्यभयताय नमः । ओं श्रीकंठाय नमः । ओं विबुधेश्वराय नमः । ओं रमार्चिताय नमः । ओं निधये नमः । ओं नागराजयज्ञोपवीतवते नमः । ओं स्थूलकंठाय नमः । ओं स्वयंकर्त्रे नमः । ओं सामघोषप्रियाय नमः । 90 ओं परस्मै नमः । ओं स्थूलतुंडाय नमः । ओं अग्रण्ये नमः । ओं धीराय नमः । ओं वागीशाय नमः । ओं सिद्धिदायकाय नमः । ओं दूर्वाबिल्वप्रियाय नमः । ओं अव्यक्तमूर्तये नमः । ओं अद्भुतमूर्तिमते नमः । ओं शैलेंद्र तनुजोत्संगखेलनोत्सुक मानसाय नमः । 100 ओं स्वलावण्यसुतासारजितमन्मथविग्रहाय नमः । ओं समस्तजगदाधाराय नमः । ओं मायिने नमः । ओं मूषिकवाहनाय नमः । ओं हृष्टाय नमः । ओं तुष्टाय नमः । ओं प्रसन्नात्मने नमः । ओं सर्वसिद्धिप्रदायकाय नमः । 108

Recite with devotion and pure heart

Regular practice brings spiritual benefits