Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

ऋण विमोचन गणपति स्तोत्रम्

स्मरामि देवदेवेशं वक्रतुंडं महाबलम् षडक्षरं कृपासिंधुं नमामि ऋणमुक्तये 1 एकाक्षरं ह्येकदंतं एकं ब्रह्म सनातनम् एकमेवाद्वितीयं नमामि ऋणमुक्तये 2 महागणपतिं देवं महासत्त्वं महाबलम् महाविघ्नहरं शंभोः नमामि ऋणमुक्तये 3 कृष्णांबरं कृष्णवर्णं कृष्णगंधानुलेपनम् कृष्णसर्पोपवीतं नमामि ऋणमुक्तये 4 रक्तांबरं रक्तवर्णं रक्तगंधानुलेपनम् रक्तपुष्पप्रियं देवं नमामि ऋणमुक्तये 5 पीतांबरं पीतवर्णं पीतगंधानुलेपनम् पीतपुष्पप्रियं देवं नमामि ऋणमुक्तये 6 धूम्रांबरं धूम्रवर्णं धूम्रगंधानुलेपनम् होमधूमप्रियं देवं नमामि ऋणमुक्तये 7 फालनेत्रं फालचंद्रं पाशांकुशधरं विभुम् चामरालंकृतं देवं नमामि ऋणमुक्तये 8 इदं त्वृणहरं स्तोत्रं संध्यायां यः पठेन्नरः षण्मासाभ्यंतरेणैव ऋणमुक्तो भविष्यति 9 इति ऋणविमोचन महागणपति स्तोत्रम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits