ओं गजाननाय नमः ।
ओं गणाध्यक्षाय नमः ।
ओं विघ्नाराजाय नमः ।
ओं विनायकाय नमः ।
ओं द्वैमातुराय नमः ।
ओं द्विमुखाय नमः ।
ओं प्रमुखाय नमः ।
ओं सुमुखाय नमः ।
ओं कृतिने नमः ।
ओं सुप्रदीपाय नमः । 10
ओं सुखनिधये नमः ।
ओं सुराध्यक्षाय नमः ।
ओं सुरारिघ्नाय नमः ।
ओं महागणपतये नमः ।
ओं मान्याय नमः ।
ओं महाकालाय नमः ।
ओं महाबलाय नमः ।
ओं हेरंबाय नमः ।
ओं लंबजठराय नमः ।
ओं ह्रस्वग्रीवाय नमः । 20
ओं महोदराय नमः ।
ओं मदोत्कटाय नमः ।
ओं महावीराय नमः ।
ओं मंत्रिणे नमः ।
ओं मङ्गलस्वराय नमः ।
ओं प्रमथाय नमः ।
ओं प्रथमाय नमः ।
ओं प्राज्ञाय नमः ।
ओं विघ्नकर्त्रे नमः ।
ओं विघ्नहन्त्रे नमः । 30
ओं विश्वनेत्रे नमः ।
ओं विराट्पतये नमः ।
ओं श्रीपतये नमः ।
ओं वाक्पतये नमः ।
ओं शृङ्गारिणे नमः ।
ओं आश्रितवत्सलाय नमः ।
ओं शिवप्रियाय नमः ।
ओं शीघ्रकारिणे नमः ।
ओं शाश्वताय नमः ।
ओं बलाय नमः । 40
ओं बलोद्धिताय नमः ।
ओं भवात्मजाय नमः ।
ओं पुराणपुरुषाय नमः ।
ओं पूष्णे नमः ।
ओं पुष्करोत्षिप्तवारिणे नमः ।
ओं अग्रगण्याय नमः ।
ओं अग्रपूज्याय नमः ।
ओं अग्रगामिने नमः ।
ओं मंत्रकृते नमः ।
ओं चामीकरप्रभाय नमः । 50
ओं सर्वाय नमः ।
ओं सर्वोपास्याय नमः ।
ओं सर्वकर्त्रे नमः ।
ओं सर्वनेत्रे नमः ।
ओं सर्वसिद्धिप्रदाय नमः ।
ओं सर्वसिद्धये नमः ।
ओं पञ्चहस्ताय नमः ।
ओं पार्वतीनन्दनाय नमः ।
ओं प्रभवे नमः ।
ओं कुमारगुरवे नमः । 60
ओं अक्षोभ्याय नमः ।
ओं कुञ्जरासुरभञ्जनाय नमः ।
ओं प्रमोदाय नमः ।
ओं मोदकप्रियाय नमः ।
ओं कान्तिमते नमः ।
ओं धृतिमते नमः ।
ओं कामिने नमः ।
ओं कपित्थवनप्रियाय नमः ।
ओं ब्रह्मचारिणे नमः ।
ओं ब्रह्मरूपिणे नमः । 70
ओं ब्रह्मविद्यादिदानभुवे नमः ।
ओं जिष्णवे नमः ।
ओं विष्णुप्रियाय नमः ।
ओं भक्तजीविताय नमः ।
ओं जितमन्मथाय नमः ।
ओं ऐश्वर्यकारणाय नमः ।
ओं ज्यायसे नमः ।
ओं यक्षकिन्नरसेविताय नमः ।
ओं गङ्गासुताय नमः ।
ओं गणाधीशाय नमः । 80
ओं गम्भीरनिनदाय नमः ।
ओं वटवे नमः ।
ओं अभीष्टवरदायिने नमः ।
ओं ज्योतिषे नमः ।
ओं भक्तनिधये नमः ।
ओं भावगम्याय नमः ।
ओं मङ्गलप्रदाय नमः ।
ओं अव्यक्ताय नमः ।
ओं अप्राकृतपराक्रमाय नमः ।
ओं सत्यधर्मिणे नमः । 90
ओं सखये नमः ।
ओं सरसाम्बुनिधये नमः ।
ओं महेशाय नमः ।
ओं दिव्याङ्गाय नमः ।
ओं मणिकिङ्किणीमेखालाय नमः ।
ओं समस्तदेवतामूर्तये नमः ।
ओं सहिष्णवे नमः ।
ओं सततोत्थिताय नमः ।
ओं विघातकारिणे नमः ।
ओं विश्वदृशे नमः । 100
ओं विश्वरक्षाकृते नमः ।
ओं कल्याणगुरवे नमः ।
ओं उन्मत्तवेषाय नमः ।
ओं अपराजिते नमः ।
ओं समस्तजगदाधाराय नमः ।
ओं सर्वैश्वर्यप्रदाय नमः ।
ओं आक्रान्तचिदचित्प्रभवे नमः ।
ओं श्रीविघ्नेश्वराय नमः । 108