हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
नव दुर्गा स्तोत्रम्
गणेशः
–
हरिद्राभञ्चतुर्वादु
हारिद्रवसनंविभुम्
।
पाशाङ्कुशधरं
दैवम्मोदकन्दन्तमेव
च
॥
देवी
शैलपुत्री
–
वन्दे
वाञ्छितलाभाय
चन्द्रार्धकृतशेखरां
।
वृषारूढां
शूलधरां
शैलपुत्री
यशस्विनीम्
॥
देवी
ब्रह्मचारिणी
–
दधाना
करपद्माभ्यामक्षमाला
कमण्डलू
।
देवी
प्रसीदतु
मयि
ब्रह्मचारिण्यनुत्तमा
॥
देवी
चन्द्रघण्टेति
–
पिण्डजप्रवरारूढा
चन्दकोपास्त्रकैर्युता
।
प्रसादं
तनुते
मह्यं
चन्द्रघण्टेति
विश्रुता
॥
देवी
कूष्माण्डा
–
सुरासम्पूर्णकलशं
रुधिराप्लुतमेव
च
।
दधाना
हस्तपद्माभ्यां
कूष्माण्डा
शुभदास्तु
मे
॥
देवीस्कन्दमाता
–
सिंहासनगता
नित्यं
पद्माश्रितकरद्वया
।
शुभदास्तु
सदा
देवी
स्कन्दमाता
यशस्विनी
॥
देवीकात्यायणी
–
चन्द्रहासोज्ज्वलकरा
शार्दूलवरवाहना
।
कात्यायनी
शुभं
दद्यादेवी
दानवघातिनी
॥
देवीकालरात्रि
–
एकवेणी
जपाकर्णपूर
नग्ना
खरास्थिता
।
लम्बोष्ठी
कर्णिकाकर्णी
तैलाभ्यक्तशरीरिणी
॥
वामपादोल्लसल्लोहलताकण्टकभूषणा
।
वर्धनमूर्ध्वजा
कृष्णा
कालरात्रिर्भयङ्करी
॥
देवीमहागौरी
–
श्वेते
वृषे
समारूढा
श्वेताम्बरधरा
शुचिः
।
महागौरी
शुभं
दद्यान्महादेवप्रमोददा
॥
देवीसिद्धिदात्रि
–
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि
।
सेव्यमाना
सदा
भूयात्
सिद्धिदा
सिद्धिदायिनी
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits