Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

मङ्गलचण्डिका स्तोत्रम्

ध्यानम् देवीं षोडशवर्षीयां रम्यां सुस्थिरयौवनाम् सर्वरूपगुणाढ्यां कोमलाङ्गीं मनोहराम् 1 श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् 2 बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् 3 ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम् जगद्धात्रीं दात्रीं सर्वेभ्यः सर्वसम्पदाम् 4 संसारसागरे घोरे पोतरुपां वरां भजे 5 देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने प्रयतः सङ्कटग्रस्तो येन तुष्टाव शङ्करः 6 शङ्कर उवाच रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके संहर्त्रि विपदां राशेर्हर्षमङ्गलकारिके 7 हर्षमङ्गलदक्षे हर्षमङ्गलचण्डिके शुभे मङ्गलदक्षे शुभमङ्गलचण्डिके 8 मङ्गले मङ्गलार्हे सर्वमङ्गलमङ्गले सतां मङ्गलदे देवि सर्वेषां मङ्गलालये 9 पूज्या मङ्गलवारे मङ्गलाभीष्टदैवते पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् 10 मङ्गलाधिष्ठातृदेवि मङ्गलानां मङ्गले संसारमङ्गलाधारे मोक्षमङ्गलदायिनि 11 सारे मङ्गलाधारे पारे त्वं सर्वकर्मणाम् प्रतिमङ्गलवारे पूज्ये त्वं मङ्गलप्रदे 12 स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् प्रतिमङ्गलवारे पूजां कृत्वा गतः शिवः 13 देव्याश्च मङ्गलस्तोत्रं यः शृणोति समाहितः तन्मङ्गलं भवेच्छश्वन्न भवेत्तदमङ्गलम् 14 प्रथमे पूजिता देवी शम्भुना सर्वमङ्गला द्वितीये पूजिता देवी मङ्गलेन ग्रहेण 15 तृतीये पूजिता भद्रा मङ्गलेन नृपेण चतुर्थे मङ्गले वारे सुन्दरीभिश्च पूजिता पञ्चमे मङ्गलाकाङ्क्षैर्नरैर्मङ्गलचण्डिका 16 पूजिता प्रतिविश्वेषु विश्वेशैः पूजिता सदा ततः सर्वत्र सम्पूज्य सा बभूव सुरेश्वरी 17 देवादिभिश्च मुनिभिर्मनुभिर्मानवैर्मुने देव्याश्च मङ्गलस्तोत्रं यः शृणोति समाहितः 18 तन्मङ्गलं भवेच्छश्वन्न भवेत्तदमङ्गलम् वर्धन्ते तत्पुत्रपौत्रा मङ्गलं दिने दिने 19 इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे चतुश्चत्वारिंशोऽध्याये मंफ़्गल चण्डिका स्तोत्रम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits