Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

दुर्गा सहस्रनाम स्तोत्रम्

नारद उवाच – कुमार गुणगम्भीर देवसेनापते प्रभो । सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ॥ 1 ॥ गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा । मङ्गलं ग्रहपीडादिशान्तिदं वक्तुमर्हसि ॥ 2 ॥ स्कन्द उवाच – शृणु नारद देवर्षे लोकानुग्रहकाम्यया । यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात् ॥ 3 ॥ माता मे लोकजननी हिमवन्नगसत्तमात् । मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया ॥ 4 ॥ महता तपसाऽऽराध्य शङ्करं लोकशङ्करम् । स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् ॥ 5 ॥ नगानामधिराजस्तु हिमवान् विरहातुरः । स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः ॥ 6 ॥ त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः । प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज ॥ 7 ॥ बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी । सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना ॥ 8 ॥ इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् । तदा प्रसन्ना सा दुर्गा पितरं प्राह नन्दिनी ॥ 9 ॥ मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम् । तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि ॥ 10 ॥ इत्युक्त्वान्तर्हितायां तु हृदये स्फुरितं तदा । नाम्नां सहस्रं दुर्गायाः पृच्छते मे यदुक्तवान् ॥ 11 ॥ मङ्गलानां मङ्गलं तद्दुर्गानामसहस्रकम् । सर्वाभीष्टप्रदं पुंसां ब्रवीम्यखिलकामदम् ॥ 12 ॥ दुर्गादेवी समाख्याता हिमवानृषिरुच्यते । छन्दोऽनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा ॥ 13 ॥ अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य, हिमवान् ऋषिः, अनुष्टुप् छन्दः, दुर्गा भगवती देवता, श्रीदुर्गा प्रसाद सिद्ध्यर्थे जपे विनियोगः । ध्यानम् – कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् । सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेद्दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥ ॥ ओं ह्रीम् ॥ अथ स्तोत्रम् – शिवाऽथोमा रमा शक्तिरनन्ता निष्कलाऽमला । शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा ॥ 1 ॥ अचिन्त्या केवलाऽनन्ता शिवात्मा परमात्मिका । अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला ॥ 2 ॥ एकानेकविभागस्था मायातीता सुनिर्मला । महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ 3 ॥ काष्ठा सर्वान्तरस्थाऽपि चिच्छक्तिश्चात्रिलालिता । सर्वा सर्वात्मिका विश्वा ज्योतीरूपाऽक्षराऽमृता ॥ 4 ॥ शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा । व्योममूर्तिर्व्योमसंस्था व्योमाधाराऽच्युताऽतुला ॥ 5 ॥ अनादिनिधनाऽमोघा कारणात्मकलाकुला । ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया ॥ 6 ॥ प्राणेश्वरप्रिया नम्या महामहिषघातिनी । प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ 7 ॥ सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी । सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ 8 ॥ अङ्गदादिधरा चैव तथा मुकुटधारिणी । सनातनी महानन्दाऽऽकाशयोनिस्तथोच्यते ॥ 9 ॥ चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरी । महामाया सुदुष्पारा मूलप्रकृतिरीशिका ॥ 10 ॥ संसारयोनिः सकला सर्वशक्तिसमुद्भवा । संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा ॥ 11 ॥ प्राणशक्तिश्च सेव्या च योगिनी परमा कला । महाविभूतिर्दुर्दर्शा मूलप्रकृतिसम्भवा ॥ 12 ॥ अनाद्यनन्तविभवा परार्था पुरुषारणिः । सर्गस्थित्यन्तकृच्चैव सुदुर्वाच्या दुरत्यया ॥ 13 ॥ शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा । प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ 14 ॥ पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी । पूतान्तरस्था कूटस्था महापुरुषसञ्ज्ञिता ॥ 15 ॥ जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी । वाञ्छाप्रदाऽनवच्छिन्नप्रधानानुप्रवेशिनी ॥ 16 ॥ क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा । मलापवर्जिताऽनादिमाया त्रितयतत्त्विका ॥ 17 ॥ प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते । महामाया नगोत्पन्ना तामसी च ध्रुवा तथा ॥ 18 ॥ व्यक्ताव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा । प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी ॥ 19 ॥ सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणी । ब्रह्मगर्भा चतुर्विंशस्वरूपा पद्मवासिनी ॥ 20 ॥ अच्युताह्लादिका विद्युद्ब्रह्मयोनिर्महालया । महालक्ष्मीः समुद्भावभावितात्मा महेश्वरी ॥ 21 ॥ महाविमानमध्यस्था महानिद्रा सकौतुका । सर्वार्थधारिणी सूक्ष्मा ह्यविद्धा परमार्थदा ॥ 22 ॥ अनन्तरूपाऽनन्तार्था तथा पुरुषमोहिनी । अनेकानेकहस्ता च कालत्रयविवर्जिता ॥ 23 ॥ ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका । ब्रह्मेशविष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसञ्ज्ञिता ॥ 24 ॥ व्यक्ता प्रथमजा ब्राह्मी महारात्रिः प्रकीर्तिता । ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी ॥ 25 ॥ धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका । अपाम्योनिः स्वयम्भूता मानसी तत्त्वसम्भवा ॥ 26 ॥ ईश्वरस्य प्रिया प्रोक्ता शङ्करार्धशरीरिणी । भवानी चैव रुद्राणी महालक्ष्मीस्तथाऽम्बिका ॥ 27 ॥ महेश्वरसमुत्पन्ना भुक्तिमुक्तिप्रदायिनी । सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा ॥ 28 ॥ महेन्द्रोपेन्द्रनमिता शाङ्करीशानुवर्तिनी । ईश्वरार्धासनगता महेश्वरपतिव्रता ॥ 29 ॥ संसारशोषिणी चैव पार्वती हिमवत्सुता । परमानन्ददात्री च गुणाग्र्या योगदा तथा ॥ 30 ॥ ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा । अनन्तगुणगम्भीरा ह्युरोनीलमणिप्रभा ॥ 31 ॥ सरोजनिलया गङ्गा योगिध्येयाऽसुरार्दिनी । सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ 32 ॥ वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका । वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ 33 ॥ ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता । स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः ॥ 34 ॥ सुनीतिः सङ्कृतिश्चैव कीर्तिता नरवाहिनी । पूजाविभाविनी सौम्या भोग्यभाग्भोगदायिनी ॥ 35 ॥ शोभावती शाङ्करी च लोला मालाविभूषिता । परमेष्ठिप्रिया चैव त्रिलोकसुन्दरी मता ॥ 36 ॥ नन्दा सन्ध्या कामधात्री महादेवी सुसात्त्विका । महामहिषदर्पघ्नी पद्ममालाऽघहारिणी ॥ 37 ॥ विचित्रमुकुटा रामा कामदाता प्रकीर्तिता । पिताम्बरधरा दिव्यविभूषणविभूषिता ॥ 38 ॥ दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता । निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका ॥ 39 ॥ आदित्यवर्णा कौमारी मयूरवरवाहिनी । पद्मासनगता गौरी महाकाली सुरार्चिता ॥ 40 ॥ अदितिर्नियता रौद्री पद्मगर्भा विवाहना । विरूपाक्षा केशिवाहा गुहापुरनिवासिनी ॥ 41 ॥ महाफलाऽनवद्याङ्गी कामरूपा सरिद्वरा । भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभञ्जना ॥ 42 ॥ कौशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी । बहुरूपा सुरूपा च विरूपा रूपवर्जिता ॥ 43 ॥ भक्तार्तिशमना भव्या भवभावविनाशिनी । सर्वज्ञानपरीताङ्गी सर्वासुरविमर्दिका ॥ 44 ॥ पिकस्वनी सामगीता भवाङ्कनिलया प्रिया । दीक्षा विद्याधरी दीप्ता महेन्द्राहितपातिनी ॥ 45 ॥ सर्वदेवमया दक्षा समुद्रान्तरवासिनी । अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ 46 ॥ कामधेनुर्बृहद्गर्भा धीमती मौननाशिनी । निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ 47 ॥ ज्वालामाला सहस्राढ्या देवदेवी मनोमया । सुभगा सुविशुद्धा च वसुदेवसमुद्भवा ॥ 48 ॥ महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा । ज्ञानज्ञेया परातीता वेदान्तविषया मतिः ॥ 49 ॥ दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता । योगमाया विभागज्ञा महामोहा गरीयसी ॥ 50 ॥ सन्ध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रयाऽदितिः । बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः ॥ 51 ॥ ख्यातिः प्रज्ञावती सञ्ज्ञा महाभोगीन्द्रशायिनी । हीङ्कृतिः शङ्करी शान्तिर्गन्धर्वगणसेविता ॥ 52 ॥ वैश्वानरी महाशूला देवसेना भवप्रिया । महारात्री परानन्दा शची दुःस्वप्ननाशिनी ॥ 53 ॥ ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी । गुहाम्बिका गणोत्पन्ना महापीठा मरुत्सुता ॥ 54 ॥ हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता । जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा ॥ 55 ॥ सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा । दैत्यहन्त्री स्वेष्टदात्री मङ्गलैकसुविग्रहा ॥ 56 ॥ पुरुषान्तर्गता चैव समाधिस्था तपस्विनी । दिविस्थिता त्रिणेत्रा च सर्वेन्द्रियमनोधृतिः ॥ 57 ॥ सर्वभूतहृदिस्था च तथा संसारतारिणी । वेद्या ब्रह्म विवेद्या च महालीला प्रकीर्तिता ॥ 58 ॥ ब्राह्मणि बृहती ब्राह्मी ब्रह्मभूताऽघहारिणी । हिरण्मयी महादात्री संसारपरिवर्तिका ॥ 59 ॥ सुमालिनी सुरूपा च भास्विनी धारिणी तथा । उन्मूलिनी सर्वसमा सर्वप्रत्ययसाक्षिणी ॥ 60 ॥ सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा । सत्त्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी ॥ 61 ॥ जगत्त्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया । विमानस्था विशोका च शोकनाशिन्यनाहता ॥ 62 ॥ हेमकुण्डलिनी काली पद्मवासा सनातनी । सदाकीर्तिः सर्वभूतशया देवी सतां प्रिया ॥ 63 ॥ ब्रह्ममूर्तिकला चैव कृत्तिका कञ्जमालिनी । व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परा गतिः ॥ 64 ॥ क्षोभिका खण्डिकाभेद्या भेदाभेदविवर्जिता । अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी ॥ 65 ॥ गुह्यशक्तिर्गुह्यतत्त्वा सर्वदा सर्वतोमुखी । भगिनी च निराधारा निराहारा प्रकीर्तिता ॥ 66 ॥ निरङ्कुशपदोद्भूता चक्रहस्ता विशोधिका । स्रग्विणी पद्मसम्भेदकारिणी परिकीर्तिता ॥ 67 ॥ परावरविधानज्ञा महापुरुषपूर्वजा । परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया ॥ 68 ॥ विद्यामयी सहस्राक्षी सहस्रवदनात्मजा । सहस्ररश्मिः सत्वस्था महेश्वरपदाश्रया ॥ 69 ॥ ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका । महाश्रया महामन्त्रा महादेवमनोरमा ॥ 70 ॥ व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा । विश्वेश्वरी भगवती सकला कालहारिणी ॥ 71 ॥ सर्ववेद्या सर्वभद्रा गुह्या गूढा गुहारणी । प्रलया योगधात्री च गङ्गा विश्वेश्वरी तथा ॥ 72 ॥ कामदा कनका कान्ता कञ्जगर्भप्रभा तथा । पुण्यदा कालकेशा च भोक्त्री पुष्करिणी तथा ॥ 73 ॥ सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता । पञ्चब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा ॥ 74 ॥ वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा । मनोहरा महोरस्का तामसी वेदरूपिणी ॥ 75 ॥ वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी । योगेश्वरेश्वरी माया महाशक्तिर्महामयी ॥ 76 ॥ विश्वान्तःस्था वियन्मूर्तिर्भार्गवी सुरसुन्दरी । सुरभिर्नन्दिनी विद्या नन्दगोपतनूद्भवा ॥ 77 ॥ भारती परमानन्दा परावरविभेदिका । सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ 78 ॥ अनन्तानन्दविभवा हृल्लेखा कनकप्रभा । कूष्माण्डा धनरत्नाढ्या सुगन्धा गन्धदायिनी ॥ 79 ॥ त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया । सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ॥ 80 ॥ शान्ता प्रभास्वरूपा च पङ्कजायतलोचना । इन्द्राक्षी हृदयान्तःस्था शिवा माता च सत्क्रिया ॥ 81 ॥ गिरिजा च सुगूढा च नित्यपुष्टा निरन्तरा । दुर्गा कात्यायनी चण्डी चन्द्रिका कान्तविग्रहा ॥ 82 ॥ हिरण्यवर्णा जगती जगद्यन्त्रप्रवर्तिका । मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ 83 ॥ रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी । पद्मानन्दा पद्मनिभा नित्यपुष्टा कृतोद्भवा ॥ 84 ॥ नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया । महेन्द्रभगिनी सत्या सत्यभाषा सुकोमला ॥ 85 ॥ वामा च पञ्चतपसां वरदात्री प्रकीर्तिता । वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा ॥ 86 ॥ कालरात्रिर्महावेगा वीरभद्रप्रिया हिता । भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ 87 ॥ कराला पिङ्गलाकारा कामभेत्त्री महामनाः । यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ 88 ॥ शङ्खिनी पद्मिनी सङ्ख्या साङ्ख्ययोगप्रवर्तिका । चैत्रादिर्वत्सरारूढा जगत्सम्पूरणीन्द्रजा ॥ 89 ॥ शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता । खगारूढा महैश्वर्या सुपद्मनिलया तथा ॥ 90 ॥ विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया । शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी ॥ 91 ॥ जगत्त्रयारणी सिद्धसङ्कल्पा कामदा तथा । सर्वविज्ञानदात्री चानल्पकल्मषहारिणी ॥ 92 ॥ सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा । सद्वृता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती ॥ 93 ॥ विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी । शिवा धृता लोहिताक्षी सर्पमालाविभूषणा ॥ 94 ॥ निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी । अशेषध्येयमूर्तिश्च देवतानां च देवता ॥ 95 ॥ वराम्बिका गिरेः पुत्री निशुम्भविनिपातिनी । सुवर्णा स्वर्णलसिताऽनन्तवर्णा सदाधृता ॥ 96 ॥ शाङ्करी शान्तहृदया अहोरात्रविधायिका । विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा ॥ 97 ॥ गौरी शाकम्भरी सत्यसन्धा सन्ध्यात्रयीधृता । सर्वपापविनिर्मुक्ता सर्वबन्धविवर्जिता ॥ 98 ॥ साङ्ख्ययोगसमाख्याता अप्रमेया मुनीडिता । विशुद्धसुकुलोद्भूता बिन्दुनादसमादृता ॥ 99 ॥ शम्भुवामाङ्कगा चैव शशितुल्यनिभानना । वनमालाविराजन्ती अनन्तशयनादृता ॥ 100 ॥ नरनारायणोद्भूता नारसिंही प्रकीर्तिता । दैत्यप्रमाथिनी शङ्खचक्रपद्मगदाधरा ॥ 101 ॥ सङ्कर्षणसमुत्पन्ना अम्बिका सज्जनाश्रया । सुवृता सुन्दरी चैव धर्मकामार्थदायिनी ॥ 102 ॥ मोक्षदा भक्तिनिलया पुराणपुरुषादृता । महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा ॥ 103 ॥ अष्टादशभुजाऽनादिर्नीलोत्पलदलाक्षिणी । सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता ॥ 104 ॥ वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया । विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ 105 ॥ ज्ञानेश्वरी पीतचेला वेदवेदाङ्गपारगा । मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ 106 ॥ अमन्युरमृतास्वादा पुरन्दरपरिष्टुता । अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ 107 ॥ हिरण्यजननी भीमा हेमाभरणभूषिता । विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ 108 ॥ महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता । दीर्घा ककुद्मिनी पिङ्गजटाधारा मनोज्ञधीः ॥ 109 ॥ महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता । त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया ॥ 110 ॥ शान्त्यतीतकलाऽतीतविकारा श्वेतचेलिका । चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी ॥ 111 ॥ काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका । त्रयीमूर्तिः क्रियामूर्तिश्चतुर्वर्गा च दर्शिनी ॥ 112 ॥ नारायणी नरोत्पन्ना कौमुदी कान्तिधारिणी । कौशिकी ललिता लीला परावरविभाविनी ॥ 113 ॥ वरेण्याऽद्भुतमाहात्म्या वडवा वामलोचना । सुभद्रा चेतनाराध्या शान्तिदा शान्तिवर्धिनी ॥ 114 ॥ जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका । त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता ॥ 115 ॥ सुधौतकर्मणाऽऽराध्या युगान्तदहनात्मिका । सङ्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी ॥ 116 ॥ ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी । प्रद्युम्नजननी बिम्बसमोष्ठी पद्मलोचना ॥ 117 ॥ मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा । वृषाधीशा परात्मा च विन्ध्यपर्वतवासिनी ॥ 118 ॥ हिमवन्मेरुनिलया कैलासपुरवासिनी । चाणूरहन्त्री नीतिज्ञा कामरूपा त्रयीतनुः ॥ 119 ॥ व्रतस्नाता धर्मशीला सिंहासननिवासिनी । वीरभद्रादृता वीरा महाकालसमुद्भवा ॥ 120 ॥ विद्याधरार्चिता सिद्धसाध्याराधितपादुका । श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका ॥ 121 ॥ महाद्भुता वारिजाक्षी सिंहवाहनगामिनी । मनीषिणी सुधावाणी वीणावादनतत्परा ॥ 122 ॥ श्वेतवाहनिषेव्या च लसन्मतिररुन्धती । हिरण्याक्षी तथा चैव महानन्दप्रदायिनी ॥ 123 ॥ वसुप्रभा सुमाल्याप्तकन्धरा पङ्कजानना । परावरा वरारोहा सहस्रनयनार्चिता ॥ 124 ॥ श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया । श्रीप्रदा श्रितकल्याणा श्रीधरार्धशरीरिणी ॥ 125 ॥ श्रीकलाऽनन्तदृष्टिश्च ह्यक्षुद्राऽऽरातिसूदनी । रक्तबीजनिहन्त्री च दैत्यसङ्घविमर्दिनी ॥ 126 ॥ सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी । सुकीर्तिसहिता छिन्नसंशया रसवेदिनी ॥ 127 ॥ गुणाभिरामा नागारिवाहना निर्जरार्चिता । नित्योदिता स्वयञ्ज्योतिः स्वर्णकाया प्रकीर्तिता ॥ 128 ॥ वज्रदण्डाङ्किता चैव तथाऽमृतसञ्जीविनी । वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा ॥ 129 ॥ माङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी । गन्धर्वी तरुणी चान्द्री खड्गायुधधरा तथा ॥ 130 ॥ सौदामिनी प्रजानन्दा तथा प्रोक्ता भृगूद्भवा । एकानङ्गा च शास्त्रार्थकुशला धर्मचारिणी ॥ 131 ॥ धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया । धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा ॥ 132 ॥ विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा । धर्मवर्ष्मा धर्मपूर्वा धर्मपारङ्गतान्तरा ॥ 133 ॥ धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा । कपालिनी शाकलिनी कलाकलितविग्रहा ॥ 134 ॥ सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा । कंसप्राणहरा चैव युगधर्मधरा तथा ॥ 135 ॥ युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा । स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता ॥ 136 ॥ आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा । पद्मासनगता प्रोक्ता खड्गबाणशरासना ॥ 137 ॥ शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता । शतरूपा शतावर्ता वितता रासमोदिनी ॥ 138 ॥ सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी । सूर्यान्तरस्थिता चैव सत्प्रतिष्ठितविग्रहा ॥ 139 ॥ निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा । कात्यायनी चण्डिका च चण्डी हैमवती तथा ॥ 140 ॥ दाक्षायणी सती चैव भवानी सर्वमङ्गला । धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी ॥ 141 ॥ योगनिद्रा योगभद्रा समुद्रतनया तथा । देवप्रियङ्करी शुद्धा भक्तभक्तिप्रवर्धिनी ॥ 142 ॥ त्रिनेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका । अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी ॥ 143 ॥ कुमारलालनासक्ता हरबाहूपधानिका । विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी ॥ 144 ॥ सुस्मितेन्दुमुखी नम्या जयाप्रियसखी तथा । अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना ॥ 145 ॥ कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी । कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा ॥ 146 ॥ सुरासुरप्रवन्द्याङ्घ्रिर्मोहघ्नी ज्ञानदायिनी । षड्वैरिनिग्रहकरी वैरिविद्राविणी तथा ॥ 147 ॥ भूतसेव्या भूतदात्री भूतपीडाविमर्दिका । नारदस्तुतचारित्रा वरदेशा वरप्रदा ॥ 148 ॥ वामदेवस्तुता चैव कामदा सोमशेखरा । दिक्पालसेविता भव्या भामिनी भावदायिनी ॥ 149 ॥ स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी । व्योमगा भूमिगा चैव मुनिपूज्यपदाम्बुजा । वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ॥ 150 ॥ फलश्रुतिः – इतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् । त्रिसन्ध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ 1 ॥ ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् । बालग्रहादिपीडायाः शान्तिर्भवति कीर्तनात् ॥ 2 ॥ मारिकादिमहारोगे पठतां सौख्यदं नृणाम् । व्यवहारे च जयदं शत्रुबाधानिवारकम् ॥ 3 ॥ दम्पत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम् । आयुरारोग्यदं पुंसां सर्वसम्पत्प्रदायकम् ॥ 4 ॥ विद्याभिवर्धकं नित्यं पठतामर्थसाधकम् । शुभदं शुभकार्येषु पठतां शृण्वतामपि ॥ 5 ॥ यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः । पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते हृदि ॥ 6 ॥ तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः । यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् ॥ 7 ॥ किं तस्येतरमन्त्रौघैः कार्यं धन्यतमस्य हि । दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत् ॥ 8 ॥ न तत्र ग्रहभूतादिबाधा स्यान्मङ्गलास्पदे । तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् ॥ 9 ॥ एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमन्त्रवित् । देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् ॥ 10 ॥ इत्येतन्नगराजेन कीर्तितं मुनिसत्तम । गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् ॥ 11 ॥ भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम् । हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् ॥ 12 ॥ इति श्री दुर्गा सहस्रनाम स्तोत्रम् ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits