Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

दुर्गा चन्द्रकला स्तुति

ध्यानम् – उमाकान्ते रमाकान्ते एषामासी-न्मतिस्समा । नमामि दीक्षितेन्द्रां स्तान् नयषट्क-विशारदाम् ॥ वेधोहरीश्वरस्तुत्यां विहर्त्रीं विन्ध्यभूधरे । हरप्राणेश्वरीं वन्दे हन्त्रीं विबुधविद्विषाम् ॥ 1 ॥ अभ्यर्थनेन सरसीरुहसम्भवस्य त्यक्त्वोदिता भगवदक्षिपिधानलीलाम् । विश्वेश्वरी विपदपाकरणे पुरस्तात् माता ममास्तु मधुकैटभयोर्निहन्त्री ॥ 2 ॥ प्राङ्निर्जरेषु निहतैर्निजशक्तिलेशैः एकीभवद्भिरुदिताऽखिललोकगुप्त्यै । सम्पन्नशस्त्रनिकरा च तदायुधस्थैः माता ममास्तु महिषान्तकरी पुरस्तात् ॥ 3 ॥ प्रालेयशैलतनया तनुकान्तिसम्पत् कोशोदिता कुवलयच्छविचारुदेहा । नारायणी नमदभीप्सितकल्पवल्ली सुप्रीतिमावहतु शुम्भनिशुम्भहन्त्री ॥ 4 ॥ विश्वेश्वरीति महिषान्तकरीति यस्याः नारायणीत्यपि च नामभिरङ्कितानि । सूक्तानि पङ्कजभुवा च सुरर्षिभिश्च दृष्टानि पावकमुखैश्च शिवां भजे ताम् ॥ 5 ॥ उत्पत्तिदैत्यहननस्तवनात्मकानि संरक्षकाण्यखिलभूतहिताय यस्याः । सूक्तान्यशेषनिगमान्तविदः पठन्ति तां विश्वमातरमजस्रमभिष्टवीमि ॥ 6 ॥ ये वैप्रचित्तपुनरुत्थितशुम्भमुख्यैः दुर्भिक्षघोरसमयेन च कारितासु । आविष्कृतास्त्रिजगदार्तिषु रूपभेदाः तैरम्बिका समभिरक्षतु मां विपद्भ्यः ॥ 7 ॥ सूक्तं यदीयमरविन्दभवादि दृष्टं आवर्त्य देव्यनुपदं सुरथः समाधिः । द्वावप्यवापतुरभीष्टमनन्यलभ्यं तामादिदेवतरुणीं प्रणमामि मूर्ध्ना ॥ 8 ॥ माहिष्मतीतनुभवं च रुरुं च हन्तुं आविष्कृतैर्निजरसादवतारभेदैः । अष्टादशाहतनवाहतकोटिसङ्ख्यैः अम्बा सदा समभिरक्षतु मां विपद्भ्यः ॥ 9 ॥ एतच्चरित्रमखिलं लिखितं हि यस्याः सम्पूजितं सदन एव निवेशितं वा । दुर्गं च तारयति दुस्तरमप्यशेषं श्रेयः प्रयच्छति च सर्वमुमां भजे ताम् ॥ 10 ॥ यत्पूजनस्तुतिनमस्कृतिभिर्भवन्ति प्रीताः पितामहरमेशहरास्त्रयोऽपि । तेषामपि स्वकगुणैर्ददती वपूंषि तामीश्वरस्य तरुणीं शरणं प्रपद्ये ॥ 11 ॥ कान्तारमध्यदृढलग्नतयाऽवसन्नाः मग्नाश्च वारिधिजले रिपुभिश्च रुद्धाः । यस्याः प्रपद्य चरणौ विपदस्तरन्ति सा मे सदाऽस्तु हृदि सर्वजगत्सवित्री ॥ 12 ॥ बन्धे वधे महति मृत्युभये प्रसक्ते वित्तक्षये च विविधे य महोपतापे । यत्पादपूजनमिह प्रतिकारमाहुः सा मे समस्तजननी शरणं भवानी ॥ 13 ॥ बाणासुरप्रहितपन्नगबन्धमोक्षः तद्बाहुदर्पदलनादुषया च योगः । प्राद्युम्निना द्रुतमलभ्यत यत्प्रसादात् सा मे शिवा सकलमप्यशुभं क्षिणोतु ॥ 14 ॥ पापः पुलस्त्यतनयः पुनरुत्थितो मां अद्यापि हर्तुमयमागत इत्युदीतम् । यत्सेवनेन भयमिन्दिरयाऽवधूतं तामादिदेवतरुणीं शरणं गतोऽस्मि ॥ 15 ॥ यद्ध्यानजं सुखमवाप्यमनन्तपुण्यैः साक्षात्तमच्युत परिग्रहमाश्ववापुः । गोपाङ्गनाः किल यदर्चनपुण्यमात्राः सा मे सदा भगवती भवतु प्रसन्ना ॥ 16 ॥ रात्रिं प्रपद्य इति मन्त्रविदः प्रपन्नान् उद्बोध्य मृत्युवधिमन्यफलैः प्रलोभ्य । बुद्ध्वा च तद्विमुखतां प्रतनं नयन्तीं आकाशमादिजननीं जगतां भजे ताम् ॥ 17 ॥ देशकालेषु दुष्टेषु दुर्गाचन्द्रकलास्तुतिः । सन्ध्ययोरनुसन्धेया सर्वापद्विनिवृत्तये ॥ 18 ॥ इति श्रीमदपय्यदीक्षितविरचिता दुर्गाचन्द्रकलास्तुतिः ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits