हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
दुर्गा आपदुद्धारक स्तोत्रम्
नमस्ते
शरण्ये
शिवे
सानुकंपे
नमस्ते
जगद्व्यापिके
विश्वरूपे
।
नमस्ते
जगद्वंद्यपादारविंदे
नमस्ते
जगत्तारिणि
त्राहि
दुर्गे
॥
1
॥
नमस्ते
जगच्चिंत्यमानस्वरूपे
नमस्ते
महायोगिविज्ञानरूपे
।
नमस्ते
नमस्ते
सदानंदरूपे
नमस्ते
जगत्तारिणि
त्राहि
दुर्गे
॥
2
॥
अनाथस्य
दीनस्य
तृष्णातुरस्य
भयार्तस्य
भीतस्य
बद्धस्य
जंतोः
।
त्वमेका
गतिर्देवि
निस्तारकर्त्री
नमस्ते
जगत्तारिणि
त्राहि
दुर्गे
॥
3
॥
अरण्ये
रणे
दारुणे
शत्रुमध्ये-
ऽनले
सागरे
प्रांतरे
राजगेहे
।
त्वमेका
गतिर्देवि
निस्तारनौका
नमस्ते
जगत्तारिणि
त्राहि
दुर्गे
॥
4
॥
अपारे
महादुस्तरेऽत्यंतघोरे
विपत्सागरे
मज्जतां
देहभाजाम्
।
त्वमेका
गतिर्देवि
निस्तारहेतु-
र्नमस्ते
जगत्तारिणि
त्राहि
दुर्गे
॥
5
॥
नमश्चंडिके
चंडदुर्दंडलीला-
समुत्खंडिता
खंडिताऽशेषशत्रोः
।
त्वमेका
गतिर्देवि
निस्तारबीजं
नमस्ते
जगत्तारिणि
त्राहि
दुर्गे
॥
6
॥
त्वमेका
सदाराधिता
सत्यवादि-
न्यनेकाखिला
क्रोधना
क्रोधनिष्ठा
।
इडा
पिंगला
त्वं
सुषुम्ना
च
नाडी
नमस्ते
जगत्तारिणि
त्राहि
दुर्गे
॥
7
॥
नमो
देवि
दुर्गे
शिवे
भीमनादे
सदासर्वसिद्धिप्रदातृस्वरूपे
।
विभूतिः
शची
कालरात्रिः
सती
त्वं
नमस्ते
जगत्तारिणि
त्राहि
दुर्गे
॥
8
॥
शरणमसि
सुराणां
सिद्धविद्याधराणां
मुनिमनुजपशूनां
दस्युभिस्त्रासितानां
नृपतिगृहगतानां
व्याधिभिः
पीडितानाम्
।
त्वमसि
शरणमेका
देवि
दुर्गे
प्रसीद
॥
9
॥
इदं
स्तोत्रं
मया
प्रोक्तमापदुद्धारहेतुकम्
।
त्रिसंध्यमेकसंध्यं
वा
पठनाद्घोरसंकटात्
॥
10
॥
मुच्यते
नात्र
संदेहो
भुवि
स्वर्गे
रसातले
।
सर्वं
वा
श्लोकमेकं
वा
यः
पठेद्भक्तिमान्सदा
॥
11
॥
स
सर्वं
दुष्कृतं
त्यक्त्वा
प्राप्नोति
परमं
पदम्
।
पठनादस्य
देवेशि
किं
न
सिद्ध्यति
भूतले
।
स्तवराजमिदं
देवि
संक्षेपात्कथितं
मया
॥
12
इति
श्री
सिद्धेश्वरीतंत्रे
परमशिवोक्त
श्री
दुर्गा
आपदुद्धार
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits