हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
देवी माहात्म्यं देवि कवचम्
न्यासः
–
अस्य
श्री
चण्डी
कवचस्य
।
ब्रह्मा
ऋषिः
।
अनुष्टुप्
छन्दः
।
चामुण्डा
देवता
।
अङ्गन्यासोक्त
मातरो
बीजम्
।
नवावरणो
मन्त्रशक्तिः
।
दिग्बन्ध
देवताः
तत्वम्
।
श्री
जगदम्बा
प्रीत्यर्थे
सप्तशती
पाठाङ्गत्वेन
जपे
विनियोगः
॥
ओं
नमश्चण्डिकायै
मार्कण्डेय
उवाच
–
ओं
यद्गुह्यं
परमं
लोके
सर्वरक्षाकरं
नृणाम्
।
यन्न
कस्यचिदाख्यातं
तन्मे
ब्रूहि
पितामह
॥
1
॥
ब्रह्मोवाच
–
अस्ति
गुह्यतमं
विप्र
सर्वभूतोपकारकम्
।
देव्यास्तु
कवचं
पुण्यं
तच्छृणुष्व
महामुने
॥
2
॥
प्रथमं
शैलपुत्री
च
द्वितीयं
ब्रह्मचारिणी
।
तृतीयं
चन्द्रघण्टेति
कूष्माण्डेति
चतुर्थकम्
॥
3
॥
पञ्चमं
स्कन्दमातेति
षष्ठं
कात्यायनीति
च
।
सप्तमं
कालरात्रीति
महागौरीति
चाष्टमम्
॥
4
॥
नवमं
सिद्धिदात्री
च
नवदुर्गाः
प्रकीर्तिताः
।
उक्तान्येतानि
नामानि
ब्रह्मणैव
महात्मना
॥
5
॥
अग्निना
दह्यमानस्तु
शत्रुमध्ये
गतो
रणे
।
विषमे
दुर्गमे
चैव
भयार्ताः
शरणं
गताः
॥
6
॥
न
तेषां
जायते
किञ्चिदशुभं
रणसङ्कटे
।
नापदं
तस्य
पश्यामि
शोकदुःखभयं
न
हि
॥
7
॥
यैस्तु
भक्त्या
स्मृता
नूनं
तेषां
वृद्धिः
प्रजायते
।
ये
त्वां
स्मरन्ति
देवेशि
रक्षसे
तान्नसंशयः
॥
8
॥
प्रेतसंस्था
तु
चामुण्डा
वाराही
महिषासना
।
ऐन्द्री
गजसमारूढा
वैष्णवी
गरुडासना
॥
9
॥
माहेश्वरी
वृषारूढा
कौमारी
शिखिवाहना
।
लक्ष्मीः
पद्मासना
देवी
पद्महस्ता
हरिप्रिया
॥
10
॥
श्वेतरूपधरा
देवी
ईश्वरी
वृषवाहना
।
ब्राह्मी
हंससमारूढा
सर्वाभरणभूषिता
॥
11
॥
इत्येता
मातरः
सर्वाः
सर्वयोगसमन्विताः
।
नानाभरणाशोभाढ्या
नानारत्नोपशोभिताः
॥
12
॥
दृश्यन्ते
रथमारूढा
देव्यः
क्रोधसमाकुलाः
।
शङ्खं
चक्रं
गदां
शक्तिं
हलं
च
मुसलायुधम्
॥
13
॥
खेटकं
तोमरं
चैव
परशुं
पाशमेव
च
।
कुन्तायुधं
त्रिशूलं
च
शार्ङ्गमायुधमुत्तमम्
॥
14
॥
दैत्यानां
देहनाशाय
भक्तानामभयाय
च
।
धारयन्त्यायुधानीत्थं
देवानां
च
हिताय
वै
॥
15
॥
नमस्तेऽस्तु
महारौद्रे
महाघोरपराक्रमे
।
महाबले
महोत्साहे
महाभयविनाशिनि
॥
16
॥
त्राहि
मां
देवि
दुष्प्रेक्ष्ये
शत्रूणां
भयवर्धिनि
।
प्राच्यां
रक्षतु
मामैन्द्री
आग्नेय्यामग्निदेवता
॥
17
॥
दक्षिणेऽवतु
वाराही
नैरृत्यां
खड्गधारिणी
।
प्रतीच्यां
वारुणी
रक्षेद्वायव्यां
मृगवाहिनी
॥
18
॥
उदीच्यां
पातु
कौमारी
ऐशान्यां
शूलधारिणी
।
ऊर्ध्वं
ब्रह्माणी
मे
रक्षेदधस्ताद्वैष्णवी
तथा
॥
19
॥
एवं
दश
दिशो
रक्षेच्चामुण्डा
शववाहना
।
जया
मे
चाग्रतः
पातु
विजया
पातु
पृष्ठतः
॥
20
॥
अजिता
वामपार्श्वे
तु
दक्षिणे
चापराजिता
।
शिखामुद्योतिनी
रक्षेदुमा
मूर्ध्नि
व्यवस्थिता
॥
21
॥
मालाधरी
ललाटे
च
भ्रुवौ
रक्षेद्यशस्विनी
।
त्रिनेत्रा
च
भ्रुवोर्मध्ये
यमघण्टा
च
नासिके
॥
22
॥
शङ्खिनी
चक्षुषोर्मध्ये
श्रोत्रयोर्द्वारवासिनी
।
कपोलौ
कालिका
रक्षेत्कर्णमूले
तु
शाङ्करी
॥
23
॥
नासिकायां
सुगन्धा
च
उत्तरोष्ठे
च
चर्चिका
।
अधरे
चामृतकला
जिह्वायां
च
सरस्वती
॥
24
॥
दन्तान्
रक्षतु
कौमारी
कण्ठदेशे
तु
चण्डिका
।
घण्टिकां
चित्रघण्टा
च
महामाया
च
तालुके
॥
25
॥
कामाक्षी
चिबुकं
रक्षेद्वाचं
मे
सर्वमङ्गला
।
ग्रीवायां
भद्रकाली
च
पृष्ठवंशे
धनुर्धरी
॥
26
॥
नीलग्रीवा
बहिः
कण्ठे
नलिकां
नलकूबरी
।
स्कन्धयोः
खड्गिनी
रक्षेद्बाहू
मे
वज्रधारिणी
॥
27
॥
हस्तयोर्दण्डिनी
रक्षेदम्बिका
चाङ्गुलीषु
च
।
नखाञ्छूलेश्वरी
रक्षेत्कुक्षौ
रक्षेत्कुलेश्वरी
॥
28
॥
स्तनौ
रक्षेन्महादेवी
मनःशोकविनाशिनी
।
हृदये
ललिता
देवी
उदरे
शूलधारिणी
॥
29
॥
नाभौ
च
कामिनी
रक्षेद्गुह्यं
गुह्येश्वरी
तथा
।
पूतना
कामिका
मेढ्रं
गुदे
महिषवाहिनी
॥
30
॥
कट्यां
भगवती
रक्षेज्जानुनी
विन्ध्यवासिनी
।
जङ्घे
महाबला
रक्षेत्सर्वकामप्रदायिनी
॥
31
॥
गुल्फयोर्नारसिंही
च
पादपृष्ठे
तु
तैजसी
।
पादाङ्गुलीषु
श्री
रक्षेत्पादाधस्तलवासिनी
॥
32
॥
नखान्
दंष्ट्रकराली
च
केशांश्चैवोर्ध्वकेशिनी
।
रोमकूपेषु
कौमारी
त्वचं
वागीश्वरी
तथा
॥
33
॥
रक्तमज्जावसामांसान्यस्थिमेदांसि
पार्वती
।
अन्त्राणि
कालरात्रिश्च
पित्तं
च
मुकुटेश्वरी
॥
34
॥
पद्मावती
पद्मकोशे
कफे
चूडामणिस्तथा
।
ज्वालामुखी
नखज्वालामभेद्या
सर्वसन्धिषु
॥
35
॥
शुक्रं
ब्रह्माणि!
मे
रक्षेच्छायां
छत्रेश्वरी
तथा
।
अहङ्कारं
मनो
बुद्धिं
रक्षेन्मे
धर्मधारिणी
॥
36
॥
प्राणापानौ
तथा
व्यानमुदानं
च
समानकम्
।
वज्रहस्ता
च
मे
रक्षेत्प्राणं
कल्याणशोभना
॥
37
॥
रसे
रूपे
च
गन्धे
च
शब्दे
स्पर्शे
च
योगिनी
।
सत्त्वं
रजस्तमश्चैव
रक्षेन्नारायणी
सदा
॥
38
॥
आयू
रक्षतु
वाराही
धर्मं
रक्षतु
वैष्णवी
।
यशः
कीर्तिं
च
लक्ष्मीं
च
धनं
विद्यां
च
चक्रिणी
॥
39
॥
गोत्रमिन्द्राणि!
मे
रक्षेत्पशून्मे
रक्ष
चण्डिके
।
पुत्रान्
रक्षेन्महालक्ष्मीर्भार्यां
रक्षतु
भैरवी
॥
40
॥
पन्थानं
सुपथा
रक्षेन्मार्गं
क्षेमकरी
तथा
।
राजद्वारे
महालक्ष्मीर्विजया
सर्वतः
स्थिता
॥
41
॥
रक्षाहीनं
तु
यत्-स्थानं
वर्जितं
कवचेन
तु
।
तत्सर्वं
रक्ष
मे
देवि!
जयन्ती
पापनाशिनी
॥
42
॥
पदमेकं
न
गच्छेत्तु
यदीच्छेच्छुभमात्मनः
।
कवचेनावृतो
नित्यं
यत्र
यत्रैव
गच्छति
॥
43
॥
तत्र
तत्रार्थलाभश्च
विजयः
सार्वकामिकः
।
यं
यं
चिन्तयते
कामं
तं
तं
प्राप्नोति
निश्चितम्
॥
44
॥
परमैश्वर्यमतुलं
प्राप्स्यते
भूतले
पुमान्
।
निर्भयो
जायते
मर्त्यः
सङ्ग्रामेष्वपराजितः
॥
45
॥
त्रैलोक्ये
तु
भवेत्पूज्यः
कवचेनावृतः
पुमान्
।
इदं
तु
देव्याः
कवचं
देवानामपि
दुर्लभम्
॥
46
॥
यः
पठेत्प्रयतो
नित्यं
त्रिसन्ध्यं
श्रद्धयान्वितः
।
दैवीकला
भवेत्तस्य
त्रैलोक्येष्वपराजितः
।
47
॥
जीवेद्वर्षशतं
साग्रमपमृत्युविवर्जितः
।
नश्यन्ति
व्याधयः
सर्वे
लूताविस्फोटकादयः
॥
48
॥
स्थावरं
जङ्गमं
चैव
कृत्रिमं
चैव
यद्विषम्
।
अभिचाराणि
सर्वाणि
मन्त्रयन्त्राणि
भूतले
॥
49
॥
भूचराः
खेचराश्चैव
जुलजाश्चोपदेशिकाः
।
सहजा
कुलजा
माला
डाकिनी
शाकिनी
तथा
॥
50
॥
अन्तरिक्षचरा
घोरा
डाकिन्यश्च
महाबलाः
।
ग्रहभूतपिशाचाश्च
यक्षगन्धर्वराक्षसाः
॥
51
॥
ब्रह्मराक्षसवेतालाः
कूष्माण्डा
भैरवादयः
।
नश्यन्ति
दर्शनात्तस्य
कवचे
हृदि
संस्थिते
॥
52
॥
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं
परम्
।
यशसा
वर्धते
सोऽपि
कीर्तिमण्डितभूतले
॥
53
॥
जपेत्सप्तशतीं
चण्डीं
कृत्वा
तु
कवचं
पुरा
।
यावद्भूमण्डलं
धत्ते
सशैलवनकाननम्
॥
54
॥
तावत्तिष्ठति
मेदिन्यां
सन्ततिः
पुत्रपौत्रिकी
।
देहान्ते
परमं
स्थानं
यत्सुरैरपि
दुर्लभम्
॥
55
॥
प्राप्नोति
पुरुषो
नित्यं
महामायाप्रसादतः
।
लभते
परमं
रूपं
शिवेन
सह
मोदते
॥
56
॥ ॥
इति
देवी
माहात्म्यं
देवि
कवचम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits