Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

देव्यपराध क्षमापण स्तोत्रम्

मन्त्रं नो यन्त्रं तदपि जाने स्तुतिमहो चाह्वानं ध्यानं तदपि जाने स्तुतिकथाः जाने मुद्रास्ते तदपि जाने विलपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम् 1 विधेरज्ञानेन द्रविणविरहेणालसतया विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे कुपुत्रो जायेत क्वचिदपि कुमाता भवति 2 पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः परं तेषां मध्ये विरलतरलोऽहं तव सुतः मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे कुपुत्रो जायेत क्वचिदपि कुमाता भवति 3 जगन्मातर्मातस्तव चरणसेवा रचिता वा दत्तं देवि द्रविणमपि भूयस्तव मया तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे कुपुत्रो जायेत क्वचिदपि कुमाता भवति 4 परित्यक्ता देवान्विविधविधिसेवाकुलतया मया पञ्चाशीतेरधिकमपनीते तु वयसि इदानीं चेन्मातस्तव यदि कृपा नापि भविता निरालम्बो लम्बोदरजननि कं यामि शरणम् 5 श्वपाको जल्पाको भवति मधुपाकोपमगिरा निरातङ्को रङ्को विहरति चिरं कोटिकनकैः तवापर्णे कर्णे विशति मनुवर्णे फलमिदं जनः को जानीते जननि जपनीयं जपविधौ 6 चिताभस्मालेपो गरलमशनं दिक्पटधरो जटाधारी कण्ठे भुजगपतिहारी पशुपतिः कपाली भूतेशो भजति जगदीशैकपदवीं भवानी त्वत्पाणिग्रहणपरिपाटी फलमिदम् 7 मोक्षस्याकाङ्क्षा विभववाञ्छापि मे विज्ञानापेक्षा शशिमुखि सुखेच्छापि पुनः अतस्त्वां संयाचे जननि जननं यातु मम वै मृडानी रुद्राणी शिव शिव भवानीति जपतः 8 नाराधितासि विधिना विविधोपचारैः किं रूक्षचिन्तनपरैर्न कृतं वचोभिः श्यामे त्वमेव यदि किञ्चन मय्यनाथे धत्से कृपामुचितमम्ब परं तवैव 9 आपत्सु मग्नः स्मरणं त्वदीयं करोमि दुर्गे करुणार्णवे शिवे नैतच्छठत्वं मम भावयेथाः क्षुधातृषार्ताः जननीं स्मरन्ति 10 जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि अपराधपरम्परावृतं हि माता समुपेक्षते सुतम् 11 मत्समः पातकी नास्ति पापघ्नी त्वत्समा हि एवं ज्ञात्वा महादेवी यथा योग्यं तथा कुरु 12 इति श्रीमच्छङ्कराचार्य विरचितं देव्यपराधक्षमापण स्तोत्रम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits