हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
भवानी अष्टकम्
न
तातो
न
माता
न
बन्धुर्न
दाता
न
पुत्रो
न
पुत्री
न
भृत्यो
न
भर्ता
न
जाया
न
विद्या
न
वृत्तिर्ममैव
गतिस्त्वं
गतिस्त्वं
त्वमेका
भवानि
॥
1
॥
भवाब्धावपारे
महादुःखभीरु
पपात
प्रकामी
प्रलोभी
प्रमत्तः
कुसंसारपाशप्रबद्धः
सदाहं
गतिस्त्वं
गतिस्त्वं
त्वमेका
भवानि
॥
2
॥
न
जानामि
दानं
न
च
ध्यानयोगं
न
जानामि
तन्त्रं
न
च
स्तोत्रमन्त्रम्
न
जानामि
पूजां
न
च
न्यासयोगं
गतिस्त्वं
गतिस्त्वं
त्वमेका
भवानि
॥
3
॥
न
जानामि
पुण्यं
न
जानामि
तीर्थं
न
जानामि
मुक्तिं
लयं
वा
कदाचित्
न
जानामि
भक्तिं
व्रतं
वापि
मातः
गतिस्त्वं
गतिस्त्वं
त्वमेका
भवानि
॥
4
॥
कुकर्मी
कुसङ्गी
कुबुद्धिः
कुदासः
कुलाचारहीनः
कदाचारलीनः
कुदृष्टिः
कुवाक्यप्रबन्धः
सदाहं
गतिस्त्वं
गतिस्त्वं
त्वमेका
भवानि
॥
5
॥
प्रजेशं
रमेशं
महेशं
सुरेशं
दिनेशं
निशीथेश्वरं
वा
कदाचित्
न
जानामि
चान्यत्
सदाहं
शरण्ये
गतिस्त्वं
गतिस्त्वं
त्वमेका
भवानि
॥
6
॥
विवादे
विषादे
प्रमादे
प्रवासे
जले
चानले
पर्वते
शत्रुमध्ये
अरण्ये
शरण्ये
सदा
मां
प्रपाहि
गतिस्त्वं
गतिस्त्वं
त्वमेका
भवानि
॥
7
॥
अनाथो
दरिद्रो
जरारोगयुक्तो
महाक्षीणदीनः
सदा
जाड्यवक्त्रः
विपत्तौ
प्रविष्टः
प्रनष्टः
सदाहं
गतिस्त्वं
गतिस्त्वं
त्वमेका
भवानि
॥
8
॥ ॥
इति
श्रीमदादिशङ्कराचार्यविरचितं
भवान्यष्टकं
सम्पूर्णम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits