हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
अर्जुन कृत श्री दुर्गा स्तोत्रम्
अर्जुन
उवाच
–
नमस्ते
सिद्धसेनानि
आर्ये
मन्दरवासिनि
।
कुमारि
कालि
कापालि
कपिले
कृष्णपिङ्गले
॥
1
॥
भद्रकालि
नमस्तुभ्यं
महाकालि
नमोऽस्तु
ते
।
चण्डि
चण्डे
नमस्तुभ्यं
तारिणि
वरवर्णिनि
॥
2
॥
कात्यायनि
महाभागे
करालि
विजये
जये
।
शिखिपिञ्छध्वजधरे
नानाभरणभूषिते
॥
3
॥
अट्टशूलप्रहरणे
खड्गखेटकधारिणि
।
गोपेन्द्रस्यानुजे
ज्येष्ठे
नन्दगोपकुलोद्भवे
॥
4
॥
महिषासृक्प्रिये
नित्यं
कौशिकि
पीतवासिनि
।
अट्टहासे
कोकमुखे
नमस्तेऽस्तु
रणप्रिये
॥
5
॥
उमे
शाकम्भरि
श्वेते
कृष्णे
कैटभनाशिनि
।
हिरण्याक्षि
विरूपाक्षि
सुधूम्राक्षि
नमोऽस्तु
ते
॥
6
॥
वेदश्रुतिमहापुण्ये
ब्रह्मण्ये
जातवेदसि
।
जम्बूकटकचैत्येषु
नित्यं
सन्निहितालये
॥
7
॥
त्वं
ब्रह्मविद्या
विद्यानां
महानिद्रा
च
देहिनाम्
।
स्कन्दमातर्भगवति
दुर्गे
कान्तारवासिनि
॥
8
॥
स्वाहाकारः
स्वधा
चैव
कला
काष्ठा
सरस्वती
।
सावित्री
वेदमाता
च
तथा
वेदान्त
उच्यते
॥
9
॥
स्तुतासि
त्वं
महादेवि
विशुद्धेनान्तरात्मना
।
जयो
भवतु
मे
नित्यं
त्वत्प्रसादाद्रणाजिरे
॥
10
॥
कान्तारभयदुर्गेषु
भक्तानां
चालयेषु
च
।
नित्यं
वससि
पाताले
युद्धे
जयसि
दानवान्
॥
11
॥
त्वं
जम्भनी
मोहिनी
च
माया
ह्रीः
श्रीस्तथैव
च
।
सन्ध्या
प्रभावती
चैव
सावित्री
जननी
तथा
॥
12
॥
तुष्टिः
पुष्टिर्धृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी
।
भूतिर्भूतिमतां
सङ्ख्ये
वीक्ष्यसे
सिद्धचारणैः
॥
13
॥ ॥
इति
श्री
अर्जुन
कृत
श्री
दुर्गा
स्तोत्रम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits