हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
गंगा स्तोत्रम्
देवि!
सुरेश्वरि!
भगवति!
गंगे
त्रिभुवनतारिणि
तरलतरंगे
।
शंकरमौलिविहारिणि
विमले
मम
मतिरास्तां
तव
पदकमले
॥
1
॥
भागीरथिसुखदायिनि
मातस्तव
जलमहिमा
निगमे
ख्यातः
।
नाहं
जाने
तव
महिमानं
पाहि
कृपामयि
मामज्ञानम्
॥
2
॥
हरिपदपाद्यतरंगिणि
गंगे
हिमविधुमुक्ताधवलतरंगे
।
दूरीकुरु
मम
दुष्कृतिभारं
कुरु
कृपया
भवसागरपारम्
॥
3
॥
तव
जलममलं
येन
निपीतं
परमपदं
खलु
तेन
गृहीतम्
।
मातर्गंगे
त्वयि
यो
भक्तः
किल
तं
द्रष्टुं
न
यमः
शक्तः
॥
4
॥
पतितोद्धारिणि
जाह्नवि
गंगे
खंडित
गिरिवरमंडित
भंगे
।
भीष्मजननि
हे
मुनिवरकन्ये
पतितनिवारिणि
त्रिभुवन
धन्ये
॥
5
॥
कल्पलतामिव
फलदां
लोके
प्रणमति
यस्त्वां
न
पतति
शोके
।
पारावारविहारिणि
गंगे
विमुखयुवति
कृततरलापांगे
॥
6
॥
तव
चेन्मातः
स्रोतः
स्नातः
पुनरपि
जठरे
सोपि
न
जातः
।
नरकनिवारिणि
जाह्नवि
गंगे
कलुषविनाशिनि
महिमोत्तुंगे
॥
7
॥
पुनरसदंगे
पुण्यतरंगे
जय
जय
जाह्नवि
करुणापांगे
।
इंद्रमुकुटमणिराजितचरणे
सुखदे
शुभदे
भृत्यशरण्ये
॥
8
॥
रोगं
शोकं
तापं
पापं
हर
मे
भगवति
कुमतिकलापम्
।
त्रिभुवनसारे
वसुधाहारे
त्वमसि
गतिर्मम
खलु
संसारे
॥
9
॥
अलकानंदे
परमानंदे
कुरु
करुणामयि
कातरवंद्ये
।
तव
तटनिकटे
यस्य
निवासः
खलु
वैकुंठे
तस्य
निवासः
॥
10
॥
वरमिह
नीरे
कमठो
मीनः
किं
वा
तीरे
शरटः
क्षीणः
।
अथवाश्वपचो
मलिनो
दीनस्तव
न
हि
दूरे
नृपतिकुलीनः
॥
11
॥
भो
भुवनेश्वरि
पुण्ये
धन्ये
देवि
द्रवमयि
मुनिवरकन्ये
।
गंगास्तवमिमममलं
नित्यं
पठति
नरो
यः
स
जयति
सत्यम्
॥
12
॥
येषां
हृदये
गंगा
भक्तिस्तेषां
भवति
सदा
सुखमुक्तिः
।
मधुराकंता
पंझटिकाभिः
परमानंदकलितललिताभिः
॥
13
॥
गंगास्तोत्रमिदं
भवसारं
वांछितफलदं
विमलं
सारम्
।
शंकरसेवक
शंकर
रचितं
पठति
सुखीः
तव
इति
च
समाप्तः
॥
14
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits