हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
बटुक भैरव स्तवराजः
कैलासशिखरासीनं
देवदेवं
जगद्गुरुम्
।
शङ्करं
परिपप्रच्छ
पार्वती
परमेश्वरम्
॥
1
श्रीपार्वत्युवाच
–
भगवन्
सर्वधर्मज्ञ
सर्वशास्त्रागमादिषु
।
आपदुद्धारणं
मन्त्रं
सर्वसिद्धिप्रदं
नृणाम्
॥
2
सर्वेषां
चैव
भूतानां
हितार्थं
वाञ्छितं
मया
।
विशेषतस्तु
राज्ञां
वै
शान्तिपुष्टिप्रसाधनम्
॥
3
अङ्गन्यास
करन्यास
बीजन्यास
समन्वितम्
।
वक्तुमर्हसि
देवेश
मम
हर्षविवर्धनम्
॥
4
श्रीभगवानुवाच
–
शृणु
देवि
महामन्त्रमापदुद्धारहेतुकम्
।
सर्वदुःखप्रशमनं
सर्वशत्रुनिबर्हणम्
॥
5
अपस्मारादिरोगाणां
ज्वरादीनां
विशेषतः
।
नाशनं
स्मृतिमात्रेण
मन्त्रराजमिमं
प्रिये
॥
6
ग्रहराजभयानां
च
नाशनं
सुखवर्धनम्
।
स्नेहाद्वक्ष्यामि
ते
मन्त्रं
सर्वसारमिमं
प्रिये
॥
7
सर्वकामार्थदं
मन्त्रं
राज्यभोगप्रदं
नृणाम्
।
प्रणवं
पूर्वमुच्चार्य
देवी
प्रणवमुद्धरेत्
॥
8
बटुकायेति
वै
पश्चादापदुद्धारणाय
च
।
कुरु
द्वयं
ततः
पश्चाद्बटुकाय
पुनः
क्षिपेत्
॥
9
देवी
प्रणवमुद्धृत्य
मन्त्रराजमिमं
प्रिये
।
मन्त्रोद्धारमिमं
देवि
त्रैलोक्यस्यापि
दुर्लभम्
॥
10
अप्रकाश्यमिमं
मन्त्रं
सर्वशक्तिसमन्वितम्
।
स्मरणादेव
मन्त्रस्य
भूतप्रेतपिशाचकाः
॥
11
विद्रवन्ति
भयार्ता
वै
कालरुद्रादिव
प्रजाः
।
पठेद्वा
पाठयेद्वापि
पूजयेद्वापि
पुस्तकम्
॥
12
नाग्निचौरभयं
वापि
ग्रहराजभयं
तथा
।
न
च
मारीभयं
तस्य
सर्वत्र
सुखवान्
भवेत्
॥
13
आयुरारोग्यमैश्वर्यं
पुत्रपौत्रादिसम्पदः
।
भवन्ति
सततं
तस्य
पुस्तकस्यापि
पूजनात्
॥
14
श्रीपार्वत्युवाच
–
य
एष
भैरवो
नाम
आपदुद्धारको
मतः
।
त्वया
च
कथितो
देव
भैरवः
कल्प
उत्तमः
॥
15
तस्य
नामसहस्राणि
अयुतान्यर्बुदानि
च
।
सारमुद्धृत्य
तेषां
वै
नामाष्टशतकं
वद
॥
16
श्रीभगवानुवाच
–
यस्तु
सङ्कीर्तयेदेतत्
सर्वदुष्टनिबर्हणम्
।
सर्वान्
कामानवाप्नोति
साधकः
सिद्धिमेव
च
॥
17
शृणु
देवि
प्रवक्ष्यामि
भैरवस्य
महात्मनः
।
आपदुद्धारकस्येह
नामाष्टशतमुत्तमम्
॥
18
सर्वपापहरं
पुण्यं
सर्वापद्विनिवारकम्
।
सर्वकामार्थदं
देवि
साधकानां
सुखावहम्
॥
19
देहाङ्गन्यसनं
चैव
पूर्वं
कुर्यात्
समाहितः
।
भैरवं
मूर्ध्नि
विन्यस्य
ललाटे
भीमदर्शनम्
॥
20
अक्ष्णोर्भूताश्रयं
न्यस्य
वदने
तीक्ष्णदर्शनम्
।
क्षेत्रपं
कर्णयोर्मध्ये
क्षेत्रपालं
हृदि
न्यसेत्
॥
21
क्षेत्राख्यं
नाभिदेशे
च
कट्यां
सर्वाघनाशनम्
।
त्रिनेत्रमूर्वोर्विन्यस्य
जङ्घयो
रक्तपाणिकम्
॥
22
पादयोर्देवदेवेशं
सर्वाङ्गे
वटुकं
न्यसेत्
।
एवं
न्यासविधिं
कृत्वा
तदनन्तरमुत्तमम्
॥
23
नामाष्टशतकस्यापि
छन्दोऽनुष्टुबुदाहृतम्
।
बृहदारण्यको
नाम
ऋषिश्च
परिकीर्तितः
॥
24
देवता
कथिता
चेह
सद्भिर्वटुकभैरवः
।
धर्मार्थकाममोक्षेषु
विनियोगः
प्रकीर्तितः
॥
25
अष्टोत्तरशतनाम
स्तोत्रम्
–
ओं
भैरवो
भूतनाथश्च
भूतात्मा
भूतभावनः
।
क्षेत्रदः
क्षेत्रपालश्च
क्षेत्रज्ञः
क्षत्रियो
विराट्
॥
26
श्मशानवासी
मांसाशी
खर्पराशी
मखान्तकृत्
।
रक्तपः
प्राणपः
सिद्धः
सिद्धिदः
सिद्धसेवितः
॥
27
करालः
कालशमनः
कलाकाष्ठातनुः
कविः
।
त्रिनेत्रो
बहुनेत्रश्च
तथा
पिङ्गललोचनः
॥
28
शूलपाणिः
खड्गपाणिः
कङ्काली
धूम्रलोचनः
।
अभीरुर्भैरवो
भीरुर्भूतपो
योगिनीपतिः
॥
29
धनदो
धनहारी
च
धनपः
प्रतिभाववान्
।
नागहारो
नागकेशो
व्योमकेशः
कपालभृत्
॥
30
कालः
कपालमाली
च
कमनीयः
कलानिधिः
।
त्रिलोचनो
ज्वलन्नेत्रस्त्रिशिखी
च
त्रिलोकपात्
॥
31
त्रिवृत्तनयनो
डिम्भः
शान्तः
शान्तजनप्रियः
।
वटुको
वटुकेशश्च
खट्वाङ्गवरधारकः
॥
32
भूताध्यक्षः
पशुपतिर्भिक्षुकः
परिचारकः
।
धूर्तो
दिगम्बरः
सौरिर्हरिणः
पाण्डुलोचनः
॥
33
प्रशान्तः
शान्तिदः
शुद्धः
शङ्करप्रियबान्धवः
।
अष्टमूर्तिर्निधीशश्च
ज्ञानचक्षुस्तमोमयः
॥
34
अष्टाधारः
कलाधारः
सर्पयुक्तः
शशीशिखः
।
भूधरो
भूधराधीशो
भूपतिर्भूधरात्मकः
॥
35
कङ्कालधारी
मुण्डी
च
व्यालयज्ञोपवीतवान्
।
जृम्भणो
मोहनः
स्तम्भी
मारणः
क्षोभणस्तथा
॥
36
शुद्धनीलाञ्जनप्रख्यदेहो
मुण्डविभूषितः
।
बलिभुक्
बलिभूतात्मा
कामी
कामपराक्रमः
॥
37
सर्वापत्तारको
दुर्गो
दुष्टभूतनिषेवितः
।
कामी
कलानिधिः
कान्तः
कामिनीवशकृद्वशी
।
सर्वसिद्धिप्रदो
वैद्यः
प्रभविष्णुः
प्रभाववान्
॥
38
फलश्रुतिः
–
अष्टोत्तरशतं
नाम
भैरवस्य
महात्मनः
।
मया
ते
कथितं
देवि
रहस्यं
सर्वकामिकम्
॥
39
य
इदं
पठति
स्तोत्रम्
नामाष्टशतमुत्तमम्
।
न
तस्य
दुरितं
किञ्चन्न
रोगेभ्यो
भयं
तथा
।
न
शत्रुभ्यो
भयं
किञ्चित्
प्राप्नोति
मानवः
क्वचित्
॥
40
पातकानां
भयं
नैव
पठेत्
स्तोत्रमनन्यधीः
।
मारीभये
राजभये
तथा
चौराग्निजे
भये
॥
41
औत्पातिके
महाघोरे
यथा
दुःस्वप्नदर्शने
।
बन्धने
च
तथा
घोरे
पठेत्
स्तोत्रम्
समाहितः
॥
42
सर्वे
प्रशमनं
यान्ति
भयाद्भैरवकीर्तनात्
।
एकादशसहस्रं
तु
पुरश्चरणमुच्यते
॥
43
त्रिसन्ध्यं
यः
पठेद्देवि
संवत्सरमतन्द्रितः
।
स
सिद्धिं
प्राप्नुयादिष्टां
दुर्लभमपि
मानुषः
॥
44
षण्मासान्
भूमिकामस्तु
स
जप्त्वा
लभते
महीम्
।
राजा
शत्रुविनाशाय
जपेन्मासाष्टकं
पुनः
॥
45
रात्रौ
वारत्रयं
चैव
नाशयत्येव
शात्रवान्
।
जपेन्मासत्रयं
रात्रौ
राजानं
वशमानयेत्
॥
46
धनार्थी
च
सुतार्थी
च
दारार्थी
यस्तु
मानवः
।
पठेद्वारत्रयं
यद्वा
वारमेकं
तथा
निशि
॥
47
धनं
पुत्रांस्तथा
दारान्
प्राप्नुयान्नात्र
संशयः
।
रोगी
रोगात्
प्रमुच्येत
बद्धो
मुच्येत
बन्धनात्
॥
48
भीतो
भयात्
प्रमुच्येत
देवि
सत्यं
न
संशयः
।
यान्
यान्
समी
हते
कामांस्तांस्तानाप्नोति
निश्चितम्
।
अप्रकाश्यमिदं
गुह्यं
न
देयं
यस्य
कस्यचित्
॥
49
सत्कुलीनाय
शान्ताय
ऋजवे
दम्भवर्जिते
।
दद्यात्
स्तोत्रमिदं
पुण्यं
सर्वकामफलप्रदम्
।
ध्यानम्
वक्ष्यामि
देवस्य
यथा
ध्यात्वा
पठेन्नरः
॥
50
ओं
शुद्धस्फटिकसङ्काशं
सहस्रादित्यवर्चसम्
।
अष्टबाहुं
त्रिनयनं
चतुर्बाहुं
द्विबाहुकम्
॥
51
भुजङ्गमेखलं
देवमग्निवर्णशिरोरुहम्
।
दिगम्बरं
कुमारीशं
वटुकाख्यं
महाबलम्
॥
52
खट्वाङ्गमसिपाशं
च
शूलं
चैव
तथा
पुनः
।
डमरुं
च
कपालं
च
वरदं
भुजगं
तथा
॥
53
नीलजीमूतसङ्काशं
नीलाञ्जनचयप्रभम्
।
दंष्ट्राकरालवदनं
नूपुराङ्गदभूषितम्
॥
54
आत्मवर्णसमोपेतसारमेयसमन्वितम्
।
ध्यात्वा
जपेत्
सुसंहृष्टः
सर्वान्
कामानवाप्नुयात्
॥
55
एतच्छ्रुत्वा
ततो
देवी
नामाष्टशतमुत्तमम्
।
भैरवाय
प्रहृष्टाभूत्
स्वयं
चैव
महेश्वरी
॥
56
इति
विश्वसारोद्धारतन्त्रे
आपदुद्धारकल्पे
भैरव
स्तवराजः
समाप्तः
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits