Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

शनिबाधा विमोचन शबरीश्वराष्टकम्

शनिबाधाविनाशाय घोरसन्तापहारिणे ।
काननालयवासाय भूतनाथाय ते नमः ॥ 1 ॥
दारिद्र्यजातान् रोगादीन् बुद्धिमान्द्यादि सङ्कटान् ।
क्षिप्रं नाशय हे देवा शनिबाधाविनाशक ॥ 2 ॥
भूतबाधा महादुःख मध्यवर्तिनमीश माम् ।
पालय त्वं महाबाहो सर्वदुःखविनाशक ॥ 3 ॥
अवाच्यानि महादुःखान्यमेयानि निरन्तरम् ।
सम्भवन्ति दुरन्तानि तानि नाशय मे प्रभो ॥ 4 ॥
मायामोहान्यनन्तानि सर्वाणि करुणाकर ।
दूरीकुरु सदा भक्तहृदयानन्ददायक ॥ 5 ॥
अनेकजन्मसम्भूतान् तापपापान् गुहेश्वर ।
चूर्णीकुरु कृपासिन्धो सिन्धुजाकान्त सन्तते ॥ 6 ॥
उन्मत्तोद्भूतसन्तापाऽगाधकूपाः महेश्वर ।
हस्तावलम्बं दत्त्वा मां रक्ष रक्ष शनैश्चर ॥ 7 ॥
देहि मे बुद्धिवैशिष्ट्यं देहि मे नित्ययौवनम् ।
देहि मे परमानन्दं देव देव जगत्पते ॥ 8 ॥
इति शनिबाधा विमोचन श्री शबरीश्वराष्टकम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits