Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

महाशास्ता अष्टोत्तरशतनामावलिः

ध्यानम् – विप्रारोपितधेनुघातकलुषच्छेदाय पूर्वं महान् सोमारण्यजयन्तिमध्यमगतो ग्रामे मुनिर्गौतमः । चक्रे यज्ञवरं कृपाजलनिधिस्तत्राविरासीत् प्रभुः तस्मै श्रीगुरुमूर्तये नम इदं यो विष्णुशम्भ्वोसुतः ॥ नामावली – रैवताचलशृङ्गाग्रमध्यस्थाय नमो नमः । रत्नादिसोमसम्युक्तशेखराय नमो नमः । चन्द्रसूर्यशिखावाहत्रिणेत्राय नमो नमः । पाशाङ्कुशगदाशूलाभरणाय नमो नमः । मदघूर्णितपूर्णाम्बामानसाय नमो नमः । पुष्कलाहृदयाम्भोजनिवासाय नमो नमः । श्वेतमातङ्गनीलाश्ववाहनाय नमो नमः । रक्तमालाधरस्कन्धप्रदेशाय नमो नमः । वैकुण्ठनाथशम्भ्वोश्च सुसुताय नमो नमः । त्रिकालं वर्तमानानां भाषणाय नमो नमः । 10 महासुरदशकरच्छेदनाय नमो नमः । देवराजसुवाक् तुष्टमानसाय नमो नमः । अभयङ्करमन्त्रार्थस्वरूपाय नमो नमः । जयशब्दमुनिस्तोत्रश्रोत्रियाय नमो नमः । सूर्यकोटिप्रतीकाशसुदेहाय नमो नमः । दण्डनाराचविलसत्कराब्जाय नमो नमः । मन्दाकिनीनदीतीरनिवासाय नमो नमः । मतङ्गोद्यानसञ्चारवैभवाय नमो नमः । सदा सद्भक्तिसन्धातृचरणाय नमो नमः । कृशानुकोणमध्यस्थकृपाङ्गाय नमो नमः । 20 पार्वतीहृदयानन्दभरिताय नमो नमः । शाण्डिल्यमुनिसंस्तुत्यश्यामलाय नमो नमः । विश्वावसुसदासेव्यविभवाय नमो नमः । पञ्चाक्षरीमहामन्त्रपारगाय नमो नमः । प्रभा सत्याभिसम्पूज्यपदाब्जाय नमो नमः । खड्गखेटोरगाम्भोजसुभुजाय नमो नमः । मदत्रयद्रवगजारोहणाय नमो नमः । चिन्तामणिमहापीठमध्यगाय नमो नमः । शिखिपिञ्छजटाबद्धजघनाय नमो नमः । पीताम्बराबद्धकटिप्रदेशाय नमो नमः । 30 विप्राराधनसन्तुष्टविश्रान्ताय नमो नमः । व्योमाग्निमायामूर्धेन्दुसुबीजाय नमो नमः । पुरा कुम्भोद्भवमुनिघोषिताय नमो नमः । वर्गारिषट्कुलामूलविनाशाय नमो नमः । धर्मार्थकाममोक्षश्रीफलदाय नमो नमः । भक्तिप्रदानन्दगुरुपादुकाय नमो नमः । मुक्तिप्रदातृपरमदेशिकाय नमो नमः । परमेष्ठिस्वरूपेण पालकाय नमो नमः । परापरेण पद्मादिदायकाय नमो नमः । मनुलोकैः सदावन्द्य मङ्गलाय नमो नमः । 40 कृते प्रत्यक्षरं लक्षात्कीर्तिदाय नमो नमः । त्रेतायां द्व्यष्टलक्षेण सिद्धिदाय नमो नमः । द्वापरे चाष्टलक्षेण वरदाय नमो नमः । कलौ लक्षचतुष्केन प्रसन्नाय नमो नमः । सहस्रसङ्ख्याजापेन सन्तुष्टाय नमो नमः । यदुद्दिश्य जपः सद्यस्तत्प्रदात्रे नमो नमः । शौनकस्तोत्रसम्प्रीतसुगुणाय नमो नमः । शरणागतभक्तानां सुमित्राय नमो नमः । पाण्योर्गजध्वजं घण्टां बिभ्रते ते नमो नमः । आजानुद्वयसन्दीर्घबाहुकाय नमो नमः । 50 रक्तचन्दनलिप्ताङ्गशोभनाय नमो नमः । कमलासुरजीवापहरणाय नमो नमः । शुद्धचित्तसुभक्तानां रक्षकाय नमो नमः । मार्यादिदुष्टरोगाणां नाशकाय नमो नमः । दुष्टमानुषगर्वापहरणाय नमो नमः । नीलमेघनिभाकारसुदेहाय नमो नमः । पिपीलिकादिब्रह्माण्डवश्यदाय नमो नमः । भूतनाथसदासेव्यपदाब्जाय नमो नमः । महाकालादिसम्पूज्यवरिष्ठाय नमो नमः । व्याघ्रशार्दूल पञ्चास्य वश्यदाय नमो नमः । 60 मधुरानृपसम्मोहसुवेषाय नमो नमः । पाण्ड्यभूपसभारत्नपङ्कजाय नमो नमः । राघवप्रीतशबरीस्वाश्रमाय नमो नमः । पम्पानदीसमीपस्थसदनाय नमो नमः । पन्तलाधिपवन्द्यश्रीपदाब्जाय नमो नमः । भूतभेतालकूष्माण्डोच्चाटनाय नमो नमः । भूपाग्रे वनशार्दूलाकर्षणाय नमो नमः । पाण्ड्येशवंशतिलकस्वरूपाय नमो नमः । पत्रवाणीजरारोगध्वंसनाय नमो नमः । वाण्यै चोदितशार्दूल शिशुदाय नमो नमः । 70 केरलेषु सदा केलिविग्रहाय नमो नमः । आश्रिताखिलवंशाभिवृद्धिदाय नमो नमः । छागास्यराक्षसीपाणिखण्डनाय नमो नमः । सदाज्वलद्घृणीन्यस्तशरणाय नमो नमः । दीप्त्यादिशक्तिनवकैः सेविताय नमो नमः । प्रभूतनामपञ्चास्यपीठस्थाय नमो नमः । प्रमथाकर्षसामर्थ्यदायकाय नमो नमः । षट्पञ्चाशद्देशपतिवश्यदाय नमो नमः । दुर्मुखीनामदैत्यशिरश्छेदाय नमो नमः । टादिभान्तदलैः क्लुप्तपद्मस्थाय नमो नमः । 80 शरच्चन्द्रप्रतीकाशवक्त्राब्जाय नमो नमः । वश्याद्यष्टक्रियाकर्मफलदाय नमो नमः । वनवासादिसुप्रीतवरिष्ठाय नमो नमः । पुरा शचीभयभ्रान्तिप्रणाशाय नमो नमः । सुरेन्द्रप्रार्थिताभीष्टफलदाय नमो नमः । शम्भोर्जटासमुत्पन्नसेविताय नमो नमः । विप्रपूज्यसभामध्यनर्तकाय नमो नमः । जपापुष्पप्रभावोर्ध्वाधरोष्ठाय नमो नमः । साधुसज्जनसन्मार्गरक्षकाय नमो नमः । मध्वाज्यकुलवत्स्वादुवचनाय नमो नमः । 90 रक्तसैकतशैलाघक्षेत्रस्थाय नमो नमः । केतकीवनमध्यस्थकुमाराय नमो नमः । गोहत्तिपापशमनचतुराय नमो नमः । स्वपूजनात् पापमुक्तगौतमाय नमो नमः । उदीच्याचलवारीशग्रामरक्षाय ते नमः । गौतमीसलिलस्नानसन्तुष्टाय नमो नमः । सोमारण्यजयन्ताख्यक्षेत्रमध्याय ते नमः । गौतमाख्यमुनिश्रेष्ठयागप्रार्च्याय ते नमः । कृत्तिकर्क्षोद्भवग्रामप्रवेशाय नमो नमः । कृत्तिकर्क्षोद्भवग्रामक्लेशनाशाय ते नमः । 100 कृत्तिकर्क्षोद्भवग्रामपालनाय नमो नमः । सदाध्यायिभरद्वाजपूजिताय नमो नमः । कश्यपादिमुनीन्द्राणां तपोदेशाय ते नमः । जन्ममृत्युजरातप्तजनशान्तिकृते नमः । भक्तजनमनः क्लेशमर्दनाय नमो नमः । आयुर्यशः श्रियं प्रज्ञां पुत्रान् देहि नमो नमः । रेवन्तजृम्भिन् एह्येहि प्रसादं कुरु मे नमः । ब्रह्मविष्णुशिवात्मैक्यस्वरूपाय नमो नमः । 108 इति श्रीमहाशास्तृ अष्टोत्तरशतनामावली ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits