Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

अय्यप्प सहस्रनामावली

ओं शिवपुत्राय नमः ओं महातेजसे नमः ओं शिवकार्यधुरन्धराय नमः ओं शिवप्रदाय नमः ओं शिवज्ञानिने नमः ओं शैवधर्मसुरक्षकाय नमः ओं शङ्खधारिणे नमः ओं सुराध्यक्षाय नमः ओं चन्द्रमौलये नमः ओं सुरोत्तमाय नमः ओं कामेशाय नमः ओं कामतेजस्विने नमः ओं कामादिफलसम्युताय नमः ओं कल्याणाय नमः ओं कोमलाङ्गाय नमः ओं कल्याणफलदायकाय नमः ओं करुणाब्धये नमः ओं कर्मदक्षाय नमः ओं करुणारससागराय नमः ओं जगत्प्रियाय नमः 20 ओं जगद्रक्षाय नमः ओं जगदानन्ददायकाय नमः ओं जयादिशक्तिसंसेव्याय नमः ओं जनाह्लादाय नमः ओं जिगीषुकाय नमः ओं जितेन्द्रियाय नमः ओं जितक्रोधाय नमः ओं जितदेवारिसङ्घकाय नमः ओं जैमिन्यादृषिसंसेव्याय नमः ओं जरामरणनाशकाय नमः ओं जनार्दनसुताय नमः ओं ज्येष्ठाय नमः ओं ज्येष्ठादिगणसेविताय नमः ओं जन्महीनाय नमः ओं जितामित्राय नमः ओं जनकेनाभिपूजिताय नमः ओं परमेष्ठिने नमः ओं पशुपतये नमः ओं पङ्कजासनपूजिताय नमः ओं पुरहन्त्रे नमः 40 ओं पुरत्रात्रे नमः ओं परमैश्वर्यदायकाय नमः ओं पवनादिसुरैः सेव्याय नमः ओं पञ्चब्रह्मपरायणाय नमः ओं पार्वतीतनयाय नमः ओं ब्रह्मणे नमः ओं परानन्दाय नमः ओं परात्पराय नमः ओं ब्रह्मिष्ठाय नमः ओं ज्ञाननिरताय नमः ओं गुणागुणनिरूपकाय नमः ओं गुणाध्यक्षाय नमः ओं गुणनिधये नमः ओं गोपालेनाभिपुजिताय नमः ओं गोरक्षकाय नमः ओं गोधनदाय नमः ओं गजारूढाय नमः ओं गजप्रियाय नमः ओं गजग्रीवाय नमः ओं गजस्कन्धाय नमः 60 ओं गभस्तये नमः ओं गोपतये नमः ओं प्रभवे नमः ओं ग्रामपालाय नमः ओं गजाध्यक्षाय नमः ओं दिग्गजेनाभिपूजिताय नमः ओं गणाध्यक्षाय नमः ओं गणपतये नमः ओं गवां पतये नमः ओं अहर्पतये नमः ओं जटाधराय नमः ओं जलनिभाय नमः ओं जैमिन्यैरभिपूजिताय नमः ओं जलन्धरनिहन्त्रे नमः ओं शोणाक्षाय नमः ओं शोणवासकाय नमः ओं सुराधिपाय नमः ओं शोकहन्त्रे नमः ओं शोभाक्षाय नमः ओं सूर्यतेजसाय नमः 80 ओं सुरार्चिताय नमः ओं सुरैर्वन्द्याय नमः ओं शोणाङ्गाय नमः ओं शाल्मलीपतये नमः ओं सुज्योतिषे नमः ओं शरवीरघ्नाय नमः ओं शरच्चन्द्रनिभाननाय नमः ओं सनकादिमुनिध्येयाय नमः ओं सर्वज्ञानप्रदाय नमः ओं विभवे नमः ओं हलायुधाय नमः ओं हंसनिभाय नमः ओं हाहाहूहूमुखस्तुताय नमः ओं हरये नमः ओं हरप्रियाय नमः ओं हंसाय नमः ओं हर्यक्षासनतत्पराय नमः ओं पावनाय नमः ओं पावकनिभाय नमः ओं भक्तपापविनाशनाय नमः 100 ओं भसिताङ्गाय नमः ओं भयत्रात्रे नमः ओं भानुमते नमः ओं भयनाशनाय नमः ओं त्रिपुण्ड्रकाय नमः ओं त्रिनयनाय नमः ओं त्रिपुण्ड्राङ्कितमस्तकाय नमः ओं त्रिपुरघ्नाय नमः ओं देववराय नमः ओं देवारिकुलनाशकाय नमः ओं देवसेनाधिपाय नमः ओं तेजसे नमः ओं तेजोराशये नमः ओं दशाननाय नमः ओं दारुणाय नमः ओं दोषहन्त्रे नमः ओं दोर्दण्डाय नमः ओं दण्डनायकाय नमः ओं धनुष्पाणये नमः ओं धराध्यक्षाय नमः 120 ओं धनिकाय नमः ओं धर्मवत्सलाय नमः ओं धर्मज्ञाय नमः ओं धर्मनिरताय नमः ओं धनुः शास्त्रपरायणाय नमः ओं स्थूलकर्णाय नमः ओं स्थूलतनवे नमः ओं स्थूलाक्षाय नमः ओं स्थूलबाहुकाय नमः ओं तनूत्तमाय नमः ओं तनुत्राणाय नमः ओं तारकाय नमः ओं तेजसां पतये नमः ओं योगीश्वराय नमः ओं योगनिधये नमः ओं योगीशाय नमः ओं योगसंस्थिताय नमः ओं मन्दारवाटिकामत्ताय नमः ओं मलयाचलवासभुवे नमः ओं मन्दारकुसुमप्रख्याय नमः 140 ओं मन्दमारुतसेविताय नमः ओं महाभासाय नमः ओं महावक्षसे नमः ओं मनोहरमदार्चिताय नमः ओं महोन्नताय नमः ओं महाकायाय नमः ओं महानेत्राय नमः ओं महाहनवे नमः ओं मरुत्पूज्याय नमः ओं मानधनाय नमः ओं मोहनाय नमः ओं मोक्षदायकाय नमः ओं मित्राय नमः ओं मेधायै नमः ओं महौजस्विने नमः ओं महावर्षप्रदायकाय नमः ओं भाषकाय नमः ओं भाष्यशास्त्रज्ञाय नमः ओं भानुमते नमः ओं भानुतेजसे नमः 160 ओं भिषजे नमः ओं भवानिपुत्राय नमः ओं भवतारणकारणाय नमः ओं नीलाम्बराय नमः ओं नीलनिभाय नमः ओं नीलग्रीवाय नमः ओं निरञ्जनाय नमः ओं नेत्रत्रयाय नमः ओं निषादज्ञाय नमः ओं नानारत्नोपशोभिताय नमः ओं रत्नप्रभाय नमः ओं रमापुत्राय नमः ओं रमया परितोषिताय नमः ओं राजसेव्याय नमः ओं राजधनाय नमः ओं रणदोर्दण्डमण्डिताय नमः ओं रमणाय नमः ओं रेणुका सेव्याय नमः ओं रजनीचरदारणाय नमः ओं ईशानाय नमः 180 ओं इभराट् सेव्याय नमः ओं ईषणात्रयनाशनाय नमः ओं इडावासाय नमः ओं हेमनिभाय नमः ओं हैमप्राकारशोभिताय नमः ओं हयप्रियाय नमः ओं हयग्रीवाय नमः ओं हंसाय नमः ओं हरिहरात्मजाय नमः ओं हाटकस्फटिकप्रख्याय नमः ओं हंसारूढेन सेविताय नमः ओं वनवासाय नमः ओं वनाध्यक्षाय नमः ओं वामदेवाय नमः ओं वराननाय नमः ओं वैवस्वतपतये नमः ओं विष्णवे नमः ओं विराड्रूपाय नमः ओं विशां पतये नमः ओं वेणुनादाय नमः 200 ओं वरग्रीवाय नमः ओं वराभयकरान्विताय नमः ओं वर्चस्विने नमः ओं विपुलग्रीवाय नमः ओं विपुलाक्षाय नमः ओं विनोदवते नमः ओं वैणवारण्यवासाय नमः ओं वामदेवेनसेविताय नमः ओं वेत्रहस्ताय नमः ओं वेदनिधये नमः ओं वंशदेवाय नमः ओं वराङ्गकाय नमः ओं ह्रीङ्काराय नमः ओं ह्रींमनसे नमः ओं हृष्टाय नमः ओं हिरण्याय नमः ओं हेमसम्भवाय नमः ओं हुताशाय नमः ओं हुतनिष्पन्नाय नमः ओं हुङ्काराकृतये नमः 220 ओं सुप्रभवे नमः ओं हव्यवाहाय नमः ओं हव्यकराय नमः ओं अट्‍टहासाय नमः ओं अपराहताय नमः ओं अणुरूपाय नमः ओं रूपकराय नमः ओं अजराय नमः ओं अतनुरूपकाय नमः ओं हंसमन्त्राय नमः ओं हुतभुजे नमः ओं हेमाम्बराय नमः ओं सुलक्षणाय नमः ओं नीपप्रियाय नमः ओं नीलवाससे नमः ओं निधिपालाय नमः ओं निरातपाय नमः ओं क्रोडहस्ताय नमः ओं तपस्त्रात्रे नमः ओं तपोरक्षाय नमः 240 ओं तपाह्वयाय नमः ओं मूर्धाभिषिक्ताय नमः ओं मानिने नमः ओं मन्त्ररूपाय नमः ओं मृडाय नमः ओं मनवे नमः ओं मेधाविने नमः ओं मेधसाय नमः ओं मुष्णवे नमः ओं मकराय नमः ओं मकरालयाय नमः ओं मार्ताण्डाय नमः ओं मञ्जुकेशाय नमः ओं मासपालाय नमः ओं महौषधये नमः ओं श्रोत्रियाय नमः ओं शोभमानाय नमः ओं सवित्रे नमः ओं सर्वदेशिकाय नमः ओं चन्द्रहासाय नमः 260 ओं शमाय नमः ओं शक्ताय नमः ओं शशिभासाय नमः ओं शमाधिकाय नमः ओं सुदन्ताय नमः ओं सुकपोलाय नमः ओं षड्वर्णाय नमः ओं सम्पदोऽधिपाय नमः ओं गरलाय नमः ओं कालकण्ठाय नमः ओं गोनेत्रे नमः ओं गोमुखप्रभवे नमः ओं कौशिकाय नमः ओं कालदेवाय नमः ओं क्रोशकाय नमः ओं क्रौञ्चभेदकाय नमः ओं क्रियाकराय नमः ओं कृपालवे नमः ओं करवीरकरेरुहाय नमः ओं कन्दर्पदर्पहारिणे नमः 280 ओं कामदात्रे नमः ओं कपालकाय नमः ओं कैलासवासाय नमः ओं वरदाय नमः ओं विरोचनाय नमः ओं विभावसवे नमः ओं बभ्रुवाहाय नमः ओं बलाध्यक्षाय नमः ओं फणामणिविभूषणाय नमः ओं सुन्दराय नमः ओं सुमुखाय नमः ओं स्वच्छाय नमः ओं सभासदे नमः ओं सभाकराय नमः ओं शरानिवृत्ताय नमः ओं शक्राप्ताय नमः ओं शरणागतपालकाय नमः ओं तीक्ष्णदंष्ट्राय नमः ओं दीर्घजिह्वाय नमः ओं पिङ्गलाक्षाय नमः 300 ओं पिशाचघ्ने नमः ओं अभेद्याय नमः ओं अङ्गदार्ढ्याय नमः ओं भोजपालाय नमः ओं भूपतये नमः ओं गृध्रनासाय नमः ओं अविषह्याय नमः ओं दिग्देहाय नमः ओं दैन्यदाहकाय नमः ओं बडबापूरितमुखाय नमः ओं व्यापकाय नमः ओं विषमोचकाय नमः ओं हसन्ताय नमः ओं समरक्रुद्धाय नमः ओं पुङ्गवाय नमः ओं पङ्कजासनाय नमः ओं विश्वदर्पाय नमः ओं निश्चिताज्ञाय नमः ओं नागाभरणभूषिताय नमः ओं भरताय नमः 320 ओं भैरवाकाराय नमः ओं भरणाय नमः ओं वामनक्रियाय नमः ओं सिंहास्याय नमः ओं सिंहरूपाय नमः ओं सेनापतये नमः ओं सकारकाय नमः ओं सनातनाय नमः ओं सिद्धरूपिणे नमः ओं सिद्धधर्मपरायणाय नमः ओं आदित्यरूपाय नमः ओं आपद्घ्नाय नमः ओं अमृताब्धिनिवासभुवे नमः ओं युवराजाय नमः ओं योगिवर्याय नमः ओं उषस्तेजसे नमः ओं उडुप्रभाय नमः ओं देवादिदेवाय नमः ओं दैवज्ञाय नमः ओं ताम्रोष्ठाय नमः 340 ओं ताम्रलोचनाय नमः ओं पिङ्गलाक्षाय नमः ओं पिञ्छचूडाय नमः ओं फणामणिविभूषिताय नमः ओं भुजङ्गभूषणाय नमः ओं भोगाय नमः ओं भोगानन्दकराय नमः ओं अव्ययाय नमः ओं पञ्चहस्तेन सम्पूज्याय नमः ओं पञ्चबाणेन सेविताय नमः ओं भवाय नमः ओं शर्वाय नमः ओं भानुमयाय नमः ओं प्राजापत्यस्वरूपकाय नमः ओं स्वच्छन्दाय नमः ओं छन्दः शास्त्रज्ञाय नमः ओं दान्ताय नमः ओं देवमनुप्रभवे नमः ओं दशभुजे नमः ओं दशाध्यक्षाय नमः 360 ओं दानवानां विनाशनाय नमः ओं सहस्राक्षाय नमः ओं शरोत्पन्नाय नमः ओं शतानन्दसमागमाय नमः ओं गृध्राद्रिवासाय नमः ओं गम्भीराय नमः ओं गन्धग्राहाय नमः ओं गणेश्वराय नमः ओं गोमेधाय नमः ओं गण्डकावासाय नमः ओं गोकुलैः परिवारिताय नमः ओं परिवेषाय नमः ओं पदज्ञानिने नमः ओं प्रियङ्गुद्रुमवासकाय नमः ओं गुहावासाय नमः ओं गुरुवराय नमः ओं वन्दनीयाय नमः ओं वदान्यकाय नमः ओं वृत्ताकाराय नमः ओं वेणुपाणये नमः 380 ओं वीणादण्डधराय नमः ओं हराय नमः ओं हैमीड्याय नमः ओं होतृसुभगाय नमः ओं हौत्रज्ञाय नमः ओं ओजसां पतये नमः ओं पवमानाय नमः ओं प्रजातन्तुप्रदाय नमः ओं दण्डविनाशनाय नमः ओं निमीड्याय नमः ओं निमिषार्धज्ञाय नमः ओं निमिषाकारकारणाय नमः ओं लिगुडाभाय नमः ओं लिडाकाराय नमः ओं लक्ष्मीवन्द्याय नमः ओं वरप्रभवे नमः ओं इडाज्ञाय नमः ओं पिङ्गलावासाय नमः ओं सुषुम्नामध्यसम्भवाय नमः ओं भिक्षाटनाय नमः 400 ओं भीमवर्चसे नमः ओं वरकीर्तये नमः ओं सभेश्वराय नमः ओं वाचातीताय नमः ओं वरनिधये नमः ओं परिवेत्रे नमः ओं प्रमाणकाय नमः ओं अप्रमेयाय नमः ओं अनिरुद्धाय नमः ओं अनन्तादित्यसुप्रभाय नमः ओं वेषप्रियाय नमः ओं विषग्राहाय नमः ओं वरदानकरोत्तमाय नमः ओं विपिनाय नमः ओं वेदसाराय नमः ओं वेदान्तैः परितोषिताय नमः ओं वक्रागमाय नमः ओं वर्चवचाय नमः ओं बलदात्रे नमः ओं विमानवते नमः 420 ओं वज्रकान्ताय नमः ओं वंशकराय नमः ओं वटुरक्षाविशारदाय नमः ओं वप्रक्रीडाय नमः ओं विप्रपूज्याय नमः ओं वेलाराशये नमः ओं चलालकाय नमः ओं कोलाहलाय नमः ओं क्रोडनेत्राय नमः ओं क्रोडास्याय नमः ओं कपालभृते नमः ओं कुञ्जरेड्याय नमः ओं मञ्जुवाससे नमः ओं क्रियमाणाय नमः ओं क्रियाप्रदाय नमः ओं क्रीडानाथाय नमः ओं कीलहस्ताय नमः ओं क्रोशमानाय नमः ओं बलाधिकाय नमः ओं कनकाय नमः 440 ओं होतृभागिने नमः ओं खवासाय नमः ओं खचराय नमः ओं खगाय नमः ओं गणकाय नमः ओं गुणनिर्दुष्टाय नमः ओं गुणत्यागिने नमः ओं कुशाधिपाय नमः ओं पाटलाय नमः ओं पत्रधारिणे नमः ओं पलाशाय नमः ओं पुत्रवर्धनाय नमः ओं पितृसच्चरिताय नमः ओं प्रेष्ठवे नमः ओं पापभस्मने नमः ओं पुनः शुचये नमः ओं फालनेत्राय नमः ओं फुल्लकेशाय नमः ओं फुल्लकल्हारभूषिताय नमः ओं फणिसेव्याय नमः 460 ओं पट्‍टभद्राय नमः ओं पटवे नमः ओं वाग्मिने नमः ओं वयोऽधिकाय नमः ओं चोरनाट्याय नमः ओं चोरवेषाय नमः ओं चोरघ्नाय नमः ओं चौर्यवर्धनाय नमः ओं चञ्चलाक्षाय नमः ओं चामरकाय नमः ओं मरीचये नमः ओं मदगामिकाय नमः ओं मृडाभाय नमः ओं मेषवाहाय नमः ओं मैथिल्याय नमः ओं मोचकाय नमः ओं मनसे नमः ओं मनुरूपाय नमः ओं मन्त्रदेवाय नमः ओं मन्त्रराशये नमः 480 ओं महादृढाय नमः ओं स्थूपिज्ञाय नमः ओं धनदात्रे नमः ओं देववन्द्याय नमः ओं तारणाय नमः ओं यज्ञप्रियाय नमः ओं यमाध्यक्षाय नमः ओं इभक्रीडाय नमः ओं इभेक्षणाय नमः ओं दधिप्रियाय नमः ओं दुराधर्षाय नमः ओं दारुपालाय नमः ओं दनूजघ्ने नमः ओं दामोदराय नमः ओं दामधराय नमः ओं दक्षिणामूर्तिरूपकाय नमः ओं शचीपूज्याय नमः ओं शङ्खकर्णाय नमः ओं चन्द्रचूडाय नमः ओं मनुप्रियाय नमः 500 ओं गुडरूपाय नमः ओं गुडाकेशाय नमः ओं कुलधर्मपरायणाय नमः ओं कालकण्ठाय नमः ओं गाढगात्राय नमः ओं गोत्ररूपाय नमः ओं कुलेश्वराय नमः ओं आनन्दभैरवाराध्याय नमः ओं हयमेधफलप्रदाय नमः ओं दध्यन्नासक्तहृदयाय नमः ओं गुडान्नप्रीतमानसाय नमः ओं घृतान्नासक्तहृदयाय नमः ओं गौराङ्गाय नमः ओं गर्वभञ्जकाय नमः ओं गणेशपूज्याय नमः ओं गगनाय नमः ओं गणानां पतये नमः ओं ऊर्जिताय नमः ओं छद्महीनाय नमः ओं शशिरदाय नमः 520 ओं शत्रूणां पतये नमः ओं अङ्गिरसे नमः ओं चराचरमयाय नमः ओं शान्ताय नमः ओं शरभेशाय नमः ओं शतातपाय नमः ओं वीराराध्याय नमः ओं वक्रगमाय नमः ओं वेदाङ्गाय नमः ओं वेदपारगाय नमः ओं पर्वतारोहणाय नमः ओं पूष्णे नमः ओं परमेशाय नमः ओं प्रजापतये नमः ओं भावज्ञाय नमः ओं भवरोगघ्नाय नमः ओं भवसागरतारणाय नमः ओं चिदग्निदेहाय नमः ओं चिद्रूपाय नमः ओं चिदानन्दाय नमः 540 ओं चिदाकृतये नमः ओं नाट्यप्रियाय नमः ओं नरपतये नमः ओं नरनारायणार्चिताय नमः ओं निषादराजाय नमः ओं नीहाराय नमः ओं नेष्ट्रे नमः ओं निष्ठुरभाषणाय नमः ओं निम्नप्रियाय नमः ओं नीलनेत्राय नमः ओं नीलाङ्गाय नमः ओं नीलकेशकाय नमः ओं सिंहाक्षाय नमः ओं सर्वविघ्नेशाय नमः ओं सामवेदपरायणाय नमः ओं सनकादिमुनिध्येयाय नमः ओं शर्वरीशाय नमः ओं षडाननाय नमः ओं सुरूपाय नमः ओं सुलभाय नमः 560 ओं स्वर्गाय नमः ओं शचीनाथेन पूजिताय नमः ओं काकिनाय नमः ओं कामदहनाय नमः ओं दग्धपापाय नमः ओं धराधिपाय नमः ओं दामग्रन्थिने नमः ओं शतस्त्रीशाय नमः ओं तन्त्रीपालाय नमः ओं तारकाय नमः ओं ताम्राक्षाय नमः ओं तीक्ष्णदंष्ट्राय नमः ओं तिलभोज्याय नमः ओं तिलोदराय नमः ओं माण्डुकर्णाय नमः ओं मृडाधीशाय नमः ओं मेरुवर्णाय नमः ओं महोदराय नमः ओं मार्ताण्डभैरवाराध्याय नमः ओं मणिरूपाय नमः 580 ओं मरुद्वहाय नमः ओं माषप्रियाय नमः ओं मधुपानाय नमः ओं मृणालाय नमः ओं मोहिनीपतये नमः ओं महाकामेशतनयाय नमः ओं माधवाय नमः ओं मदगर्विताय नमः ओं मूलाधाराम्बुजावासाय नमः ओं मूलविद्यास्वरूपकाय नमः ओं स्वाधिष्ठानमयाय नमः ओं स्वस्थाय नमः ओं स्वस्तिवाक्याय नमः ओं स्रुवायुधाय नमः ओं मणिपूराब्जनिलयाय नमः ओं महाभैरवपूजिताय नमः ओं अनाहताब्जरसिकाय नमः ओं ह्रीङ्काररसपेशलाय नमः ओं भ्रूमध्यवासाय नमः ओं भ्रूकान्ताय नमः 600 ओं भरद्वाजप्रपूजिताय नमः ओं सहस्राराम्बुजावासाय नमः ओं सवित्रे नमः ओं सामवाचकाय नमः ओं मुकुन्दाय नमः ओं गुणातीताय नमः ओं गुणपूज्याय नमः ओं गुणाश्रयाय नमः ओं धन्याय नमः ओं धनभृते नमः ओं दाहाय नमः ओं धनदानकराम्बुजाय नमः ओं महाशयाय नमः ओं महातीताय नमः ओं मायाहीनाय नमः ओं मदार्चिताय नमः ओं माठराय नमः ओं मोक्षफलदाय नमः ओं सद्वैरिकुलनाशनाय नमः ओं पिङ्गलाय नमः 620 ओं पिञ्छचूडाय नमः ओं पिशिताशपवित्रकाय नमः ओं पायसान्नप्रियाय नमः ओं पर्वपक्षमासविभाजकाय नमः ओं वज्रभूषाय नमः ओं वज्रकायाय नमः ओं विरिञ्चाय नमः ओं वरवक्षणाय नमः ओं विज्ञानकलिकाबृन्दाय नमः ओं विश्वरूपप्रदर्शकाय नमः ओं डम्भघ्नाय नमः ओं दमघोषघ्नाय नमः ओं दासपालाय नमः ओं तपौजसाय नमः ओं द्रोणकुम्भाभिषिक्ताय नमः ओं द्रोहिनाशाय नमः ओं तपातुराय नमः ओं महावीरेन्द्रवरदाय नमः ओं महासंसारनाशनाय नमः ओं लाकिनीहाकिनीलब्धाय नमः 640 ओं लवणाम्भोधितारणाय नमः ओं काकिलाय नमः ओं कालपाशघ्नाय नमः ओं कर्मबन्धविमोचकाय नमः ओं मोचकाय नमः ओं मोहनिर्भिन्नाय नमः ओं भगाराध्याय नमः ओं बृहत्तनवे नमः ओं अक्षयाय नमः ओं अक्रूरवरदाय नमः ओं वक्रागमविनाशनाय नमः ओं डाकिनाय नमः ओं सूर्यतेजस्विने नमः ओं सर्पभूषाय नमः ओं सद्गुरवे नमः ओं स्वतन्त्राय नमः ओं सर्वतन्त्रेशाय नमः ओं दक्षिणादिगधीश्वराय नमः ओं सच्चिदानन्दकलिकाय नमः ओं प्रेमरूपाय नमः 660 ओं प्रियङ्कराय नमः ओं मिथ्याजगदधिष्ठानाय नमः ओं मुक्तिदाय नमः ओं मुक्तिरूपकाय नमः ओं मुमुक्षवे नमः ओं कर्मफलदाय नमः ओं मार्गदक्षाय नमः ओं कर्मठाय नमः ओं महाबुद्धाय नमः ओं महाशुद्धाय नमः ओं शुकवर्णाय नमः ओं शुकप्रियाय नमः ओं सोमप्रियाय नमः ओं स्वरप्रीताय नमः ओं पर्वाराधनतत्पराय नमः ओं अजपाय नमः ओं जनहंसाय नमः ओं हलपाणिप्रपूजिताय नमः ओं अर्चिताय नमः ओं वर्धनाय नमः 680 ओं वाग्मिने नमः ओं वीरवेषाय नमः ओं विधुप्रियाय नमः ओं लास्यप्रियाय नमः ओं लयकराय नमः ओं लाभालाभविवर्जिताय नमः ओं पञ्चाननाय नमः ओं पञ्चगूढाय नमः ओं पञ्चयज्ञफलप्रदाय नमः ओं पाशहस्ताय नमः ओं पावकेशाय नमः ओं पर्जन्यसमगर्जनाय नमः ओं पापारये नमः ओं परमोदाराय नमः ओं प्रजेशाय नमः ओं पङ्कनाशनाय नमः ओं नष्टकर्मणे नमः ओं नष्टवैराय नमः ओं इष्टसिद्धिप्रदायकाय नमः ओं नागाधीशाय नमः 700 ओं नष्टपापाय नमः ओं इष्टनामविधायकाय नमः ओं सामरस्याय नमः ओं अप्रमेयाय नमः ओं पाषण्डिने नमः ओं पर्वतप्रियाय नमः ओं पञ्चकृत्यपराय नमः ओं पात्रे नमः ओं पञ्चपञ्चातिशायिकाय नमः ओं पद्माक्षाय नमः ओं पद्मवदनाय नमः ओं पावकाभाय नमः ओं प्रियङ्कराय नमः ओं कार्तस्वराङ्गाय नमः ओं गौराङ्गाय नमः ओं गौरीपुत्राय नमः ओं धनेश्वराय नमः ओं गणेशाश्लिष्टदेहाय नमः ओं शीतांशवे नमः ओं शुभदीधितये नमः 720 ओं दक्षध्वंसाय नमः ओं दक्षकराय नमः ओं वराय नमः ओं कात्यायनीसुताय नमः ओं सुमुखाय नमः ओं मार्गणाय नमः ओं गर्भाय नमः ओं गर्वभङ्गाय नमः ओं कुशासनाय नमः ओं कुलपालपतये नमः ओं श्रेष्ठाय नमः ओं पवमानाय नमः ओं प्रजाधिपाय नमः ओं दर्शप्रियाय नमः ओं निर्विकाराय नमः ओं दीर्घकायाय नमः ओं दिवाकराय नमः ओं भेरीनादप्रियाय नमः ओं बृन्दाय नमः ओं बृहत्सेनाय नमः 740 ओं सुपालकाय नमः ओं सुब्रह्मणे नमः ओं ब्रह्मरसिकाय नमः ओं रसज्ञाय नमः ओं रजताद्रिभासे नमः ओं तिमिरघ्नाय नमः ओं मिहिराभाय नमः ओं महानीलसमप्रभाय नमः ओं श्रीचन्दनविलिप्ताङ्गाय नमः ओं श्रीपुत्राय नमः ओं श्रीतरुप्रियाय नमः ओं लाक्षावर्णाय नमः ओं लसत्कर्णाय नमः ओं रजनीध्वंसिसन्निभाय नमः ओं बिन्दुप्रियाय नमः ओं अम्बिकापुत्राय नमः ओं बैन्दवाय नमः ओं बलनायकाय नमः ओं आपन्नतारकाय नमः ओं तप्ताय नमः 760 ओं तप्तकृच्छ्रफलप्रदाय नमः ओं मरुद्वृधाय नमः ओं महाखर्वाय नमः ओं चीरवासाय नमः ओं शिखिप्रियाय नमः ओं आयुष्मते नमः ओं अनघाय नमः ओं दूताय नमः ओं आयुर्वेदपरायणाय नमः ओं हंसाय नमः ओं परमहंसाय नमः ओं अवधूताश्रमप्रियाय नमः ओं आशुवेगाय नमः ओं अश्वहृदयाय नमः ओं हयधैर्यफलप्रदाय नमः ओं सुमुखाय नमः ओं दुर्मुखाय नमः ओं अविघ्नाय नमः ओं निर्विघ्नाय नमः ओं विघ्ननाशनाय नमः 780 ओं आर्याय नमः ओं नाथाय नमः ओं अर्यमाभासाय नमः ओं फल्गुणाय नमः ओं फाललोचनाय नमः ओं अरातिघ्नाय नमः ओं घनग्रीवाय नमः ओं ग्रीष्मसूर्यसमप्रभाय नमः ओं किरीटिने नमः ओं कल्पशास्त्रज्ञाय नमः ओं कल्पानलविधायकाय नमः ओं ज्ञानविज्ञानफलदाय नमः ओं विरिञ्चारिविनाशनाय नमः ओं वीरमार्ताण्डवरदाय नमः ओं वीरबाहवे नमः ओं पूर्वजाय नमः ओं वीरसिंहासनाय नमः ओं विज्ञाय नमः ओं वीरकार्याय नमः ओं अस्तदानवाय नमः 800 ओं नरवीरसुहृद्भ्रात्रे नमः ओं नागरत्नविभूषिताय नमः ओं वाचस्पतये नमः ओं पुरारातये नमः ओं संवर्ताय नमः ओं समरेश्वराय नमः ओं उरुवाग्मिने नमः ओं उमापुत्राय नमः ओं उडुलोकसुरक्षकाय नमः ओं शृङ्गाररससम्पूर्णाय नमः ओं सिन्दूरतिलकाङ्किताय नमः ओं कुङ्कुमाङ्कितसर्वाङ्गाय नमः ओं कालकेयविनाशनाय नमः ओं मत्तनागप्रियाय नमः ओं नेत्रे नमः ओं नागगन्धर्वपूजिताय नमः ओं सुस्वप्नबोधकाय नमः ओं बोधाय नमः ओं गौरीदुःस्वप्ननाशनाय नमः ओं चिन्ताराशिपरिध्वंसिने नमः 820 ओं चिन्तामणिविभूषिताय नमः ओं चराचरजगत्स्रष्ट्रे नमः ओं चलत्कुण्डलकर्णयुजे नमः ओं मुकुरास्याय नमः ओं मूलनिधये नमः ओं निधिद्वयनिषेविताय नमः ओं नीराजनप्रीतमनसे नमः ओं नीलनेत्राय नमः ओं नयप्रदाय नमः ओं केदारेशाय नमः ओं किराताय नमः ओं कालात्मने नमः ओं कल्पविग्रहाय नमः ओं कल्पान्तभैरवाराध्याय नमः ओं काकपत्रशरायुधाय नमः ओं कलाकाष्ठास्वरूपाय नमः ओं ऋतुवर्षादिमासवते नमः ओं दिनेशमण्डलावासाय नमः ओं वासवादिप्रपूजिताय नमः ओं बहुलस्तम्बकर्मज्ञाय नमः 840 ओं पञ्चाशद्वर्णरूपकाय नमः ओं चिन्ताहीनाय नमः ओं चिदाक्रान्ताय नमः ओं चारुपालाय नमः ओं हलायुधाय नमः ओं बन्धूककुसुमप्रख्याय नमः ओं परगर्वविभञ्जनाय नमः ओं विद्वत्तमाय नमः ओं विराधघ्नाय नमः ओं सचित्राय नमः ओं चित्रकर्मकाय नमः ओं सङ्गीतलोलुपमनसे नमः ओं स्निग्धगम्भीरगर्जिताय नमः ओं तुङ्गवक्त्राय नमः ओं स्तवरसाय नमः ओं अभ्राभाय नमः ओं भ्रमरेक्षणाय नमः ओं लीलाकमलहस्ताब्जाय नमः ओं बालकुन्दविभूषिताय नमः ओं लोध्रप्रसवशुद्धाभाय नमः 860 ओं शिरीषकुसुमप्रियाय नमः ओं त्रासत्राणकराय नमः ओं तत्त्वाय नमः ओं तत्त्ववाक्यार्थबोधकाय नमः ओं वर्षीयसे नमः ओं विधिस्तुत्याय नमः ओं वेदान्तप्रतिपादकाय नमः ओं मूलभूताय नमः ओं मूलतत्त्वाय नमः ओं मूलकारणविग्रहाय नमः ओं आदिनाथाय नमः ओं अक्षयफलपाणये नमः ओं जन्मापराजिताय नमः ओं गानप्रियाय नमः ओं गानलोलाय नमः ओं महेशाय नमः ओं विज्ञमानसाय नमः ओं गिरिजास्तन्यरसिकाय नमः ओं गिरिराजवरस्तुताय नमः ओं पीयूषकुम्भहस्ताब्जाय नमः 880 ओं पाशत्यागिने नमः ओं चिरन्तनाय नमः ओं सुधालालसवक्त्राब्जाय नमः ओं सुरद्रुमफलेप्सिताय नमः ओं रत्नहाटकभूषाङ्गाय नमः ओं रावणादिप्रपूजिताय नमः ओं कनत्कालेशसुप्रीताय नमः ओं क्रौञ्चगर्वविनाशनाय नमः ओं अशेषजनसम्मोहाय नमः ओं आयुर्विद्याफलप्रदाय नमः ओं अवबद्धदुकूलाङ्गाय नमः ओं हारालङ्कृतकन्धराय नमः ओं केतकीकुसुमप्रीताय नमः ओं कलभैः परिवारिताय नमः ओं केकाप्रियाय नमः ओं कार्तिकेयाय नमः ओं सारङ्गनिनदप्रियाय नमः ओं चातकालापसन्तुष्टाय नमः ओं चमरीमृगसेविताय नमः ओं आम्रकूटाद्रिसञ्चारिणे नमः 900 ओं आम्नायफलदायकाय नमः ओं अक्षसूत्रधृतपाणये नमः ओं अक्षिरोगविनाशनाय नमः ओं मुकुन्दपूज्याय नमः ओं मोहाङ्गाय नमः ओं मुनिमानसतोषिताय नमः ओं तैलाभिषिक्तसुशिरसे नमः ओं तर्जनीमुद्रिकायुताय नमः ओं तटातकामनः प्रीताय नमः ओं तमोगुणविनाशनाय नमः ओं अनामयाय नमः ओं अनादर्शाय नमः ओं अर्जुनाभाय नमः ओं हुतप्रियाय नमः ओं षाड्गुण्यपरिसम्पूर्णाय नमः ओं सप्ताश्वादिग्रहैः स्तुताय नमः ओं वीतशोकाय नमः ओं प्रसादज्ञाय नमः ओं सप्तप्राणवरप्रदाय नमः ओं सप्तार्चिषे नमः 920 ओं त्रिनयनाय नमः ओं त्रिवेणीफलदायकाय नमः ओं कृष्णवर्त्मने नमः ओं वेदमुखाय नमः ओं दारुमण्डलमध्यगाय नमः ओं वीरनूपुरपादाब्जाय नमः ओं वीरकङ्कणपाणिमते नमः ओं विश्वमूर्तये नमः ओं शुद्धमुखाय नमः ओं शुद्धभस्मानुलेपनाय नमः ओं शुम्भध्वंसिनीसम्पूज्याय नमः ओं रक्तबीजकुलान्तकाय नमः ओं निषादादिस्वरप्रीताय नमः ओं नमस्कारफलप्रदाय नमः ओं भक्तारिपञ्चतादायिने नमः ओं सज्जीकृतशरायुधाय नमः ओं अभयङ्करमन्त्रज्ञाय नमः ओं कुब्जिकामन्त्रविग्रहाय नमः ओं धूम्रास्त्राय नमः ओं उग्रतेजस्विने नमः 940 ओं दशकण्ठविनाशनाय नमः ओं आशुगायुधहस्ताब्जाय नमः ओं गदायुधकराम्बुजाय नमः ओं पाशायुधसुपाणये नमः ओं कपालायुधसद्भुजाय नमः ओं सहस्रशीर्षवदनाय नमः ओं सहस्रद्वयलोचनाय नमः ओं नानाहेतिर्धनुष्पाणये नमः ओं नानास्रग्भूषणप्रियाय नमः ओं आश्यामकोमलतनवे नमः ओं आरक्तापाङ्गलोचनाय नमः ओं द्वादशाहक्रतुप्रीताय नमः ओं पौण्डरीकफलप्रदाय नमः ओं आप्तोर्यामक्रतुमयाय नमः ओं चयनादिफलप्रदाय नमः ओं पशुबन्धस्यफलदाय नमः ओं वाजपेयात्मदैवताय नमः ओं आब्रह्मकीटजननावनात्मने नमः ओं चम्पकप्रियाय नमः ओं पशुपाशविभागज्ञाय नमः 960 ओं परिज्ञानप्रदायकाय नमः ओं कल्पेश्वराय नमः ओं कल्पवर्याय नमः ओं जातवेदसे नमः ओं प्रभाकराय नमः ओं कुम्भीश्वराय नमः ओं कुम्भपाणये नमः ओं कुङ्कुमाक्तललाटकाय नमः ओं शिलीध्रपत्रसङ्काशाय नमः ओं सिंहवक्त्रप्रमर्दनाय नमः ओं कोकिलक्वणनाकर्णिने नमः ओं कालनाशनतत्पराय नमः ओं नैय्यायिकमतघ्नाय नमः ओं बौद्धसङ्घविनाशनाय नमः ओं हेमाब्जधृतपाणये नमः ओं होमसन्तुष्टमानसाय नमः ओं पितृयज्ञस्यफलदाय नमः ओं पितृवज्जनरक्षकाय नमः ओं पदातिकर्मनिरताय नमः ओं पृषदाज्यप्रदायकाय नमः 980 ओं महासुरवधोद्युक्ताय नमः ओं स्वास्त्रप्रत्यस्त्रवर्षकाय नमः ओं महावर्षतिरोधानाय नमः ओं नागाधृतकराम्बुजाय नमः ओं नमः स्वाहा वषट् वौषट् पल्लवप्रतिपादकाय नमः ओं महिरसदृशग्रीवाय नमः ओं महिरसदृशस्तवाय नमः ओं तन्त्रीवादनहस्ताग्राय नमः ओं सङ्गीतप्रीतमानसाय नमः ओं चिदंशमुकुरावासाय नमः ओं मणिकूटाद्रिसञ्चराय नमः ओं लीलासञ्चारतनुकाय नमः ओं लिङ्गशास्त्रप्रवर्तकाय नमः ओं राकेन्दुद्युतिसम्पन्नाय नमः ओं यागकर्मफलप्रदाय नमः ओं मैनाकगिरिसञ्चारिणे नमः ओं मधुवंशविनाशनाय नमः ओं तालखण्डपुरावासाय नमः ओं तमालनिभतेजसे नमः श्रीपूर्णापुष्कलाम्बा समेत श्रीहरिहरपुत्रस्वामिने नमः 1000 इति श्री अय्यप्प सहस्रनामावली

Recite with devotion and pure heart

Regular practice brings spiritual benefits