Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

अय्यप्प सहस्रनामावलिः

ओं शिवपुत्राय नमः । ओं महातेजसे नमः । ओं शिवकार्यधुरन्धराय नमः । ओं शिवप्रदाय नमः । ओं शिवज्ञानिने नमः । ओं शैवधर्मसुरक्षकाय नमः । ओं शङ्खधारिणे नमः । ओं सुराध्यक्षाय नमः । ओं चन्द्रमौलये नमः । ओं सुरोत्तमाय नमः । ओं कामेशाय नमः । ओं कामतेजस्विने नमः । ओं कामादिफलसम्युताय नमः । ओं कल्याणाय नमः । ओं कोमलाङ्गाय नमः । ओं कल्याणफलदायकाय नमः । ओं करुणाब्धये नमः । ओं कर्मदक्षाय नमः । ओं करुणारससागराय नमः । ओं जगत्प्रियाय नमः । 20 ओं जगद्रक्षाय नमः । ओं जगदानन्ददायकाय नमः । ओं जयादिशक्तिसंसेव्याय नमः । ओं जनाह्लादाय नमः । ओं जिगीषुकाय नमः । ओं जितेन्द्रियाय नमः । ओं जितक्रोधाय नमः । ओं जितदेवारिसङ्घकाय नमः । ओं जैमिन्यादृषिसंसेव्याय नमः । ओं जरामरणनाशकाय नमः । ओं जनार्दनसुताय नमः । ओं ज्येष्ठाय नमः । ओं ज्येष्ठादिगणसेविताय नमः । ओं जन्महीनाय नमः । ओं जितामित्राय नमः । ओं जनकेनाभिपूजिताय नमः । ओं परमेष्ठिने नमः । ओं पशुपतये नमः । ओं पङ्कजासनपूजिताय नमः । ओं पुरहन्त्रे नमः । 40 ओं पुरत्रात्रे नमः । ओं परमैश्वर्यदायकाय नमः । ओं पवनादिसुरैः सेव्याय नमः । ओं पञ्चब्रह्मपरायणाय नमः । ओं पार्वतीतनयाय नमः । ओं ब्रह्मणे नमः । ओं परानन्दाय नमः । ओं परात्पराय नमः । ओं ब्रह्मिष्ठाय नमः । ओं ज्ञाननिरताय नमः । ओं गुणागुणनिरूपकाय नमः । ओं गुणाध्यक्षाय नमः । ओं गुणनिधये नमः । ओं गोपालेनाभिपुजिताय नमः । ओं गोरक्षकाय नमः । ओं गोधनदाय नमः । ओं गजारूढाय नमः । ओं गजप्रियाय नमः । ओं गजग्रीवाय नमः । ओं गजस्कन्धाय नमः । 60 ओं गभस्तये नमः । ओं गोपतये नमः । ओं प्रभवे नमः । ओं ग्रामपालाय नमः । ओं गजाध्यक्षाय नमः । ओं दिग्गजेनाभिपूजिताय नमः । ओं गणाध्यक्षाय नमः । ओं गणपतये नमः । ओं गवां पतये नमः । ओं अहर्पतये नमः । ओं जटाधराय नमः । ओं जलनिभाय नमः । ओं जैमिन्यैरभिपूजिताय नमः । ओं जलन्धरनिहन्त्रे नमः । ओं शोणाक्षाय नमः । ओं शोणवासकाय नमः । ओं सुराधिपाय नमः । ओं शोकहन्त्रे नमः । ओं शोभाक्षाय नमः । ओं सूर्यतेजसाय नमः । 80 ओं सुरार्चिताय नमः । ओं सुरैर्वन्द्याय नमः । ओं शोणाङ्गाय नमः । ओं शाल्मलीपतये नमः । ओं सुज्योतिषे नमः । ओं शरवीरघ्नाय नमः । ओं शरच्चन्द्रनिभाननाय नमः । ओं सनकादिमुनिध्येयाय नमः । ओं सर्वज्ञानप्रदाय नमः । ओं विभवे नमः । ओं हलायुधाय नमः । ओं हंसनिभाय नमः । ओं हाहाहूहूमुखस्तुताय नमः । ओं हरये नमः । ओं हरप्रियाय नमः । ओं हंसाय नमः । ओं हर्यक्षासनतत्पराय नमः । ओं पावनाय नमः । ओं पावकनिभाय नमः । ओं भक्तपापविनाशनाय नमः । 100 ओं भसिताङ्गाय नमः । ओं भयत्रात्रे नमः । ओं भानुमते नमः । ओं भयनाशनाय नमः । ओं त्रिपुण्ड्रकाय नमः । ओं त्रिनयनाय नमः । ओं त्रिपुण्ड्राङ्कितमस्तकाय नमः । ओं त्रिपुरघ्नाय नमः । ओं देववराय नमः । ओं देवारिकुलनाशकाय नमः । ओं देवसेनाधिपाय नमः । ओं तेजसे नमः । ओं तेजोराशये नमः । ओं दशाननाय नमः । ओं दारुणाय नमः । ओं दोषहन्त्रे नमः । ओं दोर्दण्डाय नमः । ओं दण्डनायकाय नमः । ओं धनुष्पाणये नमः । ओं धराध्यक्षाय नमः । 120 ओं धनिकाय नमः । ओं धर्मवत्सलाय नमः । ओं धर्मज्ञाय नमः । ओं धर्मनिरताय नमः । ओं धनुः शास्त्रपरायणाय नमः । ओं स्थूलकर्णाय नमः । ओं स्थूलतनवे नमः । ओं स्थूलाक्षाय नमः । ओं स्थूलबाहुकाय नमः । ओं तनूत्तमाय नमः । ओं तनुत्राणाय नमः । ओं तारकाय नमः । ओं तेजसां पतये नमः । ओं योगीश्वराय नमः । ओं योगनिधये नमः । ओं योगीशाय नमः । ओं योगसंस्थिताय नमः । ओं मन्दारवाटिकामत्ताय नमः । ओं मलयाचलवासभुवे नमः । ओं मन्दारकुसुमप्रख्याय नमः । 140 ओं मन्दमारुतसेविताय नमः । ओं महाभासाय नमः । ओं महावक्षसे नमः । ओं मनोहरमदार्चिताय नमः । ओं महोन्नताय नमः । ओं महाकायाय नमः । ओं महानेत्राय नमः । ओं महाहनवे नमः । ओं मरुत्पूज्याय नमः । ओं मानधनाय नमः । ओं मोहनाय नमः । ओं मोक्षदायकाय नमः । ओं मित्राय नमः । ओं मेधायै नमः । ओं महौजस्विने नमः । ओं महावर्षप्रदायकाय नमः । ओं भाषकाय नमः । ओं भाष्यशास्त्रज्ञाय नमः । ओं भानुमते नमः । ओं भानुतेजसे नमः । 160 ओं भिषजे नमः । ओं भवानिपुत्राय नमः । ओं भवतारणकारणाय नमः । ओं नीलाम्बराय नमः । ओं नीलनिभाय नमः । ओं नीलग्रीवाय नमः । ओं निरञ्जनाय नमः । ओं नेत्रत्रयाय नमः । ओं निषादज्ञाय नमः । ओं नानारत्नोपशोभिताय नमः । ओं रत्नप्रभाय नमः । ओं रमापुत्राय नमः । ओं रमया परितोषिताय नमः । ओं राजसेव्याय नमः । ओं राजधनाय नमः । ओं रणदोर्दण्डमण्डिताय नमः । ओं रमणाय नमः । ओं रेणुका सेव्याय नमः । ओं रजनीचरदारणाय नमः । ओं ईशानाय नमः । 180 ओं इभराट् सेव्याय नमः । ओं ईषणात्रयनाशनाय नमः । ओं इडावासाय नमः । ओं हेमनिभाय नमः । ओं हैमप्राकारशोभिताय नमः । ओं हयप्रियाय नमः । ओं हयग्रीवाय नमः । ओं हंसाय नमः । ओं हरिहरात्मजाय नमः । ओं हाटकस्फटिकप्रख्याय नमः । ओं हंसारूढेन सेविताय नमः । ओं वनवासाय नमः । ओं वनाध्यक्षाय नमः । ओं वामदेवाय नमः । ओं वराननाय नमः । ओं वैवस्वतपतये नमः । ओं विष्णवे नमः । ओं विराड्रूपाय नमः । ओं विशां पतये नमः । ओं वेणुनादाय नमः । 200 ओं वरग्रीवाय नमः । ओं वराभयकरान्विताय नमः । ओं वर्चस्विने नमः । ओं विपुलग्रीवाय नमः । ओं विपुलाक्षाय नमः । ओं विनोदवते नमः । ओं वैणवारण्यवासाय नमः । ओं वामदेवेनसेविताय नमः । ओं वेत्रहस्ताय नमः । ओं वेदनिधये नमः । ओं वंशदेवाय नमः । ओं वराङ्गकाय नमः । ओं ह्रीङ्काराय नमः । ओं ह्रींमनसे नमः । ओं हृष्टाय नमः । ओं हिरण्याय नमः । ओं हेमसम्भवाय नमः । ओं हुताशाय नमः । ओं हुतनिष्पन्नाय नमः । ओं हुङ्काराकृतये नमः । 220 ओं सुप्रभवे नमः । ओं हव्यवाहाय नमः । ओं हव्यकराय नमः । ओं अट्‍टहासाय नमः । ओं अपराहताय नमः । ओं अणुरूपाय नमः । ओं रूपकराय नमः । ओं अजराय नमः । ओं अतनुरूपकाय नमः । ओं हंसमन्त्राय नमः । ओं हुतभुजे नमः । ओं हेमाम्बराय नमः । ओं सुलक्षणाय नमः । ओं नीपप्रियाय नमः । ओं नीलवाससे नमः । ओं निधिपालाय नमः । ओं निरातपाय नमः । ओं क्रोडहस्ताय नमः । ओं तपस्त्रात्रे नमः । ओं तपोरक्षाय नमः । 240 ओं तपाह्वयाय नमः । ओं मूर्धाभिषिक्ताय नमः । ओं मानिने नमः । ओं मन्त्ररूपाय नमः । ओं मृडाय नमः । ओं मनवे नमः । ओं मेधाविने नमः । ओं मेधसाय नमः । ओं मुष्णवे नमः । ओं मकराय नमः । ओं मकरालयाय नमः । ओं मार्ताण्डाय नमः । ओं मञ्जुकेशाय नमः । ओं मासपालाय नमः । ओं महौषधये नमः । ओं श्रोत्रियाय नमः । ओं शोभमानाय नमः । ओं सवित्रे नमः । ओं सर्वदेशिकाय नमः । ओं चन्द्रहासाय नमः । 260 ओं शमाय नमः । ओं शक्ताय नमः । ओं शशिभासाय नमः । ओं शमाधिकाय नमः । ओं सुदन्ताय नमः । ओं सुकपोलाय नमः । ओं षड्वर्णाय नमः । ओं सम्पदोऽधिपाय नमः । ओं गरलाय नमः । ओं कालकण्ठाय नमः । ओं गोनेत्रे नमः । ओं गोमुखप्रभवे नमः । ओं कौशिकाय नमः । ओं कालदेवाय नमः । ओं क्रोशकाय नमः । ओं क्रौञ्चभेदकाय नमः । ओं क्रियाकराय नमः । ओं कृपालवे नमः । ओं करवीरकरेरुहाय नमः । ओं कन्दर्पदर्पहारिणे नमः । 280 ओं कामदात्रे नमः । ओं कपालकाय नमः । ओं कैलासवासाय नमः । ओं वरदाय नमः । ओं विरोचनाय नमः । ओं विभावसवे नमः । ओं बभ्रुवाहाय नमः । ओं बलाध्यक्षाय नमः । ओं फणामणिविभूषणाय नमः । ओं सुन्दराय नमः । ओं सुमुखाय नमः । ओं स्वच्छाय नमः । ओं सभासदे नमः । ओं सभाकराय नमः । ओं शरानिवृत्ताय नमः । ओं शक्राप्ताय नमः । ओं शरणागतपालकाय नमः । ओं तीक्ष्णदंष्ट्राय नमः । ओं दीर्घजिह्वाय नमः । ओं पिङ्गलाक्षाय नमः । 300 ओं पिशाचघ्ने नमः । ओं अभेद्याय नमः । ओं अङ्गदार्ढ्याय नमः । ओं भोजपालाय नमः । ओं भूपतये नमः । ओं गृध्रनासाय नमः । ओं अविषह्याय नमः । ओं दिग्देहाय नमः । ओं दैन्यदाहकाय नमः । ओं बडबापूरितमुखाय नमः । ओं व्यापकाय नमः । ओं विषमोचकाय नमः । ओं हसन्ताय नमः । ओं समरक्रुद्धाय नमः । ओं पुङ्गवाय नमः । ओं पङ्कजासनाय नमः । ओं विश्वदर्पाय नमः । ओं निश्चिताज्ञाय नमः । ओं नागाभरणभूषिताय नमः । ओं भरताय नमः । 320 ओं भैरवाकाराय नमः । ओं भरणाय नमः । ओं वामनक्रियाय नमः । ओं सिंहास्याय नमः । ओं सिंहरूपाय नमः । ओं सेनापतये नमः । ओं सकारकाय नमः । ओं सनातनाय नमः । ओं सिद्धरूपिणे नमः । ओं सिद्धधर्मपरायणाय नमः । ओं आदित्यरूपाय नमः । ओं आपद्घ्नाय नमः । ओं अमृताब्धिनिवासभुवे नमः । ओं युवराजाय नमः । ओं योगिवर्याय नमः । ओं उषस्तेजसे नमः । ओं उडुप्रभाय नमः । ओं देवादिदेवाय नमः । ओं दैवज्ञाय नमः । ओं ताम्रोष्ठाय नमः । 340 ओं ताम्रलोचनाय नमः । ओं पिङ्गलाक्षाय नमः । ओं पिञ्छचूडाय नमः । ओं फणामणिविभूषिताय नमः । ओं भुजङ्गभूषणाय नमः । ओं भोगाय नमः । ओं भोगानन्दकराय नमः । ओं अव्ययाय नमः । ओं पञ्चहस्तेन सम्पूज्याय नमः । ओं पञ्चबाणेन सेविताय नमः । ओं भवाय नमः । ओं शर्वाय नमः । ओं भानुमयाय नमः । ओं प्राजापत्यस्वरूपकाय नमः । ओं स्वच्छन्दाय नमः । ओं छन्दः शास्त्रज्ञाय नमः । ओं दान्ताय नमः । ओं देवमनुप्रभवे नमः । ओं दशभुजे नमः । ओं दशाध्यक्षाय नमः । 360 ओं दानवानां विनाशनाय नमः । ओं सहस्राक्षाय नमः । ओं शरोत्पन्नाय नमः । ओं शतानन्दसमागमाय नमः । ओं गृध्राद्रिवासाय नमः । ओं गम्भीराय नमः । ओं गन्धग्राहाय नमः । ओं गणेश्वराय नमः । ओं गोमेधाय नमः । ओं गण्डकावासाय नमः । ओं गोकुलैः परिवारिताय नमः । ओं परिवेषाय नमः । ओं पदज्ञानिने नमः । ओं प्रियङ्गुद्रुमवासकाय नमः । ओं गुहावासाय नमः । ओं गुरुवराय नमः । ओं वन्दनीयाय नमः । ओं वदान्यकाय नमः । ओं वृत्ताकाराय नमः । ओं वेणुपाणये नमः । 380 ओं वीणादण्डधराय नमः । ओं हराय नमः । ओं हैमीड्याय नमः । ओं होतृसुभगाय नमः । ओं हौत्रज्ञाय नमः । ओं ओजसां पतये नमः । ओं पवमानाय नमः । ओं प्रजातन्तुप्रदाय नमः । ओं दण्डविनाशनाय नमः । ओं निमीड्याय नमः । ओं निमिषार्धज्ञाय नमः । ओं निमिषाकारकारणाय नमः । ओं लिगुडाभाय नमः । ओं लिडाकाराय नमः । ओं लक्ष्मीवन्द्याय नमः । ओं वरप्रभवे नमः । ओं इडाज्ञाय नमः । ओं पिङ्गलावासाय नमः । ओं सुषुम्नामध्यसम्भवाय नमः । ओं भिक्षाटनाय नमः । 400 ओं भीमवर्चसे नमः । ओं वरकीर्तये नमः । ओं सभेश्वराय नमः । ओं वाचातीताय नमः । ओं वरनिधये नमः । ओं परिवेत्रे नमः । ओं प्रमाणकाय नमः । ओं अप्रमेयाय नमः । ओं अनिरुद्धाय नमः । ओं अनन्तादित्यसुप्रभाय नमः । ओं वेषप्रियाय नमः । ओं विषग्राहाय नमः । ओं वरदानकरोत्तमाय नमः । ओं विपिनाय नमः । ओं वेदसाराय नमः । ओं वेदान्तैः परितोषिताय नमः । ओं वक्रागमाय नमः । ओं वर्चवचाय नमः । ओं बलदात्रे नमः । ओं विमानवते नमः । 420 ओं वज्रकान्ताय नमः । ओं वंशकराय नमः । ओं वटुरक्षाविशारदाय नमः । ओं वप्रक्रीडाय नमः । ओं विप्रपूज्याय नमः । ओं वेलाराशये नमः । ओं चलालकाय नमः । ओं कोलाहलाय नमः । ओं क्रोडनेत्राय नमः । ओं क्रोडास्याय नमः । ओं कपालभृते नमः । ओं कुञ्जरेड्याय नमः । ओं मञ्जुवाससे नमः । ओं क्रियमाणाय नमः । ओं क्रियाप्रदाय नमः । ओं क्रीडानाथाय नमः । ओं कीलहस्ताय नमः । ओं क्रोशमानाय नमः । ओं बलाधिकाय नमः । ओं कनकाय नमः । 440 ओं होतृभागिने नमः । ओं खवासाय नमः । ओं खचराय नमः । ओं खगाय नमः । ओं गणकाय नमः । ओं गुणनिर्दुष्टाय नमः । ओं गुणत्यागिने नमः । ओं कुशाधिपाय नमः । ओं पाटलाय नमः । ओं पत्रधारिणे नमः । ओं पलाशाय नमः । ओं पुत्रवर्धनाय नमः । ओं पितृसच्चरिताय नमः । ओं प्रेष्ठवे नमः । ओं पापभस्मने नमः । ओं पुनः शुचये नमः । ओं फालनेत्राय नमः । ओं फुल्लकेशाय नमः । ओं फुल्लकल्हारभूषिताय नमः । ओं फणिसेव्याय नमः । 460 ओं पट्‍टभद्राय नमः । ओं पटवे नमः । ओं वाग्मिने नमः । ओं वयोऽधिकाय नमः । ओं चोरनाट्याय नमः । ओं चोरवेषाय नमः । ओं चोरघ्नाय नमः । ओं चौर्यवर्धनाय नमः । ओं चञ्चलाक्षाय नमः । ओं चामरकाय नमः । ओं मरीचये नमः । ओं मदगामिकाय नमः । ओं मृडाभाय नमः । ओं मेषवाहाय नमः । ओं मैथिल्याय नमः । ओं मोचकाय नमः । ओं मनसे नमः । ओं मनुरूपाय नमः । ओं मन्त्रदेवाय नमः । ओं मन्त्रराशये नमः । 480 ओं महादृढाय नमः । ओं स्थूपिज्ञाय नमः । ओं धनदात्रे नमः । ओं देववन्द्याय नमः । ओं तारणाय नमः । ओं यज्ञप्रियाय नमः । ओं यमाध्यक्षाय नमः । ओं इभक्रीडाय नमः । ओं इभेक्षणाय नमः । ओं दधिप्रियाय नमः । ओं दुराधर्षाय नमः । ओं दारुपालाय नमः । ओं दनूजघ्ने नमः । ओं दामोदराय नमः । ओं दामधराय नमः । ओं दक्षिणामूर्तिरूपकाय नमः । ओं शचीपूज्याय नमः । ओं शङ्खकर्णाय नमः । ओं चन्द्रचूडाय नमः । ओं मनुप्रियाय नमः । 500 ओं गुडरूपाय नमः । ओं गुडाकेशाय नमः । ओं कुलधर्मपरायणाय नमः । ओं कालकण्ठाय नमः । ओं गाढगात्राय नमः । ओं गोत्ररूपाय नमः । ओं कुलेश्वराय नमः । ओं आनन्दभैरवाराध्याय नमः । ओं हयमेधफलप्रदाय नमः । ओं दध्यन्नासक्तहृदयाय नमः । ओं गुडान्नप्रीतमानसाय नमः । ओं घृतान्नासक्तहृदयाय नमः । ओं गौराङ्गाय नमः । ओं गर्वभञ्जकाय नमः । ओं गणेशपूज्याय नमः । ओं गगनाय नमः । ओं गणानां पतये नमः । ओं ऊर्जिताय नमः । ओं छद्महीनाय नमः । ओं शशिरदाय नमः । 520 ओं शत्रूणां पतये नमः । ओं अङ्गिरसे नमः । ओं चराचरमयाय नमः । ओं शान्ताय नमः । ओं शरभेशाय नमः । ओं शतातपाय नमः । ओं वीराराध्याय नमः । ओं वक्रगमाय नमः । ओं वेदाङ्गाय नमः । ओं वेदपारगाय नमः । ओं पर्वतारोहणाय नमः । ओं पूष्णे नमः । ओं परमेशाय नमः । ओं प्रजापतये नमः । ओं भावज्ञाय नमः । ओं भवरोगघ्नाय नमः । ओं भवसागरतारणाय नमः । ओं चिदग्निदेहाय नमः । ओं चिद्रूपाय नमः । ओं चिदानन्दाय नमः । 540 ओं चिदाकृतये नमः । ओं नाट्यप्रियाय नमः । ओं नरपतये नमः । ओं नरनारायणार्चिताय नमः । ओं निषादराजाय नमः । ओं नीहाराय नमः । ओं नेष्ट्रे नमः । ओं निष्ठुरभाषणाय नमः । ओं निम्नप्रियाय नमः । ओं नीलनेत्राय नमः । ओं नीलाङ्गाय नमः । ओं नीलकेशकाय नमः । ओं सिंहाक्षाय नमः । ओं सर्वविघ्नेशाय नमः । ओं सामवेदपरायणाय नमः । ओं सनकादिमुनिध्येयाय नमः । ओं शर्वरीशाय नमः । ओं षडाननाय नमः । ओं सुरूपाय नमः । ओं सुलभाय नमः । 560 ओं स्वर्गाय नमः । ओं शचीनाथेन पूजिताय नमः । ओं काकिनाय नमः । ओं कामदहनाय नमः । ओं दग्धपापाय नमः । ओं धराधिपाय नमः । ओं दामग्रन्थिने नमः । ओं शतस्त्रीशाय नमः । ओं तन्त्रीपालाय नमः । ओं तारकाय नमः । ओं ताम्राक्षाय नमः । ओं तीक्ष्णदंष्ट्राय नमः । ओं तिलभोज्याय नमः । ओं तिलोदराय नमः । ओं माण्डुकर्णाय नमः । ओं मृडाधीशाय नमः । ओं मेरुवर्णाय नमः । ओं महोदराय नमः । ओं मार्ताण्डभैरवाराध्याय नमः । ओं मणिरूपाय नमः । 580 ओं मरुद्वहाय नमः । ओं माषप्रियाय नमः । ओं मधुपानाय नमः । ओं मृणालाय नमः । ओं मोहिनीपतये नमः । ओं महाकामेशतनयाय नमः । ओं माधवाय नमः । ओं मदगर्विताय नमः । ओं मूलाधाराम्बुजावासाय नमः । ओं मूलविद्यास्वरूपकाय नमः । ओं स्वाधिष्ठानमयाय नमः । ओं स्वस्थाय नमः । ओं स्वस्तिवाक्याय नमः । ओं स्रुवायुधाय नमः । ओं मणिपूराब्जनिलयाय नमः । ओं महाभैरवपूजिताय नमः । ओं अनाहताब्जरसिकाय नमः । ओं ह्रीङ्काररसपेशलाय नमः । ओं भ्रूमध्यवासाय नमः । ओं भ्रूकान्ताय नमः । 600 ओं भरद्वाजप्रपूजिताय नमः । ओं सहस्राराम्बुजावासाय नमः । ओं सवित्रे नमः । ओं सामवाचकाय नमः । ओं मुकुन्दाय नमः । ओं गुणातीताय नमः । ओं गुणपूज्याय नमः । ओं गुणाश्रयाय नमः । ओं धन्याय नमः । ओं धनभृते नमः । ओं दाहाय नमः । ओं धनदानकराम्बुजाय नमः । ओं महाशयाय नमः । ओं महातीताय नमः । ओं मायाहीनाय नमः । ओं मदार्चिताय नमः । ओं माठराय नमः । ओं मोक्षफलदाय नमः । ओं सद्वैरिकुलनाशनाय नमः । ओं पिङ्गलाय नमः । 620 ओं पिञ्छचूडाय नमः । ओं पिशिताशपवित्रकाय नमः । ओं पायसान्नप्रियाय नमः । ओं पर्वपक्षमासविभाजकाय नमः । ओं वज्रभूषाय नमः । ओं वज्रकायाय नमः । ओं विरिञ्चाय नमः । ओं वरवक्षणाय नमः । ओं विज्ञानकलिकाबृन्दाय नमः । ओं विश्वरूपप्रदर्शकाय नमः । ओं डम्भघ्नाय नमः । ओं दमघोषघ्नाय नमः । ओं दासपालाय नमः । ओं तपौजसाय नमः । ओं द्रोणकुम्भाभिषिक्ताय नमः । ओं द्रोहिनाशाय नमः । ओं तपातुराय नमः । ओं महावीरेन्द्रवरदाय नमः । ओं महासंसारनाशनाय नमः । ओं लाकिनीहाकिनीलब्धाय नमः । 640 ओं लवणाम्भोधितारणाय नमः । ओं काकिलाय नमः । ओं कालपाशघ्नाय नमः । ओं कर्मबन्धविमोचकाय नमः । ओं मोचकाय नमः । ओं मोहनिर्भिन्नाय नमः । ओं भगाराध्याय नमः । ओं बृहत्तनवे नमः । ओं अक्षयाय नमः । ओं अक्रूरवरदाय नमः । ओं वक्रागमविनाशनाय नमः । ओं डाकिनाय नमः । ओं सूर्यतेजस्विने नमः । ओं सर्पभूषाय नमः । ओं सद्गुरवे नमः । ओं स्वतन्त्राय नमः । ओं सर्वतन्त्रेशाय नमः । ओं दक्षिणादिगधीश्वराय नमः । ओं सच्चिदानन्दकलिकाय नमः । ओं प्रेमरूपाय नमः । 660 ओं प्रियङ्कराय नमः । ओं मिथ्याजगदधिष्ठानाय नमः । ओं मुक्तिदाय नमः । ओं मुक्तिरूपकाय नमः । ओं मुमुक्षवे नमः । ओं कर्मफलदाय नमः । ओं मार्गदक्षाय नमः । ओं कर्मठाय नमः । ओं महाबुद्धाय नमः । ओं महाशुद्धाय नमः । ओं शुकवर्णाय नमः । ओं शुकप्रियाय नमः । ओं सोमप्रियाय नमः । ओं स्वरप्रीताय नमः । ओं पर्वाराधनतत्पराय नमः । ओं अजपाय नमः । ओं जनहंसाय नमः । ओं हलपाणिप्रपूजिताय नमः । ओं अर्चिताय नमः । ओं वर्धनाय नमः । 680 ओं वाग्मिने नमः । ओं वीरवेषाय नमः । ओं विधुप्रियाय नमः । ओं लास्यप्रियाय नमः । ओं लयकराय नमः । ओं लाभालाभविवर्जिताय नमः । ओं पञ्चाननाय नमः । ओं पञ्चगूढाय नमः । ओं पञ्चयज्ञफलप्रदाय नमः । ओं पाशहस्ताय नमः । ओं पावकेशाय नमः । ओं पर्जन्यसमगर्जनाय नमः । ओं पापारये नमः । ओं परमोदाराय नमः । ओं प्रजेशाय नमः । ओं पङ्कनाशनाय नमः । ओं नष्टकर्मणे नमः । ओं नष्टवैराय नमः । ओं इष्टसिद्धिप्रदायकाय नमः । ओं नागाधीशाय नमः । 700 ओं नष्टपापाय नमः । ओं इष्टनामविधायकाय नमः । ओं सामरस्याय नमः । ओं अप्रमेयाय नमः । ओं पाषण्डिने नमः । ओं पर्वतप्रियाय नमः । ओं पञ्चकृत्यपराय नमः । ओं पात्रे नमः । ओं पञ्चपञ्चातिशायिकाय नमः । ओं पद्माक्षाय नमः । ओं पद्मवदनाय नमः । ओं पावकाभाय नमः । ओं प्रियङ्कराय नमः । ओं कार्तस्वराङ्गाय नमः । ओं गौराङ्गाय नमः । ओं गौरीपुत्राय नमः । ओं धनेश्वराय नमः । ओं गणेशाश्लिष्टदेहाय नमः । ओं शीतांशवे नमः । ओं शुभदीधितये नमः । 720 ओं दक्षध्वंसाय नमः । ओं दक्षकराय नमः । ओं वराय नमः । ओं कात्यायनीसुताय नमः । ओं सुमुखाय नमः । ओं मार्गणाय नमः । ओं गर्भाय नमः । ओं गर्वभङ्गाय नमः । ओं कुशासनाय नमः । ओं कुलपालपतये नमः । ओं श्रेष्ठाय नमः । ओं पवमानाय नमः । ओं प्रजाधिपाय नमः । ओं दर्शप्रियाय नमः । ओं निर्विकाराय नमः । ओं दीर्घकायाय नमः । ओं दिवाकराय नमः । ओं भेरीनादप्रियाय नमः । ओं बृन्दाय नमः । ओं बृहत्सेनाय नमः । 740 ओं सुपालकाय नमः । ओं सुब्रह्मणे नमः । ओं ब्रह्मरसिकाय नमः । ओं रसज्ञाय नमः । ओं रजताद्रिभासे नमः । ओं तिमिरघ्नाय नमः । ओं मिहिराभाय नमः । ओं महानीलसमप्रभाय नमः । ओं श्रीचन्दनविलिप्ताङ्गाय नमः । ओं श्रीपुत्राय नमः । ओं श्रीतरुप्रियाय नमः । ओं लाक्षावर्णाय नमः । ओं लसत्कर्णाय नमः । ओं रजनीध्वंसिसन्निभाय नमः । ओं बिन्दुप्रियाय नमः । ओं अम्बिकापुत्राय नमः । ओं बैन्दवाय नमः । ओं बलनायकाय नमः । ओं आपन्नतारकाय नमः । ओं तप्ताय नमः । 760 ओं तप्तकृच्छ्रफलप्रदाय नमः । ओं मरुद्वृधाय नमः । ओं महाखर्वाय नमः । ओं चीरवासाय नमः । ओं शिखिप्रियाय नमः । ओं आयुष्मते नमः । ओं अनघाय नमः । ओं दूताय नमः । ओं आयुर्वेदपरायणाय नमः । ओं हंसाय नमः । ओं परमहंसाय नमः । ओं अवधूताश्रमप्रियाय नमः । ओं आशुवेगाय नमः । ओं अश्वहृदयाय नमः । ओं हयधैर्यफलप्रदाय नमः । ओं सुमुखाय नमः । ओं दुर्मुखाय नमः । ओं अविघ्नाय नमः । ओं निर्विघ्नाय नमः । ओं विघ्ननाशनाय नमः । 780 ओं आर्याय नमः । ओं नाथाय नमः । ओं अर्यमाभासाय नमः । ओं फल्गुणाय नमः । ओं फाललोचनाय नमः । ओं अरातिघ्नाय नमः । ओं घनग्रीवाय नमः । ओं ग्रीष्मसूर्यसमप्रभाय नमः । ओं किरीटिने नमः । ओं कल्पशास्त्रज्ञाय नमः । ओं कल्पानलविधायकाय नमः । ओं ज्ञानविज्ञानफलदाय नमः । ओं विरिञ्चारिविनाशनाय नमः । ओं वीरमार्ताण्डवरदाय नमः । ओं वीरबाहवे नमः । ओं पूर्वजाय नमः । ओं वीरसिंहासनाय नमः । ओं विज्ञाय नमः । ओं वीरकार्याय नमः । ओं अस्तदानवाय नमः । 800 ओं नरवीरसुहृद्भ्रात्रे नमः । ओं नागरत्नविभूषिताय नमः । ओं वाचस्पतये नमः । ओं पुरारातये नमः । ओं संवर्ताय नमः । ओं समरेश्वराय नमः । ओं उरुवाग्मिने नमः । ओं उमापुत्राय नमः । ओं उडुलोकसुरक्षकाय नमः । ओं शृङ्गाररससम्पूर्णाय नमः । ओं सिन्दूरतिलकाङ्किताय नमः । ओं कुङ्कुमाङ्कितसर्वाङ्गाय नमः । ओं कालकेयविनाशनाय नमः । ओं मत्तनागप्रियाय नमः । ओं नेत्रे नमः । ओं नागगन्धर्वपूजिताय नमः । ओं सुस्वप्नबोधकाय नमः । ओं बोधाय नमः । ओं गौरीदुःस्वप्ननाशनाय नमः । ओं चिन्ताराशिपरिध्वंसिने नमः । 820 ओं चिन्तामणिविभूषिताय नमः । ओं चराचरजगत्स्रष्ट्रे नमः । ओं चलत्कुण्डलकर्णयुजे नमः । ओं मुकुरास्याय नमः । ओं मूलनिधये नमः । ओं निधिद्वयनिषेविताय नमः । ओं नीराजनप्रीतमनसे नमः । ओं नीलनेत्राय नमः । ओं नयप्रदाय नमः । ओं केदारेशाय नमः । ओं किराताय नमः । ओं कालात्मने नमः । ओं कल्पविग्रहाय नमः । ओं कल्पान्तभैरवाराध्याय नमः । ओं काकपत्रशरायुधाय नमः । ओं कलाकाष्ठास्वरूपाय नमः । ओं ऋतुवर्षादिमासवते नमः । ओं दिनेशमण्डलावासाय नमः । ओं वासवादिप्रपूजिताय नमः । ओं बहुलस्तम्बकर्मज्ञाय नमः । 840 ओं पञ्चाशद्वर्णरूपकाय नमः । ओं चिन्ताहीनाय नमः । ओं चिदाक्रान्ताय नमः । ओं चारुपालाय नमः । ओं हलायुधाय नमः । ओं बन्धूककुसुमप्रख्याय नमः । ओं परगर्वविभञ्जनाय नमः । ओं विद्वत्तमाय नमः । ओं विराधघ्नाय नमः । ओं सचित्राय नमः । ओं चित्रकर्मकाय नमः । ओं सङ्गीतलोलुपमनसे नमः । ओं स्निग्धगम्भीरगर्जिताय नमः । ओं तुङ्गवक्त्राय नमः । ओं स्तवरसाय नमः । ओं अभ्राभाय नमः । ओं भ्रमरेक्षणाय नमः । ओं लीलाकमलहस्ताब्जाय नमः । ओं बालकुन्दविभूषिताय नमः । ओं लोध्रप्रसवशुद्धाभाय नमः । 860 ओं शिरीषकुसुमप्रियाय नमः । ओं त्रासत्राणकराय नमः । ओं तत्त्वाय नमः । ओं तत्त्ववाक्यार्थबोधकाय नमः । ओं वर्षीयसे नमः । ओं विधिस्तुत्याय नमः । ओं वेदान्तप्रतिपादकाय नमः । ओं मूलभूताय नमः । ओं मूलतत्त्वाय नमः । ओं मूलकारणविग्रहाय नमः । ओं आदिनाथाय नमः । ओं अक्षयफलपाणये नमः । ओं जन्मापराजिताय नमः । ओं गानप्रियाय नमः । ओं गानलोलाय नमः । ओं महेशाय नमः । ओं विज्ञमानसाय नमः । ओं गिरिजास्तन्यरसिकाय नमः । ओं गिरिराजवरस्तुताय नमः । ओं पीयूषकुम्भहस्ताब्जाय नमः । 880 ओं पाशत्यागिने नमः । ओं चिरन्तनाय नमः । ओं सुधालालसवक्त्राब्जाय नमः । ओं सुरद्रुमफलेप्सिताय नमः । ओं रत्नहाटकभूषाङ्गाय नमः । ओं रावणादिप्रपूजिताय नमः । ओं कनत्कालेशसुप्रीताय नमः । ओं क्रौञ्चगर्वविनाशनाय नमः । ओं अशेषजनसम्मोहाय नमः । ओं आयुर्विद्याफलप्रदाय नमः । ओं अवबद्धदुकूलाङ्गाय नमः । ओं हारालङ्कृतकन्धराय नमः । ओं केतकीकुसुमप्रीताय नमः । ओं कलभैः परिवारिताय नमः । ओं केकाप्रियाय नमः । ओं कार्तिकेयाय नमः । ओं सारङ्गनिनदप्रियाय नमः । ओं चातकालापसन्तुष्टाय नमः । ओं चमरीमृगसेविताय नमः । ओं आम्रकूटाद्रिसञ्चारिणे नमः । 900 ओं आम्नायफलदायकाय नमः । ओं अक्षसूत्रधृतपाणये नमः । ओं अक्षिरोगविनाशनाय नमः । ओं मुकुन्दपूज्याय नमः । ओं मोहाङ्गाय नमः । ओं मुनिमानसतोषिताय नमः । ओं तैलाभिषिक्तसुशिरसे नमः । ओं तर्जनीमुद्रिकायुताय नमः । ओं तटातकामनः प्रीताय नमः । ओं तमोगुणविनाशनाय नमः । ओं अनामयाय नमः । ओं अनादर्शाय नमः । ओं अर्जुनाभाय नमः । ओं हुतप्रियाय नमः । ओं षाड्गुण्यपरिसम्पूर्णाय नमः । ओं सप्ताश्वादिग्रहैः स्तुताय नमः । ओं वीतशोकाय नमः । ओं प्रसादज्ञाय नमः । ओं सप्तप्राणवरप्रदाय नमः । ओं सप्तार्चिषे नमः । 920 ओं त्रिनयनाय नमः । ओं त्रिवेणीफलदायकाय नमः । ओं कृष्णवर्त्मने नमः । ओं वेदमुखाय नमः । ओं दारुमण्डलमध्यगाय नमः । ओं वीरनूपुरपादाब्जाय नमः । ओं वीरकङ्कणपाणिमते नमः । ओं विश्वमूर्तये नमः । ओं शुद्धमुखाय नमः । ओं शुद्धभस्मानुलेपनाय नमः । ओं शुम्भध्वंसिनीसम्पूज्याय नमः । ओं रक्तबीजकुलान्तकाय नमः । ओं निषादादिस्वरप्रीताय नमः । ओं नमस्कारफलप्रदाय नमः । ओं भक्तारिपञ्चतादायिने नमः । ओं सज्जीकृतशरायुधाय नमः । ओं अभयङ्करमन्त्रज्ञाय नमः । ओं कुब्जिकामन्त्रविग्रहाय नमः । ओं धूम्रास्त्राय नमः । ओं उग्रतेजस्विने नमः । 940 ओं दशकण्ठविनाशनाय नमः । ओं आशुगायुधहस्ताब्जाय नमः । ओं गदायुधकराम्बुजाय नमः । ओं पाशायुधसुपाणये नमः । ओं कपालायुधसद्भुजाय नमः । ओं सहस्रशीर्षवदनाय नमः । ओं सहस्रद्वयलोचनाय नमः । ओं नानाहेतिर्धनुष्पाणये नमः । ओं नानास्रग्भूषणप्रियाय नमः । ओं आश्यामकोमलतनवे नमः । ओं आरक्तापाङ्गलोचनाय नमः । ओं द्वादशाहक्रतुप्रीताय नमः । ओं पौण्डरीकफलप्रदाय नमः । ओं आप्तोर्यामक्रतुमयाय नमः । ओं चयनादिफलप्रदाय नमः । ओं पशुबन्धस्यफलदाय नमः । ओं वाजपेयात्मदैवताय नमः । ओं आब्रह्मकीटजननावनात्मने नमः । ओं चम्पकप्रियाय नमः । ओं पशुपाशविभागज्ञाय नमः । 960 ओं परिज्ञानप्रदायकाय नमः । ओं कल्पेश्वराय नमः । ओं कल्पवर्याय नमः । ओं जातवेदसे नमः । ओं प्रभाकराय नमः । ओं कुम्भीश्वराय नमः । ओं कुम्भपाणये नमः । ओं कुङ्कुमाक्तललाटकाय नमः । ओं शिलीध्रपत्रसङ्काशाय नमः । ओं सिंहवक्त्रप्रमर्दनाय नमः । ओं कोकिलक्वणनाकर्णिने नमः । ओं कालनाशनतत्पराय नमः । ओं नैय्यायिकमतघ्नाय नमः । ओं बौद्धसङ्घविनाशनाय नमः । ओं हेमाब्जधृतपाणये नमः । ओं होमसन्तुष्टमानसाय नमः । ओं पितृयज्ञस्यफलदाय नमः । ओं पितृवज्जनरक्षकाय नमः । ओं पदातिकर्मनिरताय नमः । ओं पृषदाज्यप्रदायकाय नमः । 980 ओं महासुरवधोद्युक्ताय नमः । ओं स्वास्त्रप्रत्यस्त्रवर्षकाय नमः । ओं महावर्षतिरोधानाय नमः । ओं नागाधृतकराम्बुजाय नमः । ओं नमः स्वाहा वषट् वौषट् पल्लवप्रतिपादकाय नमः । ओं महिरसदृशग्रीवाय नमः । ओं महिरसदृशस्तवाय नमः । ओं तन्त्रीवादनहस्ताग्राय नमः । ओं सङ्गीतप्रीतमानसाय नमः । ओं चिदंशमुकुरावासाय नमः । ओं मणिकूटाद्रिसञ्चराय नमः । ओं लीलासञ्चारतनुकाय नमः । ओं लिङ्गशास्त्रप्रवर्तकाय नमः । ओं राकेन्दुद्युतिसम्पन्नाय नमः । ओं यागकर्मफलप्रदाय नमः । ओं मैनाकगिरिसञ्चारिणे नमः । ओं मधुवंशविनाशनाय नमः । ओं तालखण्डपुरावासाय नमः । ओं तमालनिभतेजसे नमः । श्रीपूर्णापुष्कलाम्बा समेत श्रीहरिहरपुत्रस्वामिने नमः ॥ 1000 इति श्री अय्यप्प सहस्रनामावली ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits