Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

अय्यप्प अष्टोत्तर शत नामावलिः

ओं महाशास्त्रे नमः ।
ओं महादेवाय नमः ।
ओं महादेवसुताय नमः ।
ओं अव्ययाय नमः ।
ओं लोककर्त्रे नमः ।
ओं लोकभर्त्रे नमः ।
ओं लोकहर्त्रे नमः ।
ओं परात्पराय नमः ।
ओं त्रिलोकरक्षकाय नमः ।
ओं धन्विने नमः । 10
ओं तपस्विने नमः ।
ओं भूतसैनिकाय नमः ।
ओं मन्त्रवेदिने नमः ।
ओं महावेदिने नमः ।
ओं मारुताय नमः ।
ओं जगदीश्वराय नमः ।
ओं लोकाध्यक्षाय नमः ।
ओं अग्रण्ये नमः ।
ओं श्रीमते नमः ।
ओं अप्रमेयपराक्रमाय नमः । 20
ओं सिंहारूढाय नमः ।
ओं गजारूढाय नमः ।
ओं हयारूढाय नमः ।
ओं महेश्वराय नमः ।
ओं नानाशस्त्रधराय नमः ।
ओं अनर्घाय नमः ।
ओं नानाविद्याविशारदाय नमः ।
ओं नानारूपधराय नमः ।
ओं वीराय नमः ।
ओं नानाप्राणिनिषेविताय नमः । 30
ओं भूतेशाय नमः ।
ओं भूतिदाय नमः ।
ओं भृत्याय नमः ।
ओं भुजङ्गाभरणोत्तमाय नमः ।
ओं इक्षुधन्विने नमः ।
ओं पुष्पबाणाय नमः ।
ओं महारूपाय नमः ।
ओं महाप्रभवे नमः ।
ओं मायादेवीसुताय नमः ।
ओं मान्याय नमः । 40
ओं महानीताय नमः ।
ओं महागुणाय नमः ।
ओं महाशैवाय नमः ।
ओं महारुद्राय नमः ।
ओं वैष्णवाय नमः ।
ओं विष्णुपूजकाय नमः ।
ओं विघ्नेशाय नमः ।
ओं वीरभद्रेशाय नमः ।
ओं भैरवाय नमः ।
ओं षण्मुखध्रुवाय नमः । 50
ओं मेरुशृङ्गसमासीनाय नमः ।
ओं मुनिसङ्घनिषेविताय नमः ।
ओं देवाय नमः ।
ओं भद्राय नमः ।
ओं जगन्नाथाय नमः ।
ओं गणनाथाय नमः ।
ओं गणेश्वराय नमः ।
ओं महायोगिने नमः ।
ओं महामायिने नमः ।
ओं महाज्ञानिने नमः । 60
ओं महास्थिराय नमः ।
ओं देवशास्त्रे नमः ।
ओं भूतशास्त्रे नमः ।
ओं भीमहासपराक्रमाय नमः ।
ओं नागहाराय नमः ।
ओं नागकेशाय नमः ।
ओं व्योमकेशाय नमः ।
ओं सनातनाय नमः ।
ओं सगुणाय नमः ।
ओं निर्गुणाय नमः । 70
ओं नित्याय नमः ।
ओं नित्यतृप्ताय नमः ।
ओं निराश्रयाय नमः ।
ओं लोकाश्रयाय नमः ।
ओं गणाधीशाय नमः ।
ओं चतुष्षष्टिकलामयाय नमः ।
ओं ऋग्यजुःसामरूपिणे नमः ।
ओं मल्लकासुरभञ्जनाय नमः ।
ओं त्रिमूर्तये नमः ।
ओं दैत्यमथनाय नमः । 80
ओं प्रकृतये नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं कालज्ञानिने नमः ।
ओं महाज्ञानिने नमः ।
ओं कामदाय नमः ।
ओं कमलेक्षणाय नमः ।
ओं कल्पवृक्षाय नमः ।
ओं महावृक्षाय नमः ।
ओं विद्यावृक्षाय नमः ।
ओं विभूतिदाय नमः । 90
ओं संसारतापविच्छेत्त्रे नमः ।
ओं पशुलोकभयङ्कराय नमः ।
ओं रोगहन्त्रे नमः ।
ओं प्राणदात्रे नमः ।
ओं परगर्वविभञ्जनाय नमः ।
ओं सर्वशास्त्रार्थतत्वज्ञाय नमः ।
ओं नीतिमते नमः ।
ओं पापभञ्जनाय नमः ।
ओं पुष्कलापूर्णसम्युक्ताय नमः ।
ओं परमात्माय नमः । 100
ओं सताङ्गतये नमः ।
ओं अनन्तादित्यसङ्काशाय नमः ।
ओं सुब्रह्मण्यानुजाय नमः ।
ओं बलिने नमः ।
ओं भक्तानुकम्पिने नमः ।
ओं देवेशाय नमः ।
ओं भगवते नमः ।
ओं भक्तवत्सलाय नमः । 108
इति श्री अय्यप्प अष्टोत्तरशतनामावली ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits